ऐ एस् द्वारा बन्दिन:कृता: 39 भारतीया: अपि मोसूले- सुषमा स्वराज:।
नवदिल्ली>त्रिवर्षेभ्य: पूर्वम् इराखे ऐ एस् भीकरै: बन्दिन: कृता: नवत्रिंशत् भारतीया: अपि मोसूले जीवन्त: सन्तीति केन्द्रसर्वकार:। विदेशकार्यमन्त्रिणी सुषमा स्वराज: एतदनुबद्धकार्याणि असूचयदिति बन्दिन: कुटुम्बाङ्गानि न्यवेदयन्। इराखसेना ऐ एस् भीकरै: सह रूक्षयुद्धं प्रचलन्ती इराखस्य उत्तरप्रविश्या एव मोसूल:। ऐ एस् सकाशात् मोसूलस्य नवतिप्रतिशतम् भागान् इराखीसेना प्रतिस्व्यकरोत् तथापि भारतीयान् बन्दिन: न दृष्टवन्त:। किन्तु एते सर्वे ऐ एस् नियन्त्रणे विद्यमानायाम् मोसूल् मेखलायाम् भवितुमर्हन्ति इति सूषमा स्वराज: न्यवेदयदिति बन्दिषु एकस्य कुटुम्बाङ्गम् गुरपीन्दर कौर: न्यवेदयत्। इराखे बन्दिन: अन्वेषणं सम्बद्ध्य केन्द्रसर्वकार: एतावता मौनमभजत। तन्मध्ये एकादशवारम् बन्दिन: मोचनं सम्बद्ध्य बान्धवा: केन्द्रसर्वकारेण सह चर्चाम् कृतवन्त:। चतुर्दशोत्तरद्विसहस्रे जूण् चतुर्दशे एव ऐ एस् भीकरा: नवत्रिंशत् भारतीयान् अपहृतवन्त:। तुर्कीस्वकीये मोसूले प्रवर्तमानात् निर्माणकार्यालयात् बाग्दादम् प्रतिगमनमध्ये चतुर्दशोत्तरद्विसहस्रे जूण् एकादशदिनाङ्के भारतीयान् भीकरा: अपाहरन्। पञ्चाब, बङ्गालस्वदेशिन: एतेषु भूरिजना:।OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Sunday, June 11, 2017
शुनकानां विपणने अपि नियन्त्रणम्।
नवदिल्ली> वाणिज्यं लक्ष्यीकृत्य शुनकानां प्रजननाय विक्रयणाय च केन्द्रसर्वकारेण नूतनव्यवस्थानियन्त्रणादिकम् आयोजितम्। प्राणिहिंसानिरोधननियमस्य आधारे एव नूतनव्यवस्था आयोजिता। धेनुनाम् अलङ्कारमत्स्यानां च विक्रयण-प्रदर्शनमधिकृत्य आयोजितेन नियन्त्रणेन सह एव केन्द्रवनं-परिस्थितिमनत्रालयेन सारमेयानां कृते अनुशासनं कृतम्। मासद्वयोनानां शुनकानां विक्रयणं निरुध्यते। बालशुनकानां परीक्षणार्थं विक्रयः अपि निरुध्यते। प्रजननकेन्द्रेषु अवश्यमानाः सुविधाः करणीयाः। यथेष्टं भोजनं जलं स्थानम् इत्यादयः सज्जीकरणीयाः इत्यपि नूतनविज्ञापने अन्तर्भावितमस्ति।
Saturday, June 10, 2017
इराने स्थानद्वये ऐ एस् भीकराक्रमणम्; द्वादश मरणानि।
टेहरान्> इरानस्य नियमनिर्माणसभायाम् ( पार्लमेन्ट् ) तथा परमोन्नतनेतु: आयत्तुल्ला खुमैने: अन्त्यविश्रमस्थाने च प्रवृत्ते सन्नद्धमरणभीकराक्रमणे द्वादशजना: हता: । द्विचत्वारिंशत् जनानां क्षता: अभवन् ।नियमनिर्माणसभायाम् घण्टा: यावत् प्रवृत्तसङ्घट्टनानन्तरं चतुर: भीकरान् सुरक्षासेना अहनत् । द्वन्द्वाक्रमणयो: दायित्वम् भीकरसङ्घटनेति ख्याता ऐ एस् सङ्घटनया स्वीकृतम् । षिया भूरिपक्षराष्ट्रे इराने षियाविरुद्धै: ऐ एस् भीकरै: क्रियमाणम् प्रथमम् भीकराक्रमणम् एतत् ।