११.४४ लक्षं 'पान्' पत्राणि तिरस्कृतानीति अर्थकार्यमन्त्रालयः।
नवदेहली> राष्ट्रे एकादशलक्षाधिकानि पान् पत्राणि तिरस्कृतानीति केन्द्र आर्थकार्यमन्त्रालयः। राज्यसभायां समर्पितायां संस्तुत्यां एकस्यैव व्यक्तेः एकाधिकानि पान्पत्राणि दत्तानि इति हेतुना चतुश्चत्वारिंशद् - सहस्रोत्तर एकादशलक्षं पान्पत्राणि तिरस्कृतानीति केन्द्र अर्थकार्यसहमन्त्रिणा सन्तोष्कुमार गाङ्वारेण व्यक्तीकृतम्। नियमानुसारं एकस्य एकमेव पान्पत्रं अर्हति। किन्तु तत् नियमं अत्र न पालितमिति निरीक्षितम्। अतः गतजूलाई सप्तविंशतिदिनङ्ग (२७) पर्यन्तं ११,४४,२११ एकादशाधिक द्विशतोत्तर चतुश्चत्वारिंशत् सहस्राधिक एकादशलक्षं पान्पत्राणि तिरस्कृतानीति मन्त्रिणा व्यक्तीकृतम्। षट्षष्ठ्यधिक पञ्चशतोत्तर एकसप्तसहस्र द्विलक्षं (२७,१५६६)पान्पत्राणि व्याजानीत्यपि अवगतम् इत्यपि मन्त्रिः अवदत्।OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Friday, August 4, 2017
Thursday, August 3, 2017
पि यू चित्रायै केरलसर्वकारस्य आर्थिकसाहाय्यम्।
अनन्तपुरी > भुवनकायिकमेलनात् भारतीयकायिकसंस्थया तिरस्कृतायै धावनक्रीडकायै पि यू चित्रायै केरलसर्वकारस्य आर्थिकं साहाय्यम्। आर्थिकक्लेशमनुभवन्त्याः चित्रायाः परिशीलनार्थं प्रतिमासं २५,००० रूप्यकाणि दीयन्ते। कायिकमन्त्री ए सि मोय्तीनः एव वार्ताहरान् प्रति एवं न्यवेदयत्।
तथा च केरलस्य पादकन्दुकक्रीडकाय सि के विनीताय सर्वकारीयं कर्मापि वाग्दत्तम्। 'सेक्रट्टेरियट् असिस्टन्ट्' अथवा तत्तुल्यं पदमेव विनीताय दास्यति। यथायोग्यम् उपस्थितेरभावात् सः ए जि कार्यालयतः निष्कासितः अभूत्।
“मनोगतम्” [34]
(प्रसारण-तिथि:- 30.07.2017)
[“मनोगतम्” - इति “मन की बात”-कार्यक्रमस्य संस्कृत-भाषिकानुवादः]
[“मनोगतम्” - इति “मन की बात”-कार्यक्रमस्य संस्कृत-भाषिकानुवादः]
- भाषान्तर-कर्ता - बलदेवानन्द सागरः
मम प्रियाः देश-वासिनः ! नमस्कारः| मानवस्य मनः एव तादृशं यदस्मै वर्षाकालः रोचते| कालोsयम् अतितरां रमणीयः| पशु-पक्षि-पादप-वृक्ष-प्रकृति-इति प्रत्येकमपि वर्षायाः आगमनेन प्रफुल्लताम् अनुभवति| परञ्च कदाचित् यदा प्रकृतिः विकरालं रूपं धत्ते तदा अनुभवामः यत् जलस्य विनाश-शक्तिः कियती बलवत्तरा भवति ? प्रकृतिः अस्मभ्यं जीवनं ददाति, पालयति च, परञ्च कदाचित् जलपूर-भूकम्प-सदृशीभिः प्राकृतिकापद्भिः सह अस्याः भीषणं