सौदीराष्ट्रे नज़् रानिल् प्रदेशे अग्निबाधा। भारतीयैसह ११ जनाः मृताः
रियाद् > सौदिराष्ट्रे दुरापन्नाया अग्निबाधाया एकादश जनाः मृताः। मृतेषु भारतीयाः बग्लादेशिनः च वर्तन्ते। षट्जनाः व्रणिताः चI बुधवासरे प्रभातात् पूर्वं चतुर्वादने एव अग्निबाधा अभवत्। गवाक्षरहित प्रकोष्टे एव एताः उषितवन्तः। व्रणिताः षष्टाः अतुरालयं प्रविष्टाः। दुर्ब सार्वजनिन आतुरालयः, किङ्ङ् खालिद् आतुरालयः च व्रणितानां शिश्रूषां कुर्वतः। मृतदेहाः अपि ताभ्यां पालिताः।OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Thursday, July 13, 2017
भीकरान् तीव्राघातेन चूर्णीकर्तुं सुरक्षासेनायै केन्द्रसर्वकारस्य आदेशः
श्रीनगरम् > अमरनाथ तीर्थाटकाः गोलिकाप्रहारैः हन्तुं उद्यताः केचन मृताः, इतरे केचन व्रणिताः इत्यस्य आधारेण जम्मू काश्मीरे भीकरान् विरुद्ध्य सत्वरं प्रतिक्रियां कर्तुं तान् सुदृढं मर्दयितुं च केन्द्रसर्वकारेण सुरक्षासेना निर्दिष्टा। केन्द्रमन्त्रिणौ जितेन्द्र सिंहः तथा हंसराज आहिरः च जम्मु मध्ये कार्यान्वेषणाय वासं कुर्वन्तौ स्तः। मुख्यमन्त्रिणी मेहबूबा मुफ्त्ति, राज्यपालः एन् एन् वोरा, सेनाध्यक्षः बिपिन् रावत् सी आर् पी एफ् डि जि पि- आर् आर् भटनागर प्रभृतीनां मिथः भाषणं कृतवन्तौ।जम्मू-काश्मीरे भीकारान्दोलनम् एतस्य अन्तिमदशायां भवति। दिनाभ्यन्तरेण मासाभ्यन्तरेण वा भीकरान् नूनं निर्मार्जयिष्यति इति जितेन्द्र सिंहेन उक्तम्। जम्मू कश्मीरदेशः भारतस्य सुप्रधानं स्थानं भवति। भीकरान् निराकर्तुं जनाः सुरक्षासेनया सह सहवर्तन्ताम् इति च महोदयेन उक्तम्।
Wednesday, July 12, 2017
'कुसाट्' संस्थायाः अत्याधुनिकं तन्त्रिरहितस्पन्दिनीनिस्थानं (Radar station)राष्ट्राय समर्पितम्।
कोच्ची > यथातथं वातावरणप्रवचनं सुकरं कर्तुम् अत्याधुनिकं तन्त्रिरहितस्पन्दिनीनिस्थानं (Radar station) केन्द्रवैज्ञानिक साङ्केतिक विभागस्य मन्त्रिणा डो. हर्षवर्धनेन राष्ट्राय समर्पितम्। वातावरणव्यतियानं निगमयितुं तत् सुललितं यथासूक्ष्मं कर्तुं संविधानानि अत्र समायोजितानि।चक्रवातस्य आगमनं पूर्वमेव ज्ञातुं शक्यते। मेघानां सञ्चारमाधारीकृत्य वर्षस्य वातस्य च गतिं निर्णेतुं अनेन शक्यते। उपग्रहस्य साहाय्यं विनैव रडार् केन्द्रस्य प्रवर्तनम्। पञ्चशतं (५००) किलोवाट्ट् शक्तियुक्तेन अनेन केन्द्रेण दक्षिणभारतराज्यानां पर्यावरणव्यतियानानि अभिज्ञातुं शक्यते।
* CUSAT कोच्ची वैज्ञानिक संकेतिक-विश्वविद्यालयः
अमरनाथ तीर्थाटकान् सलीमः स्व मनस्थैर्येण रक्षितवान्।
