OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Wednesday, March 14, 2018
स्टीफन् होक्किङ् दिवंगतः।
कोच्चि > विश्वप्रसिद्धः भौतिकशास्त्रज्ञः स्टीफन्होक्किङ् केम्ब्रिड्जस्थे स्वभवने दिवंगतः। षट्सप्ततिवयस्कः सः 'मोटोर् न्यूरोण्' नामकरोगबाधितः सन् यौवनारम्भादारभ्य चक्रासन्दमाश्रित्य एव जीवनं यापयन्नासीत्। होक्किङ् वर्यस्य तमोगर्तानि अधिकृत्य स्वाध्यायः गवेषणं च इतःपर्यन्तं वर्तमानं शास्त्रसङ्कल्पं परावर्तयत। 'ब्रीफ् हिस्टरि आफ् टैम्' [कालचरितसंक्षेपः] नामकः ग्रन्थः तेन विरचितेषु ग्रन्थेषु लोकप्रशस्तः अभवत्।
छत्तीसगढ़े मावोवाद्याक्रमणं - नव सि आर् पि एफ् सैनिकानां वीरमृत्युः।
राय्पुरम् > छत्तीसगढ राज्ये सुक्मा जनपदे गतदिने मध्याह्ने प्रवृत्तेन मावोवादिनाम् आक्रमणेन नव सि आर् पि एफ् भटाः मृताः। द्वौ व्रणितौ। खनितबोम्बशस्त्राणि अधिगम्य निर्वीर्यतां क्रियमाणं सैनिकवाहनं लक्ष्यीकृत्य मावोवादिनः बोम्बाक्रमणं कृतवन्तः आसन्।
'किस्ताराम्-पलोडि' मार्गे आसीत् आक्रमणं प्रवृत्तम्। तत्र परिक्रमणं कृतवतः रक्षाबलस्य २१२तम व्यूहस्य वाहनमेव आक्रमणविधेयमभवत्। ऐ इ डि नामकम् अत्युग्रस्फोटकशेषयुक्तं शस्त्रमुपयुज्य अासीदाक्रमणम्।
Tuesday, March 13, 2018
महाराष्ट्रे कृषकविजयः।
मुम्बई > महाराष्ट्रं संतप्तं कृत्वा कृषकैः आयोजितस्य प्रक्षोभस्य विजयपूर्णः परिसमाप्तिः। कृषकाणां निवेदनानि सर्वाणि परिहरिष्यतीति राज्यसर्वकारस्य प्रमाणीकृतविश्वासस्य आधारे १८० कि मी दूरपरिमितं पथसञ्चलनं मुम्बय्यां परिसमाप्तम्।
मुम्बई केन्द्रीकृतानां राजनैतिक-सांस्कृतिक-सन्नद्धसंघटनानां सामाजिकजनानां च अत्यपूर्वः अभियोगः अभिनन्दनं च प्रक्षोभकाः कृषकाः संप्राप्ताः इति विज्ञाय मुख्यमन्त्री देवेन्द्रफट्नविस् वर्यः आन्दोलनप्रशमनाय निर्बन्धितः अभवत्। विधानसभासम्मेलनकाले विधानसभोपरोधः आसीत् प्रक्षोभकाणां लक्ष्यम्।
चन्द्रयानम् २ आगामि मासे विक्षिप्यते- ऐ एस् आर् ओ।
चेन्नै> भारतबाह्याकाशानुसन्धान केन्द्रेण निर्मितः क्रित्रिमोपग्रहः चन्द्रयानं द्वितीयम् इति नामकः एप्रिल् मासे विक्षिप्यते इति अध्यक्षेण डा. शिवेन उक्तम्। चन्द्रस्य उपरितलं सूक्ष्मतया निरीक्षितुं शक्यते अनेन। येनकेनापि कारणेन विक्षेपणं स्थगितं चेदपि अक्टोबर् मासे विक्षेपणं भविष्यति इति डा शिवेन उक्तम्।
