न्यायाधीश: दीपक् मिश्रः मुख्यन्यायाधीश-पदमारूढवान्
देहलि > भारतस्य पंचचत्वारिंशत्त्तम मुख्य-न्यायाधीशत्वेन चतु-षष्ठिवयस्कः दीपक् मिश्रः नियुक्तः। पूर्वन्यायाधीशः केहार् मिश्रः आसीत् । तस्य स्थानात् विरामे जाते दीपक् मिश्रः तत्स्थाने नियुक्तः वर्तते। राष्ट्रपति भवने आयोजितेषु कार्यक्रमेषु राष्ट्रपति रामनाथ-गोविन्देन सत्यवाक्यानि प्रकाशितानि। उपराष्ट्रपतिः वेंकय्य नायिडू प्रधानमंत्री नरेन्द्रमोदी भूतपूर्व-प्रधानमंत्री मनमोहन सिंहः कांग्रेस् अध्यक्षा सोनिया गांधी प्रभृतया: भागभाजिन: आसन्।OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Wednesday, August 30, 2017
वृष्टि: शक्ता, जलोपप्लवभीत्याम् मुम्बै।।
मुम्बै> अतिशक्तां वृष्टिमनुवर्त्य जलोपप्लवभीत्यां वर्तते मुम्बै नगरम्। गतचतुर्दिनेषु तत्र अतिशक्ता वृष्टि: अनुवर्तते। शनिवासरे आरब्धा वृष्टि: मङ्गलवासरे प्रात: अपि अतिशक्त्या अनुवर्तिता। तस्मात् नगरस्य निम्नप्रदेशा: जलेन सम्भृता: अभवन्। मार्गा: बहव: जलान्तर्गता:। नगरस्य बहुषु भागेषु अग्रिमासु अष्टचत्वारिंशत् घण्टासु सुशक्तवर्षस्य साध्यता वर्तते,
अत्यावश्यानि न सन्ति चेत् वृथा बहिर्गमनम् मास्तु इत्यपि प्रदेशवासिनां कृते निर्देशोपि दत्त:। रेल्- भू मार्गगतागतं विध्नितम्। बहूनि रेल्यानानि विलम्बेन धावन्ति। प्रादेशिकरेल्यानानि पश्चिमरेल्कार्यालयेन स्थगितानि। सुशक्तवृष्टि: जलोपप्लवश्च जनानां जीवनम् कष्टे अपातयत्। सियोण्, अन्धेरी उपमार्ग:(सब् वे) - एतेषु प्रदेशेषु जलसम्भृतभागा: रूपीकृता: इति अपेक्षाद्वयम् प्राप्तमिति च बी एम् सी विज्ञापयत्। किन्तु माट्टुंगा, दादरस्य समीपप्रदेशा:, हिन्द् माता, वाडला, घटकोपर:, मुलुन्द्- एते प्रदेशाश्च जलोपप्लुता:। गतागतविघ्नमपि प्रदेशेषु दृश्यन्ते। जना: वर्षजलोपप्लववार्ता: इतरान् ज्ञापयन्ति ट्विट्टर् माध्यमेन। ट्विट्टर् द्वारा सुरक्षापूर्वसूचना: अपि दीयन्ते। टैफूण् समानवातावरणमिति व्यवसायी आनन्द महीन्द्र: ट्वीट् सन्देशे उक्तवान्। पञ्चोत्तरद्विसहस्रात् परम् अनुभूयमाना सुशक्ता वृष्टिरेव मुम्बै मध्ये इति सूचना।
Tuesday, August 29, 2017
नरेश्वराय २०संवत्सराणां कारागारवासः।
नवदिल्ली > बलात्कारविषये देरा सच्चा सौदा नामिकायाः संस्थायाः नेत्रे गुर्मीत् राम रहीम सिंहाय नरेश्वराय विंशतिसंवत्सराणां कठोरं कारागारवासादण्डनं विहितम्। त्रिशत् लक्षं रूप्यकाणां धनशुल्कदण्डनमपि विहितम्। द्वौ वनितानुयायिनौ २००२तमे संवत्सरे रामरहीमः बलात्कारं कृतवान् इति विषयद्वये एव सि बि ऐ संस्थायाः सविशेषन्यायालयस्य न्यायाधीशेन जग्दीपसिंहेन पृथक् पृथक् दण्डनं विहितम्।प्रत्येके विषये दशसंवत्सराणां कारागृहवासः १५लक्षं रूप्यकाणां शुल्कदण्डनं च नीतिपीठेन विहितम्। कारागारवासः पृथक् पृथक् अनुभोक्तुं विहितः।
