राष्ट्रपतिनिर्वाचनं - द्वे विहाय सर्वाः पत्रिकाः निरस्ताः।
राष्ट्रपतिनिर्वाचनार्थं समर्पिताः त्रिनवतिस्थानाशिनां नामनिर्देशपत्रिकाः सूक्ष्मपरिशोधनानन्तरं निरस्ताः। एन् डी ए स्थानाशी रामनाथकोविन्दः , संयुक्तविपक्षस्थानाशिनी मीराकुमारः इत्येतयोः पत्रिके एव साध्व्यौ अभवताम्। अन्येषां कृते राष्ट्रपतिस्थानाशिनं भवितुम् अावश्यकः जनप्रतिनिधीनां सहयोगः न लब्धः इत्यत एव ९३ पत्रिकाणां निरासस्य कारणम्।OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Friday, June 30, 2017
श्वः आरभ्य भारते एकीकृतकरः।
नवदिल्ली > अद्य अर्धरात्रौ भारतसंसद्मन्दिरस्य सभामण्डपः अन्यस्मै चरित्रमुहूर्ताय साक्षीभूयते। एकराष्ट्रम् एकशुल्कम् इत्यस्य लक्ष्यस्य समारम्भः क्रियते तत्र।श्व आरभ्य भारतम् एकीकृतपण्यसेवाकरपरियोजनायाः अधीने भविष्यति। अद्य रात्रौ एकादशवादनादारभ्य द्वादशवादनपर्यन्तं संसद्सभागारे आयोज्यमाने सविशेषसंसद्सम्मेलने अस्याः परियोजनायाः उद्घाटनं सम्पत्स्यते। उद्घाटनवेलायां राष्ट्रपतिः , प्रधानमन्त्री , उपराष्ट्रपतिः , वित्तमन्त्री च संसदीयान् अभिसम्बोधय़िष्यन्ति। किन्तु कोण्ग्रस् नेतृत्वे विद्यमानानि विपक्षदलानि उद्घाटनसमारोहं बहिष्करिष्यन्तीति विज्ञापितम्।
उपराष्ट्रपते: निर्वाचनम्; दिनाङ्क: प्रख्यापित:।
नवदिल्ली> नूतनस्य उपराष्ट्रपते: निर्वाचनाय दिनाङ्क:देशीयनिर्वाचनसमित्या प्रख्यापित:। आगस्ट् पञ्चमे प्रचाल्यमानस्य निर्वाचनस्य फलं तद्दिने एव प्रख्यापयिष्यति। इदानीन्तनस्य उपराष्ट्रपते: हमीद् अनसारि महाभागस्य सेवनकाल: आगस्ट् दशमे परिसमाप्यते इति पश्चात्तले नूतनम् उपराष्ट्रपतिम् निर्वाचयिष्यति। नवत्युत्तरसप्तशतम् सङ्ख्याकानि लोकसभाङ्गानि गुप्तनिर्वाचनपत्रद्वारा एव उपराष्ट्रपतिं चिन्वन्ति। जुलै सप्तदशे राष्ट्रपते: निर्वाचनमपि चलेत्। भा ज पा दलस्य स्थानार्थी रामनाथकोविन्द:, प्रतिपक्षस्थानार्थी गतसभानियन्त्रिका अध्यक्षा मीरा कुमारश्च मत्सरिष्यन्ति
शिशवः युद्धेषु बलिमृगाः ।
कानिचन चित्राणि अस्माकं हृदयद्रवीकरण समर्थानिएव, सिरियायाम् आरब्धे आभ्यन्तरयुद्धे दुःखमयाः वार्ताः, चित्राणि च प्रतिदिनं आगच्छन्ति। युद्धस्य दुरितमखिलं सोढुं शिशवः न प्रभवन्ति। कश्चन राष्ट्रस्य भाविपथं पातयितुम् एवं शक्यते एवं प्रकारेण। द्वितीये लोकमहायुद्धकाले, वियट्नां राष्ट्रयुद्धकाले रुवाण्डायाः वंशीय हत्यायां अपि च अरब् क्षेत्रे इदानीं जायमाने आभ्यन्तर-संग्रामे शिशवः बहुदुखम् सेढवन्तः। इदानीं पश्चिमेष्यायाः राष्ट्रान्तरतः आगम्यमानानि चित्राणि बालकानां दुरितस्य प्रमाणानि एव।(चित्रम् - मेडिट्टरेनियायाः सागरतीरे मृतस्य त्रिवयस्कस्य शरीरम्।)
क्रीडया विनोदेन च वर्तिष्यमाणाः शिशवः युद्धेषु स्वजनानां मृत्युं पश्यन्ति। क्षुधया पीडिताः भूत्वा स्वगृहं राष्ट्रं च परित्यज्य गन्तुं निर्बन्धिताः अभवन्। इदानीं अभयार्थिरुपेण कालयापनं कर्वन्तः सन्ति। तेषाम् अश्रूणि अपि लोकैः द्रष्ठव्यम्।