स्वरूपं बहु विनाशकारि भवति| परिवर्तमाने ऋतु-चक्रे पर्यावरणे च यत् किमपि परिवर्तते, तस्य बृहत्तरः नकारात्मकः प्रभावः अपि सञ्जायते| विगतेभ्यः कतिपय-दिनेभ्यः भारतस्य केषुचित् भागेषु, विशेषेण असमोत्तरपूर्व-गुजरात-राजस्थान-बङ्गालेषु अतिवृष्टि-कारणात् प्राकृतिकापदः सम्मुखीक्रियन्ते| जलपूर-प्रभावितानां क्षेत्राणां पूर्णम् अवेक्षणं विधीयते| व्यापक-स्तरेण साहाय्य-कार्याणि अनुष्ठीयन्ते| यत्र शक्यमस्ति तत्र मन्त्रि-परिषदः मम सहकर्मिणः
Wednesday, August 2, 2017
हट्टतालः - क्रियाविधिम् अभियाच्यमानः मानवाधिकारपालनाधिकारी।
अनन्तपुरी > पूर्वसूचनां विना प्रचाल्यमानाः हट्टतालनामकाः कार्यस्थगितप्रतिषेधाः तीक्ष्णशासनैः निरुद्धव्याः इति केरलस्य मानवाधिकारपालाधिकारिणा उक्तम्। एतदधिकृत्य साध्याः क्रियाविधयः राज्यस्य मुख्यकार्यदर्शी, गृहकार्यदर्शी, आरक्षकनिदेशकः इत्येतैः सप्ताहत्रयाभ्यन्तरे विलिख्य समर्पणीयाः इति पालकाध्यक्षः पि मोहनदासः उक्तवान्।
गतदिने केरले प्रचालिते अप्रतीक्षिते हट्टताले सामान्यजनाः बहुक्लेशम् अनुभूतवन्तः। चिकित्सालयेषु प्रवेशिताः रोगिणः बान्धवाश्च भोजनमलभमानः पीडिताः। हट्टतालस्य नाम्नि जनविरुद्धाः पदक्षेपाः न भवितव्याः इति च तेनोक्तम्।Tuesday, August 1, 2017
जी एस् टी द्वारा आर्थिकावस्था परिवर्तिता - प्रधानमन्त्री।
नव दिल्ली > पण्यसेवनकरेण राष्ट्रस्य आर्थिक व्यवस्था आपाद चूडं परिष्कृता इति मन् की बात् कार्यक्रमे प्रधानमन्त्रिणा नरेन्दमोदिना उक्तम्। केवलं नियम परिष्करणमात्रं न। सत्यतापूर्ण-संस्कृतेः आर्थिक्यस्थितेः च निदर्शनात्मकं एव इति मन् की बात् नाम प्रति मासिक कार्यक्रमे मोदिमहोदयेन उक्तम्। पण्यकर-सेवनव्यवस्थां संस्थाप्य मासमेकम् अतीतम् । उत्पन्नानां मूल्यानि न्यूनमभवन्। भारवाहनानां अनुस्यूत-प्रवाहेन वस्तूनि यथा कालं लक्ष्यस्थानं प्राप्यन्ते। आर्थिकोन्नत्यै प्रयाणस्य शीघ्रता वर्धिता। दरिद्रस्योपरि भारः मास्तु इत्यस्य पण्यसेवनकर नियमे प्राधान्यं दत्तम् इत्यपि मोदिना उक्तम्।
पचनवायोः वित्तानुकूल्यं स्थगयति।