हृदयस्तम्भनेन षष्ठकक्ष्याच्छात्रस्य मरणम्।।
हैदराबाद्> हृदयस्तम्भनेन षष्ढकक्ष्याच्छात्र: मृतवान्। नादेर्गुले देहली जनकीयविद्यालयस्य छात्र: आदर्श: एव मृतवान्। विद्यालयस्य सोपानावरोहणमध्ये बोधरहित: पतितवान् आदर्श:। झटित्येव आतुरालयम् प्रवेशितश्चेदपि हृदयस्तम्भनमभवदिति विशदनिरीक्षणेन वैद्या: निरणयन्। तत: चिकित्सायाम् आरब्धायाम् शनिवासरे आदर्श: मृतवान्। उत्तमगायक: सन् आदर्श: अन्तर्विद्यालयीयस्पर्धासु भागं गृहीत्वा तृतीयस्थानम् प्राप्तवान् आसीत्। स्पर्धानन्तरं विस्मृतं स्यूतं स्वीकर्तुं गमनावसरे एव तस्य पतनम्। आदर्शस्य नेत्रे दातुम् पितरौ निश्चितवन्तौ।Monday, August 28, 2017
श्रद्धायाः नाम्नि अतिक्रमाय अनुज्ञा न लभते - प्रधानमन्त्री।
नवदिल्ली > विश्वासानाम् आधारे अतिक्रमादयः दुराचाराः न अनुमोदन्ते इति प्रधानमन्त्री नरेन्द्रमोदी अवोचत्। आकाशवाण्यां मन् की बात् इत्यस्यां प्रतिमासप्रभाषणपरम्परायां' प्रधानमन्त्रिणः इदं प्रतिकरणम्। देरा सच्चा सौदा संस्थायाः नेतुः गुर् मीत् रामरहिमस्य प्रग्रहणमनुबन्ध्य उत्तरभारते व्यापृतस्य अक्रमस्य आधारे एवायम् उद्घोषणम्। अस्मिन् विषये प्रधानमन्त्रिणं विरुध्य पञ्चाब्-हरियाना उच्चन्यायालयेन विमर्शः उन्नीतः।
पि.वि.सिन्धोः रजतपदकम्।
ग्लास्गो >स्कोट्लन्ट् देशे संवृत्ते विश्व-बाड्मिन्टण्चषकस्पर्धायाः अन्तिमे चक्रे भारतस्य पि.वि. सिन्धुः रजतपदकेन तृप्तिं कृता। अत्यन्तम् आकांक्षाजनकायाम् अन्तिमचक्रस्पर्धायां जाप्पानस्य नोसोमी ओक्कुहारा इत्यस्यां प्रति एकं विरुध्य क्रीडाद्वयेन पराजिता अभवत्। निर्णायके तृतीयमत्सरे १९ - १७ क्रमे अग्रेसरत्वं प्राप्य आसीत् सिन्धोः पराभवः।
अस्यामेव स्पर्धायां साइना नेहवालः कास्यपदकम् अधिगतवती|
यात्रापेटकस्य (वोयेजर्) वय: चत्वारिंशत्; सौरयूथलङ्घनम् प्रथमदौत्यम्।।
मयामि> सौरयूथे वयम् एकाकिन: वा? चत्वारिंशत् वर्षेभ्य: पूर्वम् एतस्य प्रश्नस्य उत्तरमन्विष्यैव नासाया: यात्रिकपेटकानि (वोयेजर्) बहिराकाशयात्रा: आरब्धवन्ति। सप्तसप्तत्युत्तरनवशताधिकसहस्रतमे फ्लोरिडाया: केप् कानवरत:प्रतीक्षाया:भारमूढ्वा यात्रिकपेटकानां यात्रा आरब्धा। तस्मिन्नेव वर्षे आगस्त् विंशत्यां द्वितीयं यात्रिकपेटकम्, सेप्टम्बर् पञ्चमे प्रथमं यात्रिकपेटकं च विक्षेपिते भूमिमुल्लङ्घ्य लोक: समीपस्थ: दृष्टिगोचरश्च जात:। एकाशीत्युत्तरनवशताधिकसहस्रतमे समाप्तमिति चिन्तितं