Thursday, June 29, 2017
नियमभेदः कारितः आधार पत्रं पान् पत्रेण सह बन्धनीयः।
नवदेहली> करदायिनः जूलाई प्रथमदिनाङकादारभ्य आधार पत्रं पान् पत्रेण सह अनिवार्यतया बन्धनीयमिति सर्वकारेण व्यक्तीकृतम्। पान् पत्राय आवेदनवेलायां आधारपत्रस्य अङ्काणि दातव्यानि। आर्थिककर नियमे भेदक्रमं कारयित्वा विज्ञापनं प्रसार्य च केन्द्रसर्वकारः कार्यकरणं कर्कशं कारितम्। नैकानांंपान्पत्राणां उपयोगः एकेन क्रियते चेत् तत् रोद्धुमेव अयं निर्णयः। नियमः जूलाई प्रथमदिनाङकादारभ्य प्रबलः भविष्यति। २.०७ कोटि करदातृभिः पानपत्रेण सह आधार पत्रस्य बन्धनं कृतम्। राष्ट्रे पञ्चविंशति कोटि जनानां पान्पत्राणि सन्ति।। १११ कोटि जनाः आधारपत्रं स्वीचक्रुः।
एष्यायां विद्यमानासु अतिबृहत्तमां युद्धनौकां चैना जले अवारोहयत्।
षाङ्हाय्>भारतं विस्मयीकारयित्वा चीनया स्व बृहती युद्धनौका जले अवरोहितम्। ऐषियाः बृहत्तरा युद्धनौका टैप् ०५५ विनाशकारिणी युद्धनौका चैनया षाङ्हाय् तीरे प्रदर्शितम्। एतादृश्यः चतस्रः युद्धनौकाः निर्मातुं चैनायाः योजना अस्ति। मिसैल् शस्त्राणि त्रोटयितुं तथा बृहद् लक्ष्यं भेत्तुं च युद्धनौका समर्था। एवम् अतिरिच्य सम्पूर्णतया शस्त्राणां विन्यासानन्तरं तस्याः १२००० टण् भारः स्यात्। विश्वस्य अतीव विनाशकारिण्याः युद्धनौकायाः निर्माणं इदानीं यावत् चैना सेना अगोपयत्। ह्रस्वेन कालेन अस्य निर्माणं पूर्तीकृतम् इति चैना माध्यमैः प्रस्तुतम्।मोदिनः यु एस् सन्दर्शनं - आगोलप्रवेशयोजनां प्रति भारतस्य अङ्गत्वम्।
वाषिङ्टण्> आकस्मिकावश्यार्थं अमेरिक्कां प्रति प्रवेशः सुकरं कर्तुम् उद्दिष्टमानायां "International Expedited Traveler Initiative" नामिकायाम् आगोलयोजनायां भारताय अपि अङ्गत्वं लब्धम्। भारतं विना स्विट्सर्लान्ट्, ब्रिटन् राष्ट्रद्वयमेव अस्यां योजनायाम् अन्तर्भूतम्।
अमेरिक्कां प्रति विभीषिकारहितान् तथा पूर्वमेव यात्रानुमतिं लब्धवतां यात्रिकानाम् अनया योजनया प्रवेशः सुकरः भविष्यति। व्यापार - शैक्षिक बन्धानाम् अभिवृद्धये योजनेयं उपकरिष्यति।
|
. | रक्षासमिति स्थिराङ्गत्वम् - भारताय सहयोगः।
वाषिङ्टण्> ऐक्यराष्ट्ररक्षासमित्यां स्थिराङ्गत्वलाभाय आणववितरणसङ्घप्रवेशाय [एन् एस् जि अङ्गत्वं] च भारताय अमेरिक्काराष्ट्रस्य सहयोगः वाग्दत्तः। प्रधानमन्त्रिणा नरेन्द्रमोदिना सह मेलने डोणाल्ड् ट्रम्प एव भारताय सहयोगं वाग्दत्तवान्।
राष्ट्रद्वयस्य परस्परवाणिज्यबन्धः शक्तीकरिष्यतीति ट्रम्पेन उक्तम्। भारतस्य सामाजिकार्थिकपरिवर्तनेषु मुख्ययोजनासु च यू एस् राष्ट्राय प्रमुखं स्थानं कल्पतेति मोदिना निगदितम्।
|
. | . |
Wednesday, June 28, 2017
आकाशे
भारतस्य त्रयोदश गुप्तचरनेत्राणि।
नवदिल्ली> कार्टोसाट् २ ई
उपग्रहस्य सफलविक्षेपणेन सैनिकावश्यकतायै भारतेन विक्षेपितानाम्
निरीक्षणोपग्रहाणां सङ्ख्या त्रयोदश अभवन् इति ऐ एस् आर् ओ सूचयति।
