अफ्गानिस्थाने आत्मघात्याक्रमणं - ४० मरणानि।
काबूल् > अफ्गानिस्थानस्य राजधान्यां काबूल् नगरस्थे सांस्कृतिकनिलये गतदिने संवृत्ते आत्मघात्याक्रमणे चत्वारिंशत् जनाः हताः। पञ्चाशदधिकाः आहताः। आक्रमणस्य उत्तरदायित्वं इस्लामिकस्टेट् संस्थया स्वीकृतम्। काबूलस्थानां इस्लामधर्मस्य षियाविभागानां सांस्कृतिककेन्द्रं 'ताबायान्' लक्ष्यीकृत्य आसीदाक्रमणम्।OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Friday, December 29, 2017
पाकिस्थानेन कुल्भूषणस्य परिवारः अपमानितः; "देशः ऐकमत्येन तिष्ठतु”- सुषमा स्वराज्
लिषा सी. आर्
नवदिल्ली> देशः ऐकमत्येन कुल्भूषण् जाधवस्य परिवारेण साकं तिष्ठतु इति विदेशकार्यमन्त्रिणी सुषमा स्वराज् महाभागया उक्तम्। पाकिस्थानः कुल्भूषण् यादवस्य परिवारं प्रति मानवबहुमतिं अलंघयत्। अमुं विषयमधिकृत्य भारतस्य प्रतिषेधः पाकिस्थानं प्रति प्रकटितः इति राज्यसभायां सा उक्तवती। जाधवस्य पत्न्याः मातुः च मङ्गलचिह्नानि, पत्न्याः सीमन्तस्थकुंकुमं च मार्जयित्वा विधवारूपेण कुल्भूषणस्य पुरतः अनयताम्। कुलभूषणस्य कुटुम्बस्य अपमानीकरणं पाक्किस्थानस्य लक्ष्यम्। पाक्किस्थानं विरुद्ध्य प्रतिषेधः करोतु इति पार्ल्मेन्ट् समूहान् सा आह्वानं कृतवती।
कुल्भूषणस्य पत्न्याः पादुके क्यामरा, चिप् इत्यादि उपकरणानि निवेशितः इति पाक्देशस्य आरोपणानि परिहासार्हाणि अयं पादुकं धृत्वा एव ते द्वे विमानमार्गेण यात्रां कृत्वा पाक्देशं गच्छतः। अस्य परिवारं प्रति पाक्देशस्य प्रवृत्तिः मनुष्यत्वरहितेन एव। साडिकायाः स्थाने 'साल्वार् कम्मीस्' धर्तुम् निर्बन्धिता अभवत् जाधवस्य माता। तयोः समीपे स्थितवन्तौ द्वौ पाक् अधिकारिणौ मराठीभाषायां भाषणं कर्तुं अनुज्ञा न दत्तवन्तौ, किन्तु पुनः मराठी भाषायां भाषणं कृतवती इत्यनेन इन्टेर्कोम् प्रवर्तनरहितम् अकुरुताम्। विपक्षदलनेता गुलांनबि आज़ाद् च पाक्देशस्य इदं हीनकृत्यं विमर्शितवान्। तैः देशस्य सर्वाः स्त्रियः। अपमानिताः इत्यपि सः अवदत् अन्ये सर्वे विपक्षदलनेतारः च पाक्देशस्य प्रवृत्तिं प्रति विप्रतिपत्तिं सभायां उक्तवन्तः।
Thursday, December 28, 2017
ओखी दुरिताश्वासाय १३३कोटि रूप्यकाणाम् अनुज्ञा कृता।
अनन्तपुरी > ओखीचक्रवातदुष्प्रभावबाधितेभ्यः त्रयस्त्रिंशदधिकशतकोटि रूप्यकाणां साहाय्यम् अनुज्ञापयिष्यतीति केन्द्रसङ्घेन उक्तम्। ४२२ कोटिरूप्यकाणि राज्यसर्वकारेण अर्थितानि। केन्द्रगृहमन्त्रालयस्य उपसचिवस्य विपिन् मालिक् वर्यस्य नेतृत्वे आगतः सङ्घः त्रिधा विभज्य केरलस्य विविधेषु दुरन्तबाधितप्रदेशेषु सन्दर्शनमकरोत्। सन्दर्शनं पूर्तीकृत्य श्वः दिल्लीं प्रतिगमिष्यति।
