OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, August 26, 2017

केरले संस्कृताध्यापकानां प्रतिषेधः।
कोच्ची > सेवनविषये अनुभूयमानासु अवगणनासु प्रतिषिध्य केरल संस्कृताध्यापक फेडरेषन् नामकस्य सङ्घटनस्य नेतृत्वे अद्य आकेरलम् सर्वेषु जनपदेषु उपशैक्षिकनिदेशककार्यालयस्य [Office of Deputy Director in Education] पुरतः अध्यापकैः प्रतिषेधान्दोलनं सञ्चाल्यते।
    सेवामण्डले अध्यापकैः विविधाः क्लेशाः अनुभूयन्ते। निश्चितसंख्यकानां छात्राणां न्यूनतया अध्यापकानां पदभ्रंशः स्थानभ्रंशः वा जायते। चतुर्भ्यः संवत्सरेभ्यः पूर्वम् अधोमण्डलस्तरे [LP विभागे] संस्कृतपठनमारब्धं तथापि पदवीनिर्णयः न कृतः।
    तथा च पार्ट्-टैम् अध्यापकानां कृते प्रोविडन्ट् फण्ट् नामिकायाः अर्थसञ्चयनव्यवस्थायाः आनुकूल्यः न लभते। एवं उच्चतरस्तरेषु विद्यालयेषु [HSS] संस्कृतशिक्षणस्य सन्दर्भः यथेच्छं न लभते।
    एवं नैकासु समस्यासु सम्मुखीकुर्वत्सु अध्यापकाः प्रतिषेधान्दोलनं प्रति नीयमानाः भवन्तीति फेडरेषन् संस्थायाः कार्यदर्शिप्रमुखः पि जि अजित्प्रसादः अवादीत्। अतः तादृशप्रतिषेधस्य प्रथमं सोपानमेव  डि डि ई कार्यालयंप्रति नीयमानः  धर्णासमरः इति तेनोक्तम्।
श्रावणोत्सवस्य आगमनं सूचयित्वा तृप्पूणित्तुरायां हस्ताघोष:।।
  
केरलीयानां देशीयोत्सवस्य श्रावणोत्सवस्य आगमनं सूचयित्वा तृप्पूणित्तुरायां हस्ताघोष: प्राचलत्। हस्तनक्षत्रादारभ्य श्रावणनक्षत्रपर्यन्तं दश दिनानि केरलीयानां कृते समृद्धे: सन्तोषस्य च दिनानि भवन्ति। तन्माहात्म्यं घोषयित्वा एव हस्ताघोष: प्रचाल्यते। राजशासनकालादारभ्य  तृप्पूणित्तुरायां हस्ताघोष: प्रचाल्यते एव। श्रावणोत्सवकाले प्रजानां कुशलमन्वेष्टुं राजा सपरिवारं नगरमार्गेण वाद्यवृन्दसमेत: प्रयाति स्म। राजभवनात् ( हिल् पालस्- कुन्नुम्मल् कोट्टारम्) प्रस्थिता सा यात्रा नगरम् परिक्रम्य राजभवने एव परिसमाप्तिं गच्छति स्म। तस्य स्मरणायामेव हस्ताघोषे विशिष्य एका घोषयात्रा अपि भवति। नगरसभाधिकारिण: घोषयात्राविषये अधुना नितरां जागरूका: एव। प्रादेशिकशासका:, नगरसभाधिकारिण:, समीपस्थविद्यालयच्छात्रा: अध्यापका:, कलाकारा: कलाकायिकसमितीनाम् प्रतिनिधय: विभिन्नसंस्था:, कुटुम्बश्रीप्रवर्तका: च घोषयात्रायाम् भागं वहन्ति। केरलस्य प्रशस्तानि कलारूपाणि (तेय्यम्,तिरा,पटयणी) विद्यालयच्छात्राणां पङ्क्तिप्रयाणम् ( मार्च् पास्ट्), आरक्षकाणां पङ्क्तिरूपेण पुर: प्रयाणम्, विभिन्नसमितीनां सामाजिकसमस्या: अवलम्ब्य सज्जीकृतानि निश्चलदृश्यानि (टाब्लो-  भारवाहकेषु मनुष्या: एव निश्चला: स्थित्वा), गजवीरा: वाद्यवृन्दश्च घोषयात्राया: सौन्दर्यं वर्धयन्ति। जाति- मत- वर्ग- लिङ्गभेदं विना हस्तघोषयात्रा जनमनांसि रञ्जयन्ती तृप्पूणित्तुराम् परिक्रम्य गच्छति। केरले श्रावणोत्सव: तृप्पूणित्तुरा हस्तघोषयात्रया एव समारब्धा भवति। 