षियामुहम्मदान् मतद्रोहिन: इति पश्यन्तीम् ऐ एस् सङ्घटनां विरुद्ध्य सिरियायाम् इराखे च युद्धरङ्गे इरानाश्रित्य स्थिता: षियाविभागा: एव । मध्यटेहराने नियमनिर्माणमन्दिरे ह्य: प्रात: प्रवृत्ते सम्मेलनमध्ये एव यन्त्रभुशुण्डिभि: सह चत्वार: सन्नद्धमरणा: अतिक्रम्य प्रविष्टा:। एतेषु एक: स्फोटनेन सह स्वयंम् भग्नगात्रश्च अभवत् । चत्वारोपि स्त्रीवेषे आगता: इति इरानस्य आभ्यन्तरमन्त्री मुहम्मद: हुसैन् सुल्फगारि: अवदत् । पञ्चाधिकघण्टा: यावत् प्रवृत्तस्य सैनिकप्रवर्तनस्य पश्चात् भीकरा: सैनिकाधीना: जाता: इति अधिकारिण: न्यवेदयन् । नियमनिर्माणसभायाम् आक्रमणस्य समनन्तरमेव सन्नद्धमरणानाम् अन्य: सङ्घ: इरानस्य विप्लवनायकस्य आयत्तुल्ला खुमैने: अन्त्यविश्रमस्थानम् अपि आक्रामत् । तस्य अन्त्यविश्रमस्थानयुतस्य स्मारकस्य समीपं सन्नद्धमरणानां स्फोटनम् प्रवृत्तम् इति वदन्ति । भीकरेषु एकं सैनिका: अहनत् एकां स्त्रियं गृहीतवन्तश्च इत्यपि आवेदयन्ति ।
मोसूल्- रक्षां प्राप्तुं परिश्रमान् २३० जनान् ऐ एस् अहन् मृतेषु बालकाः अपि।
जनीवा> इराखस्य पश्चिम मोसूल् क्षेत्रात् पलायितं परिश्रमान् २३० जनान् इस्लामिक स्टेट् भीकराः अघ्नन्। यु एन् मनुष्यावकाश विभागमेधाविना सेयिद् राद् अल् हुसैनेन प्रख्यापितं इदम्। गतमासस्य षोडशदिनादारभ्य गणनमिदम्। मोसूलस्य समीपात् अल् षिफात् पलायितं परिश्रमान् पञ्चबालकैः सह सप्तविंशति जनान् मेई २६ दिनाङ्के अग्निगोलैः अघ्नन्।अल्षिफायामेव गतमासस्य प्रथमे १६१ जनान् तृतीये ४१ जनान् च अघ्नन्। निरपराधिनां हननं युद्धापराधमस्तीति सेय्देन उक्तम्। धावतां बालानां हननं मृगीयमेवेति सः अयोजयत्।
अलङ्कारमत्स्यविपण्यां केन्द्रसर्वकारस्य नियन्त्रणम्।
कोच्ची>अलङ्कारमत्स्यानां परिपोषणे , प्रदर्शने , विक्रयणे च केन्द्रसर्वकारेण नियन्त्रणम् आयोजितम्। वनं - परिस्थितिमन्त्रालयेन असाधारण "गसट्" द्वारा एतदधिकृत्य विज्ञापनं प्रकाशितम्। १५८ प्रकाराणां मत्स्यानाम् एतन्नियन्त्रणेन बाधते। अलङ्कार - वत्सलमत्स्यानां स्वास्थ्यं शुचित्वम् इत्यादीनां स्थिरीकरणमेव अस्य विज्ञापनस्य लक्ष्यमिति उच्यते। अनेन विज्ञापनेन स्फाटिकपात्रेषु अलङ्कारमत्स्यानां पोषणं निरुद्धम्। अलङ्कारमत्स्यानां प्रदर्शनं विक्रयणं च निरुद्धम्। पोषणकेन्द्रेषु मत्स्यविदग्धस्य पशुवैद्यस्य वा सेवनम् आवश्यकम्।
Friday, June 9, 2017
चैनाया: पाकिस्थानस्य च भीषणिम् अभिमुखीकर्तुम् भारतं सन्नद्धम्; सेनाध्यक्षः।