यात्रिकपेटकदौत्यं, किन्तु, बहिराकाशपर्यवेक्षणरङ्गे चरित्रम् आलेखयत्। इदानीं सौरयूथमुल्लङ्घ्य बाह्यप्रपञ्चेन सञ्चरन्ति तानि पेटकानि। बृहस्पति:, युरानस्, नेप्ट्यूण् आदीन् ग्रहान् अधिकृत्य ज्ञातुमेव पेटकानाम् प्रारम्भदौत्यमासीत्। भूमौ जीव: चिरस्थायीति व्यक्तीकर्तुम् मुद्रकम्, तस्य प्रवर्तनाय मुद्रकप्रवर्तकयन्त्रं च पेटकेषु बन्धितम्। केषाञ्चिदपि अन्यग्रहजीविनां दष्टिपथं प्रति यदि पेटकम् आगच्छति तर्हि भूमिमधिकृत्य अवगन्तुं सहायकं सुवर्णदूरवाणीभावचित्रसाङ्केतिकमुद्रकै: सहैव पेटकानि यात्रा: अनुवर्तन्ते। द्वादश इञ्च् मितानि तानि मुद्रकानि सागन् नामकस्य शास्त्रज्ञस्य आशय: आसीत्। सुवर्णलेपितासु तासु ताम्रमुद्रिकासु भूमे: कथा, पञ्चपञ्चाशत् भाषासु आशंसा:, भूमे: पञ्चदशोत्तरशतम् दृश्यानि, भूम्यां विद्यमानविभिन्नशब्दा:, सङ्गीतं च आलेखितानि। सप्तसप्ततिवर्षम् पेटकविक्षेपणाय चिते कारणमस्ति। सौरयूथे बाह्यग्रहा: सविशेषस्थानानि प्राप्य पञ्चसप्तत्युत्तरशतम् वर्षानन्तरं भूयमानं किमपि आनुकूल्यं तस्मिन् समये प्राप्यमाणमासीत्। गुरुत्वाकर्षणबलम् आनुकूलीकृत्य बहिराकाशपेटकै: तेषां वेगम् असाधारणरीत्या वर्धयितुं उपयुक्तमासीत् तदानुकूल्यम्। ""गुरुत्वाकर्षणसहायसङ्केत:"" (ग्राविट्टि असिस्ट् टेक्निक्) इति तस्य नाम। पञ्चषष्टुत्तरनवशताधिकसहस्रतमे अमेरिकाया: शास्त्रज्ञौ मैक्कल् मिनोविक्, गारि फिलान्ड्रो च निरीक्षणेन प्राप्तवन्तं तं सङ्केतं यात्रिकपेटकानां कृते प्रयोजनप्रदमभवत्। भूमे: प्रस्थानवेलायां स्वीकृतवेगेन चेत्, द्वितीयपेटकस्य नेप्टूण् समीपप्राप्तौ न्यूनातिन्यूनं त्रिंशत् वर्षाणां परिश्रम: आवश्यक: भवति स्म। किन्तु गुरुत्वाकर्षणसङ्केतस्य सहायेन द्वादशवर्षै: तत् सफलं जातम्। भूमे: बहि: सजीवम् अग्निपर्वतम् प्रथमतया दृष्टं दौत्यमपि पेटकस्य एव। बृहस्पते: उपग्रहे इयोय् मध्ये अग्निपर्वत: दृष्ट:। बृहस्पतेरेव अन्यस्मिन् उपग्रहे यूरोप्पायाम् उपरितलाध: समुद्र: अस्तीत्यपि निरीक्षितम् पेटकस्य दौत्यम्। सौरयूथे भूमे: समान: ग्रह: शनेरुपग्रह: टैट्टन् इति , नेप्ट्यूणस्य उपग्रह: ट्रिट्टण् हिमवल्कै: पूर्ण: इति च लोकान् आवेदयत् पेटकदौत्यम्। एवं विज्ञानस्य विशाल: लोक: एव अस्माकम् पुरत: अनावृत: यात्रिकपेटकै:।।
छात्रान् रक्षितुम् स्फोटकं (बोम्ब्) गृहीत्वा आरक्षक: धावित: एकं किलोमीटर् मितं दूरम्।।