सेन्ट् पीट्टेर्स् बर्गे विस्फोटः
लिषा सी.आर्
मोस्को> रष्यायां सेन्ट् पीट्टेर्स् बर्ग् व्यापार केन्द्रे आपन्ने विस्फोटे दश जनाः क्षतजाः अभवन्। विपुलापणकेन्द्रे अयं विस्फोटः जातः इति रष्यादेशस्य वार्तासंस्थया आवेदितः। किन्तु विस्फोटे कोऽपि मृताः वा इति आवेदने नास्ति। विपुलापणकेन्द्रे सङ्क्रयणाय आगताः जनाः एव विस्फोटनेन क्षतजाः। चत्वारः जनाः आतुरालये प्रविष्टाः। अयं विषयमधिकृत्य रष्यादेशस्य सुरक्षा अधिकाारिणा अन्वेषणं आरब्धम्। नववत्सरपर्वानुबन्धतया नगरेषु महान् जनसम्मर्दः आसीत्। एतान् जनान् उद्दिश्य आसीत् वा स्फोटः इति न व्यक्तः। स्फोटनानन्तरं प्रदेशात् जनाः निष्कासिताः। ’प्ररक्रे स्टोक्’ नाम विपुल्लापणकेन्द्रे एव स्फोटः जातः।
इस्रयेलः पलस्तीनः, एते द्वे राष्ट्रे भवतु - मार् पाप्पा
'मार् पाप्पा'- वत्तिक्कान् राष्ट्रस्य सेन्ट् पीट्टेर्स् देवालये सम्पन्ने क्रिन्तु जयन्ती शिश्रूषामध्ये येशुदेवस्य बलरूप प्रतिमां हस्ते आदाय ) |
वत्तिक्कान् सिट्टी > इस्रायेल- पलस्तीनौ उभौ राष्ट्रौ स्वतन्त्र राष्ट्रौ भूत्वा पश्चिम-एष्याखण्डस्य समस्यायाः परिहारः कर्तव्यः इति फ्रान्सिस् मार् पाप्पया उक्तम् । यु एस् राष्ट्रपतिः डोणाल्ड् ट्रम्पेण जरुसलें देशः इस्रायेलस्य राजधानित्वेन प्रख्यापितायां अवस्थायां सङ्घर्षान् निर्मार्जयितुं शान्तिसंवादः पुनरारम्भणीयः इत्यपि मार्पाप्पवर्येण निर्दिष्टम्।
इस्रयेलपालस्तीनयोः समस्यया जायमानकलहः अनुवर्त्यते चेत् पश्चिमेष्यायाः शिशवः एव कष्टतायां पतन्ति। अतः उभौ राष्ट्रौ अचिरादेव चर्चां कृत्वा तेनविषयपरिहाराय शुभ मार्गः भुयात् इति प्रार्थयामहे इति सन्दर्भेस्मिन् पाप्पवर्येण उक्तम्। विश्वे सर्वत्र अशन्तिः वर्धते। युद्धभीषायाः वातः सर्वत्र वाति। जायमानेषु युद्धेषु शिशवः एव अधिकं कष्टम् आवहन्ति। तेषां निरालम्बानां शिशूनां मुखे मार्गालये प्रवेशं अलभमानस्य येशुदेवस्य एव मुखं दृष्टव्यम् इति तेन उद्बोधितम्।
Wednesday, December 27, 2017
अष्टनवति वयसि स्नातकोत्तर-बिरुदम्I
पाट्ना (पाटलीपुत्रम्)> अर्थशास्त्रे अष्टनवति वयसि स्नातकोत्तर बिरुदम् सम्पादितवान् राजकुमार वैश्यः नामकः लोकेतिहासपुस्तके स्थानं आवहति। ज्ञानार्जने वार्धक्यं न बाधा इति तेन प्रमाणीक्रियते। नालन्द ओप्पण् विश्वविद्यालयस्य भवति बिरुदम्।