नवदिल्ली >राष्ट्रान्तस्था: बहिस्थाश्च भीषणी: अभिमुखीकर्तुम् भारतसेना सन्नद्धेति सैनिकमेधावी जनरल् बिपिन रावत्त: उक्तवान् । चैनापाकिस्थानयो: भीषणी: अभिमुखीकर्तुं तथा राष्ट्रे सुरक्षासज्जीकरणाय च भारतं सन्नद्धमेव , स: योजितवान् । जम्मु काश्मीरे घटना: समीपे एव सामान्यस्थितिम् प्राप्स्यन्ति इत्यपि विश्वसितीति रावत्त: अवदत् । काश्मीरे यूनाम् मध्ये अबद्धधारणायुक्तदृश्यचित्राणि तथा सन्देशांश्च प्रचारयन्ति पाकिस्थानम् । तथा तत्र आकृष्टा: एतान् सन्देशान् अधित्यकायाम् न केवलम् प्रचारयन्ति किन्तु युवजनान् भीकरसङ्घटनाम् प्रति योजनाय प्रेरयन्ति च । प्रतिरोधसंविधानस्य आधुनीकरणमधिकृत्य केन्द्रसर्वकारेण सह चर्चा क्रियमाणा वर्तते इत्यपि स: उक्तवान् । काश्मीरसङ्घर्षं ""छायायुद्ध""मिति विशेषितवान् रावत्त: तस्य हीनपरिश्रमम् अधिकृत्यापि असूचयत् । वृत्तिहीनरीत्या काश्मीरे एतादृशकार्याणि प्रचारयन्ति । गत चत्वारिंशत् वर्षाभ्यन्तरे भारत - चैनासीमायाम् एकमपि गोलिकास्त्रम् प्रयोक्तव्यं नाभवत् इति प्रधानमन्त्रिणापि सूचितमेव । महते युद्धायापि भारतं सन्नद्धमेव । किन्तु तस्मै युद्धाय भारतेन सज्जता क्रियते , न तत् किञ्चन राष्ट्रं विरुद्ध्य इत्यपि रावत्त: सगौरवम् उक्तवान् ।
इत: परम् प्रतिदिनम् मृत्तैलमूल्यं नवीकरिष्यति: जूण् षोडशदिनाङ्कत: प्राबल्ये।
नवदिल्ली >राष्ट्रे मृत्तैलमूल्यम् प्रतिदिनं नवीकर्तुं सामान्यमेखलातैलशालानां निर्णय:। अस्य मासस्य षोडशदिनाङ्कत: एषा रीति: राष्ट्रे सर्वत्र प्राबल्यम् भवेत्। पूर्वम्, परीक्षणरूपेण पञ्चनगरेषु गतमासे एषा रीति: प्रवृत्तिपथम् आनीता आसीत्। तैलमूल्यपरिष्कार: पक्षे एकवारम् इति रीति: अवलम्बिता आसीत् राष्ट्रे। किन्तु आगोलविपणिषु सर्वत्र दिनम् प्रति तैलमूल्यपरिष्करणरीति: अनुवर्तते। गतमईमासे प्रथमदिनाङ्कत: एव राष्ट्रे पञ्च नगरेषु प्रतिदिनं तैलमूल्यम् परिष्कृत्य परीक्षितम् । विशाखपत्तनम्,पुतुच्चेरी, जंषड्पुरम् , चण्डिगढ:, उदयपुरम् एतेषु नगरेषु परीक्षिता एषा रीति:।।
Thursday, June 8, 2017
१२० यात्रिकैः सह अप्रत्यक्षस्य म्यान्मार विमानस्य अवशिष्टानि प्राप्तानि।
याङ्कूणः>१२० यात्रिकैः सह अप्रत्यक्षस्य म्यान्मार विमानस्य अवशिष्टानि प्राप्तानि। आण्डमान समुद्रे विमानस्य इति शङ्कितानि अवशिष्टानि प्राप्तानि। सेनापुरुषाः तेषां परिवारः मिलित्वा १०६ यात्रिकैः तथा चतुर्दश विमान कर्मकाराः च आसन् विमाने। दावे नगरात् १३६ कि मी दूरे अवशिष्टानि प्राप्तानि। अन्वेषणं प्रचलति। विमानानि नौकाः च अन्वेषणे भागं भजन्ति।दक्षिणनगरस्य मेय्कस्य रंगूणस्य च मध्ये विमानं अप्रत्यक्षं जादम्। प्रादेशिकसमयं मध्याह्ने १.३५ समये विमानेन सह बन्धं च्छिन्नं जातम्। विमानस्य केनापि साङ्केतिक समस्याहेतुना अप्रत्यक्षं जातमिति सूचना।