श्रीनगरम्> अमरनाथ तीर्थाटकान् प्रति भीकराक्रमणे जाते तीर्थाटकानां यानचालकस्य मनस्स्थैर्येण बृहद्दुरन्तं नापदितम्। सप्त यात्रिकाः भीकराक्रमणे हताः। क्षणे जाते आक्रमणे भीकराणां पुरतः वाहनं अतिशीघ्रम् धावयितुं चालकः सलीं गभूर भाईना कृता धीरता अन्येषां ४९ यात्रिकाणां जीवरक्षा अकारयत्। घनान्धकारे भीकराणां दृष्टिपथात् तीर्थाटकान् व्यूढं यानं समीपस्थम् आतुरालयं प्रति सलीं अतिशीघ्रम् अचालयत्। भीकराणां गोलिकाक्रमणेन विंशति तीर्थाटकाः व्रणिताः। सलीमस्य समयोचितेन हस्तक्षेपेन वयमधुना जीवामः इति तीर्थाटकाः अवदन्। सलीमः सप्तजनान् रक्षितुं न प्रभवति, किन्तु अन्यान् सुरक्षिते स्थाने आनेतुं सः समर्थः अभवदिति अभिमानार्हः इति सहेदरः जावेदः अवदत्। भीकराक्रमणेन द्वौ तीर्थाटकौ संभवस्थाने एव मृतौ। क्षतबाधिताः चत्वारिआतुरालये च मृताः।
पुत्री यानचालनं अकरोत्। माता आरक्षकैः बन्धिता।
हुस्टण् (यू एस्) > पञ्च विंशति वयस्का माता एकदशवयस्कायै पुत्र्यै: यान-चालनाय अनुज्ञा दत्ता इत्यनेन कारागारे बन्धिता अभवत्। गते शुक्रवासरे एव सन्दर्भः जातः। एकादश वयस्का बालिका दशवयस्केन सोदरेण सह आसीत् यानचालनम् इत्यतः प्रमादः द्विगुणीभूतः जात:।
जवेन गम्यमाने याने बलिका बालकयो: भिन्नः कोऽपि नास्ति इति दृष्ट्वा आरक्षकै: पश्चात् अनुगम्य निवारितौ। गृहात् दूरतः सोदरं आनेतुं यानचलनाय अनुज्ञा मात्रा दत्ता। आरक्षकैः माता अपराधिनी इति ज्ञात्वा बन्धिता च। यानचालनार्थं अनुज्ञापत्र प्राप्त्यर्थं पर्याप्तः वयः बालिकायैः नासीत्। तादृश्यै बालिकायै चालनार्थं यानं अदात् इति गुरुतरः अपराधः एव कृतः इति आरक्षकैः उक्तम्।
Tuesday, July 11, 2017
पश्मिमबंगालस्य बशीरहाटस्थले दुरापादितं हिंसाचरणं विन्दनीयम् - अमर्त्यसेनः
कोलकत्ता >नोबेलपुरस्कारभाजः अमर्त्यसेनः बशीरहाटस्थाने साम्प्रदायिकहिंसां निन्दितवान। प्रख्यातार्थशास्त्रिणा अमर्त्यसेनेन प्रोक्तं यत् बंगालराज्यं साम्प्रदायिकसौहार्दस्य ऐतिह्यं सनधत्ते , तत्र साम्प्रदायिकहिंसा चिंताया: विषयः वर्तते , अस्माभि: एतस्या: घटनाया: मूलम् अन्वेषणीयं घटनेयं दुर्विचार: प्रेरितावलोक्यते । पश्चिमबंगालराज्ये सदैव हिन्दु-मुस्लिमानुयायिन: सौहार्देन निवसन्ति, अस्माभि: ध्यातव्यं यत् यदेतादृशघटना: पुन: न भवेयु:।
ज्योतिषप्रतिभापुरस्कारेण डा. ईश्वरः सम्मानितः ।
के वि कूञ्ञिरामस्मारकः ज्योतिषप्रतिभापुरस्कारेण डा ईश्वरः सम्मानितः। 5001 रू प्रशस्तिपत्रम् च भवति अयं पुरस्कारः। संस्कृत-ज्योतिषमण्डले ईश्वरमहोदयेन कृतानां कर्मणां निमित्तमस्ति अयं पुरस्कारः ।
महोदयोयम् तिरुवनंतपुरम् राजकीय-संस्कृत-महाविद्यालये आचार्यः अस्ति। विश्वसंस्कृत-प्रतिष्ठानस्य (संस्कृतभारती) शिक्षणविभागप्रमुखः अपि अयं महाशयः वातावरणशास्त्रे एव अनुसन्धानम् कृतवान्। प्रबन्धसंग्रहः अमरःकोशः कृषिपराशरव्याख्या तत्वोपदेशव्याख्या इत्यादिग्रन्थानां पञ्चाशदधिकलेखानां च कर्तापि भवति डा ईश्वरः।
वर्षत्रयाभ्यन्तरे एकवारमेव ज्योतिषप्रतिभापुरस्कारः दीयते। सम्प्रतिवार्तायाः सम्पादकमण्डले अङ्गम् अस्ति डा ईश्वरः।
महोदयोयम् तिरुवनंतपुरम् राजकीय-संस्कृत-महाविद्यालये आचार्यः अस्ति। विश्वसंस्कृत-प्रतिष्ठानस्य (संस्कृतभारती) शिक्षणविभागप्रमुखः अपि अयं महाशयः वातावरणशास्त्रे एव अनुसन्धानम् कृतवान्। प्रबन्धसंग्रहः अमरःकोशः कृषिपराशरव्याख्या तत्वोपदेशव्याख्या इत्यादिग्रन्थानां पञ्चाशदधिकलेखानां च कर्तापि भवति डा ईश्वरः।
