किलुवेय्य अग्निपर्वतस्फोटनेन महान् लावा प्रवाहः
होणलूलु > हवायि द्वीपस्थ किलुवेय्य अग्निपर्वत स्फोटनेन महान् द्रावकाग्निप्रवाहः ('लावा') अजायत। विस्फोटनेन सह भूभ्रंशः अपि अभवत्। किलुवेय्यपर्वतस्य पूर्वदक्षिणभागे जातस्य भूकम्पस्य शक्तिः भूकम्पमापिन्यां ६.९ इति मापिता अस्ति।OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Friday, May 11, 2018
सार्वजनिककर्मविभागे अलीकः - केजरिवालस्य बन्धुः गृहीतः।
नवदिल्ली> अलीकारोपणानुबन्धतया दिल्लीमुख्यमन्त्रिणः अरविन्द केजरिवालस्य बन्धुः बन्धितः। सार्वजनिक कर्मविभागस्य मार्गमालिन्य कूल्यानिर्माणे व्यतिलोमः कृतः इति कारणेन विनय बन्सालि नामकः दिल्लीस्थ भ्रष्टाचारविरुद्धविभागेन बन्धितः ।बन्सालस्य अड्गत्वेन विराजमानायाः निर्माणसंस्थायाः आसीत् निर्माणस्य उत्तरदायित्वम् । बन्सालस्य निर्माणसंस्थायाः नियमान् उल्लङ्ख्य निर्माणानुज्ञा दत्ता इत्यस्य २०१७ मेय् मासस्य अष्टमदिनाङ्के सार्वजनिक कर्मविभागेन अरविन्द् केजरिवालं विरुद्ध्य विकल्पनियामकविधानं पञ्जीकृतम् आसीत्॥
ऋषभ् पन्तस्य शतकं निष्फलम्
-रजीष् नम्पीशः
दल्ही > विवो ऐ पि एल् २०१८ सपर्यायाः तृतीयं शतकम् दल्हीदलस्य ऋषभपन्तस्य वल्लकात् जातायां क्रीडायां विजयस्तु हैदराबाददलेन प्राप्तः। ह्यः रात्रौ सम्पन्नकीडायां हैदराबाददलं ९ क्रीडकैः दल्हीदलं पराजयत्। प्रथमक्रीडनावसरे दल्हीदलं ऋषभपन्तस्य एकाङ्गप्रकटनेन ५ क्रीडकानां नष्टेन १८७ धावनाङ्कान् समपादयत्। ऋषभपन्तेन केवलं ६३ कन्दुकेभ्यः १२८ धावनाङ्काः प्राप्ताः। किन्तु प्रतिक्रीडनवेलायां हैदराबाददलं नायकस्य केन् विल्यंसस्य शिखर्धवानस्य च क्षमापूर्णप्रकटनेन १ क्रीडकनष्टेन विजयं समपादयत्। धवान् ९२(५०), विल्यंसः ८३(५३) च धावनाङ्कान् प्राप्तवन्तौ। हैदराबाददलं अङ्कपट्टिकायां प्रथमं वर्तते। पराजयेनानेन दल्हीदलस्य प्रतीक्षाः अस्तंगताः। अङ्कस्थितिः दल्ही डेर् डेविल्स्- १८७/५ सण् रैसेर्स् हैदराबाद्- १९१/१(१८.५).Thursday, May 10, 2018
प्रधानमन्त्रिणं प्रतीक्ष्य स्थातुं न शक्यते। अतिवेग मार्गः विलम्बं विना उद्घाटनीयः - सर्वोच्चन्यायालयः।