भ्रमणपथे चन्द्रं परितः भ्रमणाय पेटिका, दक्षिण ध्रुवे अवतारयितुम् उद्दिश्य अवतारिणिका, चन्द्रोपरितलपर्यवेषणाय षट्चक्रिकं विशेषयानम् इति भागत्रयं वर्तते चन्द्रयाने द्वितीये। चन्द्रोपरितलस्थाः मृदः गुणविशेषान् अपि उपग्रहः ततः प्रेषयिष्यते। चन्द्रयानेन सह वार्ताविनिमयाय जि साट् ६ (GSLV F.08)अपि विक्षेपणाय सज्जीकरिष्यति इति च अध्यक्षेण उक्तम्।
Monday, March 12, 2018
संस्कृतपठनेन मनःसंस्करणं शक्यते- चित्रन् नम्पूतिरिप्पाट्।
त्रिश्शिवपेरूर्> मनसः शुद्धिधिः शान्त्रिपूर्णजीवने अवश्यं भवति। संस्कृतपठनेन मनसः सांस्कृतिकभावः वर्धते इति सांस्कृतिक-शिक्षामण्डलेविचक्षणः चित्रन् नम्पूतिरिप्पापााट् वर्यः अवदत्। विश्वसंस्कृतप्रतिष्ठानस्य तृशूर तालूक् वार्षिकमेलनम् उद्घााटनं कृत्वा भाषमाणः आसीत् सः। २१ ०.०३.२०१८ शनिवासरे सायं ४.०० वादने तृशूर नगरे लक्ष्मीमण्डपे आसीत् मेलनम् । आयुर्वेदकलाशालाद्ध्यापकः डा. गौरीशङ्करः छात्राणां प्रमाणपत्रवितरणं कृतवान् । जिल्लाशिक्षकप्रमुखः डा. डी प्रकाश् महोदयः मुख्यभाषणं कृतवान् । योगस्य आरम्भात्पूर्वं प्रकाश् महोदयस्य संस्कृतपाठनमपि आसीत् । रमेष् केचेरी , अजितन् वारियर् च आशंसां समर्पितवन्तौ ।
तेनिदेशे दावाग्न्याम् अन्तर्गतानां २५ विद्यार्थिनां कृते अन्वेषणम् अनुवर्तते १५ छात्राः रक्षिताः।
चेन्नै> तमिल्नाट् राज्यस्य तेनी नाम वनप्रदेशे पर्वतारोहणाय गताः छात्राः दावाग्न्न्याम् अन्तर्गताः। एका हता इति आवेदनम् अपि आगच्छति। पञ्चविंशति (२५) छात्राः वने अस्तीति आवेद्यते। वनविभागेन तथा अग्निशमनविभागेन च रक्षा-प्रवर्तनानि कुर्वन्ति। कुरङ्ङणि वनप्रदेशस्ते कुळुक्पर्वते पर्वतारोहणाय गताः एव अपघाते पतिताः।
चवारिंशत् (४०) छात्राः संघे आसीत्। तेषु पञ्चदश रक्षिताः। एते अग्निना व्रणिताः। सप्तछात्राः बोडिनाय्क्कन्नूर् सर्वकारीय आतुरालये प्रविष्टाः।
व्योमसेनायाः उदग्रयानानि राक्षाप्रवर्तनाय आगतानि चेदपि प्रकाशस्य अभावेन रक्षाप्रवर्तनानि स्तगितानि। वनान्तर्भागे अपगतेषु छात्रेषु एकः दूरवाणीद्वारा स्वस्य गृहं आहूय्य अपघातवार्ता न्यवेदिता । तदनन्तरम् इमां घटनां ज्ञात्वा वनविभागस्य प्रवर्तकैः राक्षाप्रवर्तनानि आरब्धानिI यानगमनमार्गात् पञ्चविंशति किलोमीट्टर् दूरे एव अयम् अपघातदेशः इत्यनेन सुरक्षाप्रवर्तनेभ्यः वैक्लब्यम् अनुभूयन्ते|
