OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Wednesday, December 27, 2017
Tuesday, December 26, 2017
भारते प्रतिरोध-विश्वविद्यालयः स्थापयिष्यते।
नवदिल्ली> प्रतिरोध मण्डेलेषु अधुनिकशिक्षा - नूतना साङ्केतिकता च लक्षीकृत्य भारतम् विश्वविद्यालयस्य स्थापनाय सन्नद्धम् अभवत्। प्रतिरोधानुसन्धानं तथा नयतन्त्राध्ययनेन सह विविधाः विषयाः च अध्ययन विभागे अन्तर्भावयति। भारतीय राष्ट्रिय प्रतिरोध विश्वविद्यालयः इति विद्यालयस्य नाम निश्चितम्। गुड्गावस्थ बिमोल नाम देशे भविष्यति विश्वविद्यालयस्य केन्द्रः। भारतस्य प्रप्रथमप्रतिरोधविद्यालयः भवति एषः। आगामि मन्त्रिसभा मेलने विश्वविद्यालयस्य प्रवर्तनाय अनुज्ञा लभतेI
हिमाचले जयराम् ठाक्कुरः मुख्यमन्त्री; शपथसमारोहः श्वः।
षिम्ला > हिमाचलप्रदेशे मुख्यमन्त्रिरूपेण भा ज पा सदस्यः जयराम ठाक्कुरः निर्णीतः। सप्ताहं यावत् अनुवर्तमानायाः परिचर्चायाः अन्ते एव जयरामस्य मुख्यमन्त्रिपदं प्रख्यापितम्। मुख्यमन्त्रिपदमलङ्कृतवान् प्रेम्कुमार् धूमालः अस्मिन् निर्वाचने पराजितः आसीत्। नियुक्तमुख्यमन्त्रिणः शपथसमारोहः श्वः षिम्लायां 'रिड्ज्' क्रीडाङ्कणे भविष्यति।
गुर्जरेषु विजय रूपाणि अद्य शपथं स्वीकरिष्यति।
अहम्मदाबाद् > अद्य गुजरात्त् राज्यस्य मुख्यमन्त्रिपदे शपथं कृत्वा आरुह्यते विजयरूपाणिना। उपमुख्यमन्त्री पदे नितिन् पट्टेलः च भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी, भा ज दलस्य राष्ट्रियाध्यक्षः अमित् षा, भा ज दलेन शासितराज्यस्य मुख्यमन्त्रिणः, केन्द्रमन्त्रिणश्च गान्धिनगरस्थ सचिवालय चत्वरे आयोक्ष्यमाणे मेलने भागभाजः भविष्यन्ति।
राज्यपालः ओं प्रकाश् कोह्लीवर्यः शपथवाक्यं प्रवक्ष्यति। नूतनाङ्गानाम् मन्त्रिसभायाम् अधिकं प्राधिनिध्यं भविष्यति। जैनधर्मानुयायी भवति विजयरूपाणि।
रष्याराष्ट्रपतिनिर्वाचनम् पुटिनस्य प्रतियोगिनम् अयोग्यः अकरोत्।
मोस्को> आगामि संवत्सरे प्रचरिष्ययमाणे राष्ट्रपति निर्वाचने स्पर्धितुकामो व्लाडिमिर् पुटिनस्य प्रतियोगी अलक्स् सि नवोणिः अयोग्यः जातः। रष्याराष्ट्रस्य निर्वाचनाध्यक्षेण अयोग्यत्वं ज्ञापितम् च। अलक्सि इत्याख्यस्य उपरि विद्यमानान् अपराधित्वााभियोगान् परिगणय्य एव आसीत् निर्वाचनायोगाध्यक्षस्य क्रियाविधयःI त्रिंशत् आयोगाङ्गेषु द्वादशानां मतः अलक्सिं विरुध्य आसीत्I एक चत्वारिंशत् वयस्कः अलक्सि नवोणिः सर्वजनिक-योगाः पदसञ्चलनादयाश्च नियमन्विरुद्धतया आयोजिताः इत्यनेन कारागाारे ग्रहीतः। अत एव निर्वाचने व्लाडिमिर् पुटिनः विजयी भविष्यति।
सरहस्यं जाधवस्य जीवनवृत्तम्। पाक् दृष्ट्या गुप्तचर: भारतीयदृष्ट्या वणिक्।
-पुरुषोत्तमशर्मा
नवदिल्ली >महाराष्ट्रस्य साङ्गल्यां गतशताब्दीये सप्ततितमे वर्षे अप्रैलमासस्य षोडशे दिनाङ्के लब्धजन्म: भारतीयनौसेनाया: प्राक्तन कमाण्डर् इति पदभाजनीभूत: कुलभूषणजाधव: पाकिस्तानेन षोडशोत्तरद्विसहस्रतमे वर्षे मार्चमासस्य तृतीये दिनाङ्के बलूचिस्तानात् निगडितः आसीत्। पाकिस्तानेनाक्षिप्तं यदसौ भारतीयगुप्तचरः वर्तते, यो हि (रिसर्च एंड एनालिसीस् विंग ) (रॉ) विभागाय कार्यं करोति स्म ।