१९४० तमे एषः नियमबिरुदं सम्पादितवान्। किन्तु कुटुम्बस्य आर्थिकक्लेशेन अध्ययनम् अनुवर्तितुम् अशक्तः आसीत्। अस्मिन् वार्धक्येपि स्नातकोत्तरबिरुदाय पञ्जीकृतवान् इत्यनेन 'लिंका बुक् आफ् वेल्ड् रेक्कोर्ड् मध्ये अस्य महोदयस्य नामः उल्लिखितः आसीत्।
नौकानिपातेन षट् बालकाः मृताः।
मलप्पुरं > केरले मलप्पुरं जनपदे चङ्ङरंकुलं प्रदेशस्थे तटाके नौका निपात्य षड्बालकाः मृताः। मृतेषु पञ्च परिवारैकभूताः भवन्ति। नरणिप्पुष़प्रदेशस्थे माप्पालिक्कल् भवने वेलायुधः [५५] तस्य तथा सहोदरयोः च अपत्यैः साकं तटाकपरिदर्शनार्थं स्वस्यैव लघुनौकायां प्रस्थितः आसीत्। प्रातिवेशिकौ द्वौ बालकौ चास्ताम्। यात्रामारभ्य १५ मीटर् यावत् दूरे अतीते बालकाः नौकायाः एकमेव पार्श्वमुपवेशिताः इति दुर्घटनाकारणमिति सूच्यते। नौका तु षण्णाम् उपवेशनपरिमिता आसीत्। तत्स्थाने नव जनाः आसन्निति च दुर्घटनाकारणं मन्यते।
धीवरः वेलायुधः तटाके नौकाचालने च परिचयसम्पन्नः इत्यतः बान्धवानां निरुत्साहवचनानि अनादृत्य स्वगृहमभ्यागतानां बालकानाम् अभिलाषपूर्तीकरणाय उद्युक्तः अासीत्। परन्तु दशकानां संवत्सराणाम् परिचयसम्पत्तिः तस्य धैर्यश्च निष्फलतां प्राप।
Tuesday, December 26, 2017
भारते प्रतिरोध-विश्वविद्यालयः स्थापयिष्यते।
नवदिल्ली> प्रतिरोध मण्डेलेषु अधुनिकशिक्षा - नूतना साङ्केतिकता च लक्षीकृत्य भारतम् विश्वविद्यालयस्य स्थापनाय सन्नद्धम् अभवत्। प्रतिरोधानुसन्धानं तथा नयतन्त्राध्ययनेन सह विविधाः विषयाः च अध्ययन विभागे अन्तर्भावयति। भारतीय राष्ट्रिय प्रतिरोध विश्वविद्यालयः इति विद्यालयस्य नाम निश्चितम्। गुड्गावस्थ बिमोल नाम देशे भविष्यति विश्वविद्यालयस्य केन्द्रः। भारतस्य प्रप्रथमप्रतिरोधविद्यालयः भवति एषः। आगामि मन्त्रिसभा मेलने विश्वविद्यालयस्य प्रवर्तनाय अनुज्ञा लभतेI
हिमाचले जयराम् ठाक्कुरः मुख्यमन्त्री; शपथसमारोहः श्वः।
षिम्ला > हिमाचलप्रदेशे मुख्यमन्त्रिरूपेण भा ज पा सदस्यः जयराम ठाक्कुरः निर्णीतः। सप्ताहं यावत् अनुवर्तमानायाः परिचर्चायाः अन्ते एव जयरामस्य मुख्यमन्त्रिपदं प्रख्यापितम्। मुख्यमन्त्रिपदमलङ्कृतवान् प्रेम्कुमार् धूमालः अस्मिन् निर्वाचने पराजितः आसीत्। नियुक्तमुख्यमन्त्रिणः शपथसमारोहः श्वः षिम्लायां 'रिड्ज्' क्रीडाङ्कणे भविष्यति।
Subscribe to:
Posts (Atom)