षि जिन् चीनायाः आजीवनान्तचक्रवर्ती।
बेय्जिङ् > चीनाराष्ट्रपतिः 'षी जिन् पिङ्' नामकः परं राष्ट्रस्य सर्वाधिपतिः भविष्यति। सः आजीवनान्तं राष्ट्रपतिपदे वर्तितुं राष्ट्रस्य अनुशासननियमः न विघातः भविष्यति। वारद्वयाधिकं एकः राष्ट्रपतिपदमलङ्कर्तुं नार्हतीति तस्य राष्ट्रस्य अनुशासनव्यवस्थां निराकृत्य चीनायाः सामाजिकसभायाः [नेषणल् पीपिल्स् कोण्ग्रस्] सांवत्सरीयपरिषदा अनुशासनधर्मस्य संशोधनं कृतम्।
२०१३ तमे अधिकारं प्राप्तस्य षि जिन् पिङ्ङस्य शासनावधिः २०२३ तमे वर्षे समाप्तिं प्राप्स्यति इत्यस्मिन् सन्दर्भे एव प्रमुखोऽयं निर्णयः। २०१२ तमे चैना कम्म्यूणिस्ट् दलस्य सचिवप्रमुखत्वेन अधिकारं प्राप्तः षि जिन् तस्मादारभ्य सर्वान् प्राक्तनाचारान् उल्लङ्घ्य दलस्य तथा राष्ट्रस्य च एकाधिपतिः भवितुं प्रवर्तनानि तेन आरब्धानि। दलस्य शासनसंविधाने स्वस्य नाम राजनैतिकतत्त्वानि च अन्तर्भाव्य चीनाराष्ट्रपितुः मावो से तूङ् वर्यस्य समानः भवितुमुद्दिश्य तस्य प्रयत्नः सफलो जातः।
न्यूनमर्दः शक्तः संप्राप्यते, केरल-तमिल् नाट् लक्षद्वीप् प्रदेशेषु अतिवर्षस्य वातस्य च साध्यता।
अनन्तपुरी > कन्याकुमार्याः दक्षिणाशायां तथा श्रीलङ्कायायाः उत्तरे भागे भारतमहासमुद्रे सञ्जातः न्यूनमर्दः शक्तिं प्राप्नोति। आगामिदिनेषु अतिशक्तयोः वर्षवातयोः साध्यता वर्तते। अतः धीवराः समुद्रगमनात् प्रतिनिवर्तव्याः इति दुरन्तनिवारणसंस्थया तथा पर्यावरणनिरीक्षणकेन्द्रेण च पूर्वसूचना दीयते।
श्वः दक्षिणकेरले तथा तमिल्नाटु राज्यस्य दक्षिणप्रान्तेषु च पृथक्कृतः वर्षः भवेत्। आगामिदिनद्वये लक्षद्वीपमण्डले अतिवर्षस्य वातस्य च साध्यता अस्ति।
Sunday, March 11, 2018
मुम्बई लक्ष्यीकृत्य कृषकाणां बृहत्पथसञ्चलनम्।
मुम्बई > अखिल भारतीय किसान् सभायाः नेतृत्वे अयुतशः कृषीवलेः आयोज्यमानं पथसञ्चलनं श्वः मुम्बय्यां प्राप्नोति। महाराष्ट्रायां नासिक्तः आरभ्य १८० कि मी दूरमतिक्रम्य पथसञ्चलनं यदा मुम्बय्यां प्राप्स्यति तदा लक्षाधिकं कृषकाः भागं स्वीकुर्युः इति संघाटकैरुक्तम्।
कार्षिकनष्टेन आत्महत्यापरम्पराम् अनुवर्तमाने महाराष्ट्रे कृषकाणां दुरितपरिहारमालम्ब्य एव विधानसभां प्रति पथसञ्चलनम् आयोजितम्।
Subscribe to:
Posts (Atom)