Friday, August 25, 2017

निजीयता मौलिकाधिकारः - सर्वोच्चन्यायालयः।
नवदिल्ली > व्यक्तेः निजीयता स्वकीयाधिकार एवेति मुख्यन्यायाधीशस्य जे एस् केहारस्य अध्यक्षत्वे नवाङ्गैः वर्तमानेन शासनसंहितपीठेन विहितम्। निजीयता स्वकीयाधिकारः नास्तीति मतवादिनां केन्द्रसर्वकारस्य भाजपादलशासितानां कतिपयानां राज्यसर्वकाराणां च वादः न्यायपीठेन ऐककण्ठ्येन निरस्तः।
   परन्तु निजीयता परमाधिकारः नेति च आदिष्टम्। एषा नीतियुक्तैः नियन्त्रणैः विधेया भवति।
     अयं विधिः चरित्रपरमिति राजनैतिकप्रगत्भैः निरीक्षते। गोमांसाहारनिरोधनादारभ्य दयावधपर्यन्तं विविधेषु विषयेषु दूरव्यापकफलाय निमित्तं भविष्यतीति मन्यते।
नवीनद्विशतरूप्यकाणि भारतीयरिसर्व् वित्तकोशेन सपदि बहिरानीयन्ते।।
    मुम्बै>नवीनद्विशतरूप्यकाणि भारतीयरिसर्व् वित्तकोशेन (आर् बी ऐ)  सपदि बहिरानीयन्ते। केन्द्र धनकार्यमन्त्रालय: एतत्सम्बन्धीन् विशदांशान् प्रास्तावयत्। द्विशतरूप्यकाणाम् मूल्ययुतानि पञ्चाशत्मितानि रूप्यकाणि बहिरानीयन्ते। एवं स्थिते शतम, पञ्चशतम् रूप्यकाणि अधुना शीघ्रं न मुद्रणीयानि इति आर् बी ऐ निर्णय:। जूण् मासे द्विशतम् रूप्यकाणाम् मुद्रणम् आरब्धम्। पञ्चशतम्, सहस्रम् रूप्यकाणां निरोधात्परमं नवीनरूप्यकाणि बहिरानीतानि चेदपि परिवर्तनरूप्यकाणि न्यूनानि जातानि, यानि राष्ट्रे महत् कष्टमजनयन्। एतस्य परिहाराय नवीनद्विशतरूप्यकाणि बहिरानेतुं केन्द्रसर्वकार: निरणयत्। द्विशतस्य रूप्यकाणि बहिरागच्छन्ति तर्हि क्रयविक्रया: इतोपि सुगमा: भवेयुरिति विदग्धानाम् अभिप्राय:।
जङ्गमदूरवाणीद्वारा आह्वानव्यय: इतोपि न्यूनीक्रियते।।
     नवदिल्ली> राष्ट्रे डङ्गमदूरवाणीद्वारा आह्वानव्यय: पुनरपि न्यूनीभवेत्। एकस्मात् जालसङ्केतात् (नेट् वर्क्) अपरम् प्रति आह्वानावसरे स्वीक्रियमाण: अन्योन्यसम्पर्कोपयोगव्यय: ( इन्टर् कणक्ट् यूसेज् चार्ज्)( ऐ यू सी)  घट्टं घट्टमिति रीत्या अस्तं कर्तुमेव ट्राय् श्रम:। अधुना मिनिट्मितोपयोगाय चतुर्दशपैसा उपयोक्तृभ्य: ऐ यू सी नाम्ना जङ्गमदूरवाणीसेवनदातार: स्वायत्तीकुर्वन्ति। प्रथमघट्टे एतत् सप्त पैसा तत: पैसात्रयमिति रीत्या न्यूनीकर्तुमेव आलोच्यन्ते तै:। अग्रिमघट्टे व्यय: एव निष्कास्यते च। जियोसङ्केतस्य अधिनिवेश: एव नूतननिर्णयस्य पृष्ठत: इति सूचना अस्ति। जियो स्वोपभोक्तॄणां