भोपाल:> उपचतुश्शतं छात्राणां जीवरक्षणाय विद्यालयात् प्राप्तस्फोटकं गृहीत्वा एकं किलोमीटर् मितं दूरं धावितवते आरक्षकाय राष्ट्रस्य नमोवाक:। मध्यप्रदेशस्य सागरमण्डले प्रवृत्ता घटनेयम्। शुक्रवासरे सायं सागरारक्षणकार्यालयम् प्रति स्फोटकभीषणसन्देशेन सह अज्ञातदूरवाणीसन्देश: आगत:। आरक्षकक़ेन्द्रपरिधौ विद्यमाने चित्तोरस्य विद्यालये स्फोटकं स्थापितम् इत्यासीत् सन्देशसार:। जवेन विद्यालयम् प्रति प्रस्थितेन आरक्षकसङ्घेन विशदान्वेषणात्परं स्फोटकम् प्राप्तम्। दशकिलोत: अधिकभारयुतम् आसीत् स्फोटकम्। विद्यालयसमयसमाप्तौ घण्टाद्वये शिष्टे छात्राणां जीवरक्षणाय सागरारक्षणकेन्द्रस्य आरक्षक: अभिषेक पटेल: बोम्बस्फोटकं गृहीत्वा विजनप्रदेशम् प्रति अधावत्। तन्मध्ये विद्यालयं किञ्चित् कालं यावत् पिधातुम् अधिकारिणां कृते निर्देश: दत्त: आरक्षकै:। घटनामधिकृत्य सूचनायाम् प्राप्तायां विद्यालयम् प्राप्त: माध्यमसङ्घ: एव स्फोटकं गृहीत्वा धावत: आरक्षकस्य चित्रं अगृह्णात्। दृश्यमेतत् समाजमाध्यमेषु प्रचुरप्रचारमाप्तम्। छात्राणां विद्यालयसमीपवासिनां च जीवरक्षणमित्येव अनन्यमुद्देश्यं तस्मिन्नवसरे स्वस्य आसीदिति अभिषेकपटेल: माध्यमान् अवदत्। पूर्वमपि एवम् बोम्बनिरीक्षणारक्षकसङ्घे अभिषेक: अङ्गमासीत्। बोम्बस्फोटनेन पञ्चाशतमीटर् परिधौ दुरन्त:सम्भवेत् इति तदा श्रुतम्। अत: यावता वेगेन विजनस्थानकमेतत् स्फोटकम् प्रापणीयमित्यासीत् धावनलक्ष्यम्-- पचारमाप्तं धावनं सूचयित्वा अभिषेक: वदति।।Sunday, August 27, 2017
मत्स्यबन्धननौका महानौकाघट्टनेन भग्ना, धीवराः रक्षिताः।
कोल्लम् > केरले कोल्लं समुद्रतीरात् ४० नोटिक्कल् मैल् परिमिते दूरे शनिवासरे अहसि १२.३० वादने अन्ताराष्ट्रमहानौकामार्गे मत्स्यबन्धननौका महानौकाघट्टनेन भग्ना। नौकायां वर्तमानाः षट् धीवराः नाविकसेनया रक्षिताः। घटनानन्तरं स्थगयितुम् अनुद्युक्ता महानौका सिङ्गप्पूर् केन्द्रीकृतायाः नौकाप्रवर्तनसंस्थायाः 'अनियाङ्' नामिकेति प्रत्यभिज्ञाता अस्ति।
काश्मीरे भीकराणां रक्षिपुरुषशिबिराक्रमणं - अष्टानां सैनिकानां वीरमृत्युः।
श्रीनगरं > जम्मुकाश्मीरस्य पुल्वामा प्रविश्यायां जनपदीयारक्षकशिबिरं प्रति भीकरैः कृते आक्रमणे अष्ट सुरक्षासैनिकाः हताः। सप्त सैनिकाः व्रणिताः।ह्यः प्रभाते आयुधधारिणः त्रयः भीकराः सि आर् पि एफ् सैनिकानाम् आवासं प्रविश्य ग्रनेड् विक्षेपणेन भुषुण्डिप्रयोगेण च आक्रमणमारब्धवन्तः। एतस्मिन् समये सैन्यस्य सुरक्षाबलस्य च साहाय्येन आरक्षकाणां परिवाराः सुरक्षितस्थानं नीताः। ततः १२ होराः यावदनुवर्तमानस्य प्रत्याक्रमणस्यान्ते त्रयः भीकरा अपि मारिताः।
भारतीयसैनिकस्थानं प्रति पाकिस्थानेन कृतम् आक्रमणमनुगम्य एव पुल्वामायाम् आक्रमणं संवृत्तम्। एतदाक्रमणम् आत्मघात्याक्रमणं भवतीति १५तम संघस्य कमान्डर् लफ्ट.जन. जे एस् सन्ध्या न्यगादीत्।
Subscribe to:
Posts (Atom)