नवदिल्ली> दिल्लीनगरस्य अतिरूक्षवाहनसम्मर्दं मलिनीकरण समस्यां च परिहर्तुम् उद्दिश्य निर्मितस्य अतिवेगमार्गस्य उद्घाटनं विलम्बायते इत्यस्य विप्रतिपत्तिं विज्ञापयन् सर्वोच्यन्यायालयः । उद्घाटनाय प्रधानमन्त्रिणं प्रतिपाल्य किमर्थं स्थास्यते इति न्यायालयः अपृच्छत्। जूण् मासस्य प्रथमदिनाङ्के जनेभ्यः मार्गः उद्घाट्य दातव्यः इति न्यायालयः निरदिशत्।
राष्ट्रियमार्ग आयोगस्य अधीनतायां निर्मितस्य 'ईस्टेण् पेरिफरल् एक्स्प्रस् वे' इत्यस्य उद्घाटनानुबन्धतया एव उच्चन्यायालयस्य आदेशः। न्यायाधीशौ मदन् बि लोकूर् दीपक् गुप्तः च पीठे उपस्थितौ अस्ताम् I
Wednesday, May 9, 2018
राजस्थानदलस्य विजयः
रजीष् नम्पीशः
जयपुरम् > विवो ऐ पि एल् २०१८ सपर्यायां ह्यः सम्पन्नक्रीडायां राजास्थानदलेन १५ धावनाङ्कैः पञ्जाबदलं पराजितम्। राजस्थानदलं जोस् बट्लरस्य सामर्थ्येन १५८ धावनाङ्कान् समपादयत्। बट्लरः ८२ धावनाङ्कान् प्रापयत्। प्रतिक्रीडनवेलायां पञ्जाबदलेन ७ क्रीडकानां नष्टेन १४३ धावनाङ्काः एव सम्पादिताः। पञ्जाबदले के एल् राहुलं विना अन्यः यः कोऽपि सम्यक् कीडितुं समर्थ: नाभवत्। राहुलः ७० कन्दुकेभ्यः ९५ धावनाङ्कान् सम्पाद्य क्रीडान्तं यावत् स्थितः अभवत्। जयेनानेन राजस्थानदलम् अन्तिमस्थानात् षष्ठं स्थानं प्रति उन्नीतम्। पञ्जाबदलं तृतीयस्थाने वर्तते। अङ्कस्थितिः- राजस्थान् रोयल्स् १५८/८ किङ्स् इलवन् पञ्जाब् १४३/७.
Tuesday, May 8, 2018
पत्रकारस्य रामचन्द्रस्य हत्याप्रकरणे डेराप्रमुखं रामरहीमं विरुध्य वादश्रवणमद्य
-पुरुषोत्तमशर्मा
पञ्चकूला> पञ्चकूलायां केन्द्रीयान्वेषणाभिकरणस्य विशेषन्यायालये अद्य पत्रकारस्य रामचन्द्रस्य हत्याप्रकरणे वादश्रवणं भविष्यति। विगतवादश्रवणावधौ प्रकरणस्य मुख्यसाक्ष्येन रामरहीमस्य पूर्ववाहनचालकेन खट्टासिंहेन समं परिपृच्छा अभवत्। अद्य खट्टासिंहस्य वक्तव्ये प्रश्नोत्तरं विधीयते। डेराप्रमुख: रामरहीम: वीडियोकॉन्फ्रेंसिंग इति दृश्यश्रव्याङ्नद्वारा न्यायालयम् उपस्थास्यति। पूर्णप्रतिवादप्रक्रियानन्तरं निर्णय: भविष्यति। उल्लेखनीयमस्ति यत् साध्वी यौनशोषणप्रकरणे सुनारिया कारावासे निगडितस्य गुरमीतरामरहीमस्य समस्या: प्रकरणेनानेन विवर्धन्ते।
व्लादिमीरपुतिन: चतुर्थवारं राष्ट्रपतित्वेन शपथं स्वीकृतवान्
-पुरुषोत्तमशर्मा