कृते कञ्चिदपि जालसङ्केतम् प्रति नि:शुल्कशब्दाह्वानसौकर्यमेव ददाति। एतेनैव ऐ यू सी न्यूनीकर्तुं ट्राय् निरणयत्। जियोप्रवेशात्पूर्वम् ऐडिया, वोडफोण्, एयर्टेल् इत्यादिसंस्था: ऐ यू सी नाम्ना कोटिरूप्यकाणि उपयोक्तृभ्य: स्वायत्तीकृतवन्त:। राष्ट्रस्य दूरवाणीभीम: एयर्टेल् गतवर्षे उपयोक्तृभ्य: ऐ यू सी नाम्ना नवसप्तत्युत्तरद्विशतोत्तरदशसहस्रं कोटिरूप्यकाणि स्वायत्तीकृतवन्त:। एतदेव न, ऐ यू सी व्यय: वर्धनीय: इति पक्ष: एयर्टेल् सङ्केतस्य। एतत् संसूच्य एतै: ट्राय् अध्यक्षम् प्रति पत्रम् प्रेषितं च। किन्तु एतत् कार्यम् अपरिगण्य पुनरपि व्ययं न्यूनीकर्तुमेव ट्राय् निर्णयं स्व्यकरोत्। एवं तर्हि शब्दाह्वानानां कृते  स्वीक्रियमाण: व्यय: झटिति न्यूनीभवेत्।
प्रकाशस्य कान्तिकस्वभावद्वारा स्मरणामुद्रणम्, मलयालीगवेषकस्य निरीक्षणम्।।
     कोषिक्कोट्> प्रकाशस्य समसमये वैद्युतस्वभाव: कान्तिकस्वभावश्च वर्तते। अत: प्रकाश: वैद्युतकान्तिकतरङ्ग: समजायते। जेयिंस् क्लार्क् माक्स्वेल् नाम विख्यातशास्त्रज्ञ: नवदशशतके एव प्रकाशस्य वैद्युतकान्तिकस्वभावं निरीक्षितवान्। प्रकाशस्य वैद्युतस्वभावं सफलीकर्तुं बहु प्रायोगिकोपयोगा: निरीक्षिता:। फोटो इलक्ट्रिक् वैद्युतिरङ्गस्य पुर: प्रयाणानि तत्र उदाहरणानि। नोण् लीनियर् ओप्टिक्स्इति शास्त्रशाखा अपरम् उदाहरणम्। किन्तु प्रकाशस्य कान्तिकस्वभावम् प्रायोगिकतया उपयुक्तानि निरीक्षणानि विरलानि।।
उन्नस्य साहाय्यदात्रो: रष्याचैनयो: कार्यं कष्टम्, द्वादशसंस्थानां कृते यु एस् निरोध:।।
वाषिङ्टण्> उत्तरकोरियाया: आणवपद्धतीन् प्रति साहाय्यदात्रो: रष्याचैनयो: यु एस् पक्षत: परोक्षप्रहर:।उत्तरकोरियया सहकृतानां द्वादश रष्या- चैना संस्थानां कृते यु एस् निरोध: स्थापित:। अमरीकाया: निर्णये चैनया अतृप्ति: सूचिता। निरुद्धसंस्थाभि: सह अमरीकाया: पौरा: संस्थाश्च सहकृत्य प्रवर्तितुं न शक्नुवन्ति। आगस्ट् पञ्चमे ऐक्यराष्ट्ररक्षासमित्या अङ्गीकृते उत्तरकोरिया-विरुद्धोपरोधप्रमेये पादंन्यस्य एव निर्णय: इति यु एस् पक्षस्य विशदीकरणम्। क्रयसम्पद्घटनायां त्रयस्त्रिंशत् प्रतिशतपर्यन्तं न्युनताजनकविधानेन उत्तरकोरियात: प्रायेण वस्तूनां क्रयाय प्रमेय: निरोध: स्थापित: च आसीत्।  उत्तरकोरियां सम्मर्दे स्थापयितुमेव यू एस् लक्ष्यमित्यपि यु एस् उक्तवत्।