वर्षत्रयाभ्यन्तरे एकवारमेव ज्योतिषप्रतिभापुरस्कारः दीयते। सम्प्रतिवार्तायाः सम्पादकमण्डले अङ्गम् अस्ति डा ईश्वरः।
Monday, July 10, 2017
भारताय चरित्रविजयः।
भुवनेश्वर् > कलिङ्गयुद्धभूमौ भारताय अन्यः चरित्रविजयः। एष्यायाः कायिकप्रतिभासङ्गमे [एष्यन् अत्लटिक् मीट्] इदंप्रथमतया भारताय प्रथमं स्थानम्। प्रथमदिनादारभ्य अनुवर्तितम् अग्रगामित्वम् अन्तिमदिनं यावत् परिपाल्य भारतं द्वादश सुवर्णानि , पञ्च रजतानि, द्वादश कांस्यानि च लब्ध्वा एव प्रथमस्थानं प्राप्तवत्। अन्तिमदिने भारतेन ५ सुवर्णानि, एकं रजतं, ३ कांस्यानि च प्राप्तानि।
अष्ट, सप्त, पञ्च इति क्रमेण सुवर्ण रजत कांस्यपतकानि प्राप्य चीना द्वितीयस्थानं प्राप्रवती। गतेषु १७ वारेष्वपि प्रथमस्थानं प्राप्तस्य चीनाराष्ट्रस्य सर्वाधिपत्यमेव अधुना भारतेन भञ्जितम्। आगामी कायिकप्रतिभासङ्गमः २०१९तमे संवत्सरे दोहायां प्रचलिष्यति।
आर्थिकविकासे भारतं चैनाम् अतिक्रमिष्यते इति पठनम्।।
नवदिल्ली>लोके एव अतिबृहती आर्थिकशक्ति: स्यात् भारतमिति पठनम्। हार्वार्ड् सर्वकलाशालया कृते पठने एव आर्थिकविकासे भारतं चैनाम् अतिक्रमिष्यते इति सूचयति। पञ्चविंशत्युत्तरद्विसहस्रतमे अतिवेगेन विकासं प्राप्यमाणासु आर्थिकशक्तिषु भारतम् प्रथमस्थानम् प्राप्नुयादिति पठने सूच्यते। राष्ट्रस्य मध्य स्थायीवार्षिकविकास: सप्त दशांशं सप्त प्रतिशतं च स्यादिति पठने व्यक्तीक्रियते।
नवदिल्ली>लोके एव अतिबृहती आर्थिकशक्ति: स्यात् भारतमिति पठनम्। हार्वार्ड् सर्वकलाशालया कृते पठने एव आर्थिकविकासे भारतं चैनाम् अतिक्रमिष्यते इति सूचयति। पञ्चविंशत्युत्तरद्विसहस्रतमे अतिवेगेन विकासं प्राप्यमाणासु आर्थिकशक्तिषु भारतम् प्रथमस्थानम् प्राप्नुयादिति पठने सूच्यते। राष्ट्रस्य मध्य स्थायीवार्षिकविकास: सप्त दशांशं सप्त प्रतिशतं च स्यादिति पठने व्यक्तीक्रियते।
टोक्लामे स्थितिं दृढीकृत्य भारतीयसेना।
नवदेहली> सीमाप्रदेशात् टोक्लामात् समीपभविष्ये सेनां न प्रत्याह्वयतीति भारतीयसेना। सेनायाः कृते अवश्यवस्तूनि झटित्येव प्रेषयतीति अपि सूचनाअस्ति। सेनायाः दीर्घकालं उषितुं योग्यानि पटगृहाणि निर्मितुमपि पद्धतिः अस्ति।
संघर्षं प्रचलति चेत् सेनामार्गं अन्वेषणीयमिति गतदिने चैना भीषां दत्तमासीत्। किन्तु एतत् पुरातनं भारतं नास्तीति भारतेन उक्तम्। सीमायां सेनायाः शक्तं स्वाधीनं एतेन भारतं व्यक्तीकरोति।
भारतं भूट्टानः चैना च सीमां विभज्य शासनं कृते टोक्लामक्षेत्रे चैनायाः भारतस्य च सेनाः अभिमुखं तिष्ठन्ति। सीमाप्रदेशे वीथीं निर्मीय तीर्थाटकान् अवरुध्य च चैना प्रकोपनं सृजति। तेन समस्या सङ्कीर्णा जाता। तेषां आक्रमणेन भारतेन सेनाविन्यासं शक्तं कृतम्
Subscribe to:
Posts (Atom)