भारते राष्ट्रपतेः निर्वाचनं जूलैमासस्य १७तमे दिने, फलं २० दिने
नवदिल्ली> भारतस्य पञ्चाशत् तमं राष्ट्रपतिं निर्वाचयितुम् निर्वाचनप्रक्रिया जूलैमासस्य सप्तदशे दिने भविष्यति। फलविज्ञप्तिः विंशति दिनाङ्गे च। राज्यसभायाः तथा लोकसभायाः निर्वाचिताः षण्णवत्यधिकाष्टशतोत्तरचतुस्सहस्र संख्याकानां (४८९६) सामाजिकानां निर्वाचनाधिकारः अस्ति। सप्तदश दिनाङ्के प्रातः दश(१०) वादनादारभ्य पञ्चवादनपर्यन्तं निर्वाचनक्रमः प्रचलिष्यति। अस्मिन् सन्दर्भे निर्वाचनालेखनाय विशेषलेखनी अपि निर्वाचनयोगेन दास्यते।
खत्तर राष्ट्रस्य नयतन्त्रबन्धं विच्छेतुं भारतम्
नवदेहली>खत्तर राष्ट्रस्य नयतन्त्रबन्धं विच्छिद्य अरब्राष्ट्राणां प्रवर्तने भारतस्य चिन्ता। बहरिन् ईजिप्त् सौदि अरेब्या यु एस् ई इत्यादि राष्ट्राणि खत्तर राष्ट्रस्य नयतन्त्रबन्धं विच्छेतितवन्तः। गतागतमपि तैः निरोधितम्। स्व राष्ट्रेषु वर्तमानान् खत्तरपौरान् देशात् गन्तुं द्विसप्ताह समयं प्रदत्तम्।मुस्लिम् ब्रदरह् इत्यादि भीकरसंस्थाः खत्तर आर्थिकसाहाय्यं ददाति इत्यारोप्य अरब्राष्ट्रैः एषा प्रक्रिया स्वीकृता।
अशीतिलक्षं भारतीयानां कर्मक्षेत्रं भवति अरेब्या। खत्तरे तथा सर्वत्र अरब्राष्ट्रेषु भारतीयानां विशिष्य केरलीयानां सान्निध्यं बृहत्तरमस्ति। खत्तरराष्ट्रस्य अस्मिन् प्रतिसन्ध्यां तत्रत्य कर्मकराणां अन्यत्र गन्तुं आगन्तुं च न शक्यन्ते।
खत्तर राष्ट्रं प्रति भारतात् उत्पन्नानां विक्रयणं तथा ततः क्रयणं च प्रचलति। खत्तरेण सह भारतस्य तन्त्रप्रधानं सहवर्त्तित्वं वर्तते । ऊर्जरंगे प्रतिरोधरंगे च एतत् सहवर्त्तित्वं।अत्यधिकं प्रकृतिवातकं खत्तरराष्ट्रात् भारतं स्वीकरोति। खत्तरेण सह भारतं पञ्चविंशति वर्षाणां समयः निर्मितः। गतदिसंबर मासे आसीत् सः समयः। गत केषुचित् संवत्सरेषु खत्तरेण सह भारतस्य बन्धं दृढीकृतम्।अत एव राष्ट्रस्य अस्य एषा अवस्था भारतमपि बाधते इति आर्थिकविदग्धाः वदन्ति।
२०२२ तमस्य विश्वचषक (world cup) पादकन्दुक क्रीडार्थं खत्तर राष्ट्रे बहूनि निर्माणप्रवर्तनानि प्रचलन्ति। सहस्रशः भारतीयाः गत संवत्सरेषु खत्तरराष्ट्रे आगताः। राष्ट्रस्य अस्य चिन्ता एषा पादकन्दुकक्रीडायाः कार्यकरणमेव।
प्रतिसन्धिः एषा इदानीं राष्ट्रं न बाधते चेदपि भविष्ये अवस्था भिन्ना भवेत्। विनेदसञ्चारक्षेत्रे खत्तरस्य आयः न्यूनः भविष्यति।एवं सम्पन्नस्य अस्य राष्ट्रस्य अवस्था भिन्ना भविष्यति।
Subscribe to:
Posts (Atom)