Thursday, August 24, 2017

समानताधारितनागरिकसंहितायाः प्रवर्तनेन मुस्लिममहिलाः स्वतन्त्राः भविष्यति -  तसलीमानसरीन: 
नवदिल्ली > त्रितलाकप्रकरणे उच्चतमन्यायालस्य निर्णयमधिकृत्य बांग्लादेशस्य विवादास्पदलेखिका तसलीमानसरीन: प्रावोचत् यत् यावत् समानताधारितनागरिकसंहिता  Uniform Civil Code इत्यस्य प्रवर्तनं न भविष्यति तावत् मुस्लिममहिलाः स्वतन्त्राः न भविष्यन्ति । न्यायालयस्य निर्णयः मुस्लिमविधिमण्डस्योपरि आघातः भवितुं शक्यते परम् अनेन मुस्लिममहिलाभ्यः स्वतन्त्रता नैव मिलिष्यति। मुस्लिम लॉ बोर्ड इति मुस्लिमविधिमण्डलस्य आलोचनां विदधता तयोक्तं यत् केवलं धर्माधारेण विधिनिर्माणं नैवोपयुक्तम् । भारतसदृशे आधुनिके देशे धर्माधारितविधिप्रवर्तनं नैव भवितव्यम् । महिलाभ्यः पुरुषेभ्यश्च समानविधेः प्रवर्तनमेव समानता इति | आश्चर्यचयास्पदं वर्तते  यत् भारतसदृशे धर्मनिरपेक्षराष्ट्रे लोकतांत्रिकदेशे तलाकत्रयोच्चारणप्रथा इदानीम् अपि जीवति ।  नवदिल्लीतः
भारतीयसंस्कृतेः पूर्णावबोधाय संस्कृतभाषाज्ञानम् अनिवार्यम् - डॉ. धर्मराज् अटाट्ट्। 
कालटी > विश्वे$स्मिन् अतुल्या अनुपमा च संस्कृतिः भवति भारतीयसंस्कृतिः । तादृश्याः भारतीयसंस्कृतेः पूर्णावबोधाय संस्कृतभाषाज्ञानम् अत्यन्तापेक्षितमिति कालटी श्रीशङ्कराचार्यसंस्कृतविश्वविद्यालयस्य उपकुलपतिना डो.धर्मराज् अटाट्ट्वर्येण उक्तम्। विश्वविद्यालयेन आयोजितं संस्कृतदिनाचरणम् उद्घाटनं कुर्वन् भाषमाणः आसीत् अटाट्ट् वर्यः।
     सम्मेलने$स्मिन् विविधमण्डलेषु प्रागल्भ्यं प्रकाशितवतां त्रयाणां पण्डितानां समादरणमपि संवृत्तम्। संस्कृतमण्डलात् विश्वविद्यालयस्य भूतपूर्वा   न्यायविभागाध्यक्षा डो. टि आर्यादेवी, कलाकारेभ्यः पाणिवादतिलकः डो. पि से नारायणन् नम्प्यारः, आयुर्वेदमण्डलात् प्रसिद्धः आयुर्वेदभिषग्वरः आवणप्परम्प् महेश्वरन् नम्पूतिरिप्पाट् च विश्वविद्यालयेन समाद्रियन्ते स्म। डो. पि सि मुरलीमाधवः मुख्यभाषणमकरोत्।

Wednesday, August 23, 2017

त्रितलाखं निरुध्यमानं विंशतितमं राष्ट्रं भारतम्। 
कोच्ची > निरस्यमानं वाक्यं युगपत् त्रिवारमुक्त्वा पत्नीम् उपेक्ष्यमाणः "मुत्तलाख्" [तलाखत्रयं] इति इस्लामधर्मसम्प्रदायः संवत्सरेभ्यः पूर्वमेव विश्वे प्रमुखेषु इस्लामराष्ट्रेषु अपि निरुद्धः अस्ति। तादृशं विंशतितमं राष्ट्रं भवति भारतम्।
    १९२६तमे वर्षे सैप्रस् राष्ट्रेणैव प्रथमतया तलाखत्रयं निरुद्धम्। तस्मिन् वर्षे एव तुर्की, १९५३तमे सिरिया, इराखः (१९५९), पाकिस्थानः (१९६१), इरान् (१९६७), बङ्लादेशः (१९७१), यू ए ई (२००५), खत्तर् (२००६) इत्यादिभिः प्रमुखैः मुस्लिम राष्ट्रैश्च एकपक्षीयः एतत्सम्प्रदायः निरुद्धः। एषः अंशः भूरिपक्षविधिप्रस्तावे प्रस्तौतः अस्ति।