एतानुपयुज्य राष्ट्रसीमानां निरीक्षणम्, समुद्रमार्गेण भौममार्गेण वा
शत्रूणां चलनानि च अवगन्तुं शक्यते इत्यपि ऐ एस् आर् ओ वृत्तानि ज्ञापयति।
कार्टोसाट्, रिसाट् उपग्रहा: एव प्राधान्येन निरीक्षणाय उपयुज्यन्ते।
नाविकसेनया एतानतिरिच्य जीसाट् सप्त उपग्रहश्च सैनिकावश्याय उपयुज्यते।
समीपकाले विक्षेपितस्य कार्टोसाट् २ परम्परान्तर्गतस्य निरीक्षणोपग्रहस्य
भूम्या: शून्यं दशांशं षट् चतुरश्रमीटर् मितोन्नतवसतूनि अपि कृत्यतया
निरीक्षितुं शक्ति: वर्तते। गतशुक्रवासरे एव कार्टोसाट् परम्परान्तर्गतम्
कार्टोसाट् २ उपग्रहम् भारतम् व्याक्षिपत्। भारतस्य सर्वे
निरीक्षणोपग्रहा: भौमोपरितलात् द्विशतत: द्विशतोत्तरसहस्रं किलोमीटर्
पर्यन्तं पोलार् भ्रमणपथे वर्तन्ते। कृत्यतया भूमिं निरीक्षितुम् एतत्
सहायकरम्। किन्तु भारतस्य उपग्रहवेधायुधानि विक्षेप्तुं शक्तिरस्ति तथापि
बहिराकाशस्य सैनिकवत्करणे तात्पर्यं नास्तीत्यपि ऐ एस् आर् ओ शास्त्रज्ञा:
व्यक्तीकृतवन्त:।
केरळे वृष्टिः शक्ता; बहुत्र नाशनष्टानि।
कोच्ची >दक्षिणपश्चिमीयः मण्सूण् वर्षाकालः केरले शक्तः अभवत्। नदीषु जलवितानम् उद्गन्तुमारब्धम्। अतः तीरदेशवासिनां कृते जाग्रतानिर्देशः कृतः। दक्षिणजनपदेषु बहुत्र अतिवृष्ट्या मृत्पातः जातः। एरणाकुलं जनपदे मुवाट्टुपुष़ा प्रदेशे 'एम् सि रोड्' इति देशीयमार्गे भूपातेन होराः यावत् गतागतं स्थगितम्। बहूनि भवनान्यपि विशीर्णानि।
झंझावातेन वृक्षशाखाः पतित्वा मार्गपार्शस्थितानां यानानां क्षताः जाताः। आगामिनि दिनद्वये अपि वृष्टिः शक्ता भविष्यतीति पर्यावरण निरीक्षणकेन्द्रेण निगदितम्।
अतिवृष्टिः - केरले चतुर्षु जनपदेषु विद्यालयानाम् अद्य विरामः।
कोच्ची - केरले वर्षाकाले शक्ते सन्दर्भे बहुत्र जलोपप्लवेन यात्रादुरितमनुभूतम् इत्यतः एरणाकुलम् , इटुक्की , आलप्पुष़ा , कोल्लम् इत्येषु जनपदेषु विद्यालयानां जनपदाधिकारिभिः अद्य विरामः विज्ञापितः। आलप्पुषा जनपदे श्व अपि विरामः भविष्यति।
कोच्ची >दक्षिणपश्चिमीयः मण्सूण् वर्षाकालः केरले शक्तः अभवत्। नदीषु जलवितानम् उद्गन्तुमारब्धम्। अतः तीरदेशवासिनां कृते जाग्रतानिर्देशः कृतः। दक्षिणजनपदेषु बहुत्र अतिवृष्ट्या मृत्पातः जातः। एरणाकुलं जनपदे मुवाट्टुपुष़ा प्रदेशे 'एम् सि रोड्' इति देशीयमार्गे भूपातेन होराः यावत् गतागतं स्थगितम्। बहूनि भवनान्यपि विशीर्णानि।
झंझावातेन वृक्षशाखाः पतित्वा मार्गपार्शस्थितानां यानानां क्षताः जाताः। आगामिनि दिनद्वये अपि वृष्टिः शक्ता भविष्यतीति पर्यावरण निरीक्षणकेन्द्रेण निगदितम्।
अतिवृष्टिः - केरले चतुर्षु जनपदेषु विद्यालयानाम् अद्य विरामः।
कोच्ची - केरले वर्षाकाले शक्ते सन्दर्भे बहुत्र जलोपप्लवेन यात्रादुरितमनुभूतम् इत्यतः एरणाकुलम् , इटुक्की , आलप्पुष़ा , कोल्लम् इत्येषु जनपदेषु विद्यालयानां जनपदाधिकारिभिः अद्य विरामः विज्ञापितः। आलप्पुषा जनपदे श्व अपि विरामः भविष्यति।
Subscribe to:
Posts (Atom)