नवदिल्ली> व्लादिमीरपुतिन: भूयोsपि षड्सप्तति प्रतिशतं मतदानमधिगम्य राष्ट्रपतित्वेन प्रचित:। 65 वर्षीय: पुतिन: दशकद्वयं तावत् स्थानारूढ: अवर्तत। पुतिनेन जोज़फ-स्टालिनस्य अनन्तरं सर्वाधिकवर्षाणि यावत् राष्टपतित्वेन कार्यं कर्तुम् अवसर: प्राप्त:। २०२४ तमे ईशवीयाब्दे पुतिनस्य कार्यकाल: समाप्तिं यास्यति। २०२४ ईशवीयाब्दानन्तरं रष्याया: संविधानानुसारेण राष्ट्रपतिपदाय तस्मै अवसर: नैव प्रदास्यति। श्रीपुतिनेन समाश्वासितं यत् स्वीये कार्यकाले देशस्य आर्थिकस्थितिं पुनरितोऽप्यधिकतया सुदृढीकरिष्यामि अन्ताराष्ट्रियविवादानां समाधनामपि करिष्यामि इति॥
कत्वा उपधा जम्मोः बहिः।
नवदिल्ली > जम्मु काश्मीरस्य कत्वा प्रदेशे अष्टवयस्का बालिका बलात्कारेण मृत्युमुपगता इत्यस्य विषयस्य उपधां पञ्चाबस्थं पठान्कोट्ट् न्यायालयं प्रति परिवर्त्य सर्वोच्चन्यायालयस्य आदेशः। हत्याभीषा अस्तीति बालिकायाः परिवारस्य तेषां न्यायवादिन्यः च अभियाचिकायाः आधारेणैव अयं निर्णयः।
मुख्यन्यायाधीशं विरुद्ध्य दोषशोधनायै - कोण्ग्रस् दलं सर्वोच्चन्यायालये।
नवदिल्ली> मुख्यन्यायाधीशं दीपकमिश्रं विरुद्ध्य दोषशोधनापत्रं तिरस्कृतवान् उपराष्ट्रपतिः इति कारणेन द्वौ कोण्ग्रस् सामाजिकौ उच्चन्यायालये व्यवहारं पञ्जीकृतौ। राज्यसभा सामाजिकौ प्रतापसिंहबज्व, अमीहर्षाद्रि यजनिकश्च एतौ। उपराष्ट्रपतेः प्रक्रमः पक्षपातसहितः राजनैतिकप्रभावेन च इति दोषारोपम् उन्नीतवन्तौ। अन्वेषणाय न्यायाधीशानां समितिः आवश्यकी इति सामाजिकौ न्यवेदितवन्तौ। राज्यसभानियमानि उल्लंघितानि इत्युक्त्वा आसीत् सभाध्यक्षस्य वेङ्कय्यनायिड्डुवर्यस्य दोषशोधनापत्रतिरस्कारः। मुख्यन्यायाधीशं विरुद्ध्य दोषशोधनापत्रप्रदानाय दोषप्रकाशनाय यानि प्रमाणानि आवश्यकानि तानि नास्तीति वेङ्कय्यनायिडुवर्यः असूचयत्।
Monday, May 7, 2018
काबूले षड् भारतीयाः बन्धिताः
काबूल् > अफ्गानिस्थानस्य 'बघ्लान्' प्रविश्यायां षट् भारतीयान् यन्त्रकुशलान् [engineers] तद्देशवासिनं चालकं च केचन आयुधधारिणः अपहृतवन्तः। अफ्गान् सर्वकारस्य स्वामित्वे वर्तमाने विद्युन्निलये कर्मकराः एते, ते एव रविवासरे अपहृताः बन्धिताश्च।घटनायाः उत्तरदायित्वं केनापि न स्वीकृतं तथापि तालिबान् भीकरैरेव आक्रमणं कृतमिति बघ्लान् प्रविश्यायाः राज्यपालः अब्दुल्ला नेमाती अवदत्। तत्रस्थानां गोत्रमुख्यानां साहाय्येन भारतीयान् मोचयितुं चर्चाः पुरोगच्छछन्ति इति नमेतिवर्येण उक्तम्।
Subscribe to:
Posts (Atom)