निगडनस्य 20 दिनानन्तरं पाकिस्थानेन जाधवस्य स्वीकृते: तथाकथितं वीडियो इति दृश्याङ्कनमपि प्रसारितमासीत् , तत: परं सार्धत्रिमासानन्तरं अप्रैलमासस्य दशमे दिने फील्ड् जनरल् कोर्ट् मार्शल् इति न्यायालयेन तस्मै मृत्युदण्ड: श्रावितः।
ओडीषाराज्ये नालिकाकूपे पतिता बालिका रक्षिता।
भुवनेश्वरम् > ओडीषादेशे नालिकाकूपे पतिता बालिका सप्तघण्टायाः प्रयत्नस्य अन्ते रक्षिता अभवत्। अङ्कुळ् जनपदस्य गुलासर् ग्रामे एव घटनेयं जाता। राधा साहु नामिका बालिका प्रभाते नववादने क्रीडा वेलायामेव नालिकाकूपे पतिता। अग्निशमनसेनान्यः अधिक-परिश्रमेण तां अरक्षन् । पञ्चदश-पाद-परिमितः आसीत् अयं नालिकाकूपः। तस्मिन् षट्पाद परिमिते गर्ते स्थगिता सा इत्येनेन सजीवं बहिरानेतुं प्रभवति इति अग्निशमन सैनिकाः अवदन्। कूपस्य समीपे अन्यत् गर्तं निर्माय तेनमार्गेण एव बालिकाम् अरक्षत् । कूपस्य पिधानं नासीत् इति एव घटनायाः कारणम् ।
Monday, December 25, 2017
दल्ली मेट्रोरेल् संस्थायाः 'मजन्त लैन्' मार्गः प्रधानमन्त्रिणा उद्घाटितः।
नवदिली > दक्षिणदिलीदेशस्य कल्काजि तथा नोयिडा देशस्य बोट्टाणिक्कल् गार्डन् च मिथ संबन्ध्य भवति दिल्ली मेट्रोयान-संस्थायाः नूतनमार्गः। मजन्त लैन् इति नामाङ्कितः अयं मार्गः प्रधानमन्त्रिणा नरेन्द्र मोदिना उद्घाटितः। नोयिडातः ओख्ल पक्षिसङ्केतपर्यन्तं धाव्यमानं नूतनं मेट्रो रेल् यानं ध्वजवीजनेन उद्घाटितः च । अनन्तरं प्रधानमन्त्री नरेन्द्रमोदी योगी आदित्यनाथेन सह नोयिडातः पक्षिसङ्केतपर्यन्तं यात्रां कृतवान् ।
उपनिर्वाचने सफलतां प्राप्य भा ज पा, अरुणाचले बंगाले च कॉग्रस् दलस्य पराजयः
नवदिल्ली> कॉग्रस् दलात् द्वाै स्थानौ संगृह्य एकं प्रतिपाल्य च भा ज पा दलीयाः पुरोगच्छन्ति। इदानीम् अरुणाचलस्य ६० अङ्ग सभायां कॉग्रस् एकाङ्गत्वेन परिणितम्। भा ज पा दलं एकोन पञ्चाशत् ( ४९) अङ्गैः परिपुष्टाः च।उत्तरप्रदेशस्य 'सिक्कन्द्र' मण्डलं भा ज पा दलेन परिपालितम्। भा ज पा दलस्य अजित् सिंहपालः 11,861 संख्यामितं सम्मतिं अधिकं संप्राप्य विजयीभूतः। बंगाले सबाङ् मण्डले कॉग्रस् दलस्य पराजयः अभवत् 1957 आरभ्य काङ्ग्रस्दलस्य शक्तिकेन्द्रः आसीत् इदं मण्डलम् ।
समारब्धः कार्यानुभव-प्रशिक्षण-वर्गः
त्रिश्शिवपेरुर्> केन्द्रीयविद्यालयसंस्कृाध्यापकानां कार्यानुभवप्रशिक्षणवर्ग: राष्ट्रियसंस्कृतसंस्थानस्य गुरुवायूर परिसरे समारब्धःI डिसम्बर २५तः जनुवरि २ पर्यन्तं प्रचाल्यमानस्य वर्गस्यास्य उदघाटनं गुरुवायूर् परिसरस्य भूतपूर्व प्राचार्यः एम् ए बाबुवर्य: कृतवान्। दशदिनात्मकप्रशिक्षणे भारतस्य विभिन्नभागेभ्यः समागताः ४० अध्यापकाः भागं वहन्ति। प्रशिक्षणे संस्कृतसंवर्धनप्रतिष्ठानस्य सहयोगः अपि अस्ति।
Subscribe to:
Posts (Atom)