नवदिल्ली > भारते पचनवायुकोशानां कृते दीयमानं वित्तानुकूल्यं आगामि मार्च् मासादारभ्य पूर्णतया समापयितुं केन्द्रसर्वकारेण निर्णीतम्। एतदाधारीकृत्य प्रतिमासं चत्वारि रूप्यकाणि इति क्रमेण आनुकूल्यार्हाणाम् अनिलकोशानां संवर्धयितुं तैलसंस्थाः निर्दिष्टाः इति केन्द्र मृत्तैलविभागमन्त्री धर्मेन्द्रप्रधानः लोकसभां विज्ञापितवान्।आराष्ट्रं १८.११ कोटि उपभोक्तारः पचनवायुकोशानाम् आनुकूल्यं स्वीकुर्वन्तः सन्ति। दत्तानुकूल्यानां अनिलकोशानां प्रतिमासं रूप्यकद्वयमितिक्रमेण वर्धयितुं २०१६ जूलाई मासादारभ्य अनुमतिः दत्ता आसीत्।तदेव अधुना द्विगुणीकृतम्।
पचनवायोः वित्तानुकूल्यं स्थगयति।
नवदिल्ली > भारते पचनवायुकोशानां कृते दीयमानं वित्तानुकूल्यं आगामि मार्च् मासादारभ्य पूर्णतया समापयितुं केन्द्रसर्वकारेण निर्णीतम्। एतदाधारीकृत्य प्रतिमासं चत्वारि रूप्यकाणि इति क्रमेण आनुकूल्यार्हाणाम् अनिलकोशानां संवर्धयितुं तैलसंस्थाः निर्दिष्टाः इति केन्द्र मृत्तैलविभागमन्त्री धर्मेन्द्रप्रधानः लोकसभां विज्ञापितवान्।आराष्ट्रं १८.११ कोटि उपभोक्तारः पचनवायुकोशानाम् आनुकूल्यं स्वीकुर्वन्तः सन्ति। दत्तानुकूल्यानां अनिलकोशानां प्रतिमासं रूप्यकद्वयमितिक्रमेण वर्धयितुं २०१६ जूलाई मासादारभ्य अनुमतिः दत्ता आसीत्।तदेव अधुना द्विगुणीकृतम्।
पाकिस्ताने नूतनप्रधानमन्त्रिणः निर्वाचनमद्य
नव दिल्ली >पाकिस्तानस्य प्राक्तन् प्रधानमंत्रिणः नवाजशरीफस्य पदत्यागानन्तरं तत्रत्येन राष्ट्रपतिना नूतन प्रधानमंत्रिणः निर्वातनाय अद्य संसदः विशेषोपवेशनं समाहूतमस्ति | अत्रान्तरे पाकिस्तानाधिकृतस्य कश्मीरस्य प्रधानमंत्री फारूकहैदरखानः पाकिस्तानसैन्यबलं समारोपयन् प्रावोचत् यदसौ पाकिस्कानेन सह स्थास्यति न वा इति नैव निश्चितम् , तेन नवाज़शरीफस्य प्रधानमंत्रिपदात् त्यागपत्रम् उररीकृत्य वक्तव्यमिदं प्रदत्तम् ।
सिक्कीं राज्ये संघर्षे उत्तराखण्डे चीनस्य गोपनागमनम्।
नवदेहली> सिक्कीं सीमायां संघर्षः शक्तीकृते सति उत्तराखण्डे चीनस्य सेना अधिन्वेशिता इति संस्तुतिः। उत्तराखण्डराज्यस्य बरहोती क्षेत्रे चमोची जिल्लायां अस्मिन् मासे पञ्चविंशति दिनाङ्के पीप्पिल्स् लिबरेषन् आर्मी सेनायाः दश सैनिकाः एवम् आगताः इति सूचना। अत्र एककिलोमीट्टर अन्तर्भागं यावत् सेना आगता। भारतस्य देशीय सुरक्षा उपदेशकस्य तथा चीना राष्ट्रपतेः षी चान्पिङस्य च मेलनानन्तरमेव एवं आगमनम्। गतसंवत्सरे जूलाई मासे अपि पी एल् ए सेनायाः द्वौ भटौ एवं आगतवन्तौ। अत्र निश्चिता सीमारेखा नास्ति सीमासम्बन्धीः मतभेदाः वर्तन्ते इति तदान्तीन्तन प्रतिरोधमन्त्रिणा मनोहर परीक्करः उक्तवान्।
Subscribe to:
Posts (Atom)