संस्कृतं वा शीलम् ????? बालिकामुपहस्य सी एन् एन् दूरदर्शनावतारिका।
न्यूयोर्क्>अमेरिक्कायाम् प्रवृत्तायाम् आङ्गलपदानाम् अक्षरविवेचनस्पर्धायाम् प्रथमस्थानम् प्राप्तां कैरलीबालिकाम् अनन्या विनयम् (१२ वयस्कां ) उपहस्य सी एन् एन् दूरदर्शनशृङ्खलावतारिकाया: वंशीयपरामर्श:। गतसप्ताहे वाषिङ्टणे प्रवृत्तायाम् अक्षरविवेचनस्पर्धायाम् प्रथमस्थानम् प्राप्ताम् अनन्याम् अवतारिके अलिसिन् कामिरोटा , क्रिस् कोमो च मिलित्वा अभिमुखं कृतवत्यौ। अभिमुखभाषणमध्ये कामिरोटा अनन्याम् प्रति अमेरिक्का राष्ट्रपते: डोणाल्ड् ट्रम्पस्य ट्वीट्टर् सन्देशान्तर्गतस्य "कोव्फेफे" इति प्रशस्तस्य असम्बन्धपदस्य अक्षरविन्यासक्रमं ताम् अपृच्छत् । तस्य पदस्य निर्वचनम् मूलभाषां च अनन्या ताम् प्रत्यपृच्छत् । आत्मार्थतया तस्य पदस्य अक्षरविन्यासं वक्तुं कृतपरिश्रमा सा बालिका अन्ते "कोफेफे" इति अक्षरविन्यासम् उक्तवती। वस्तुत: अक्षरविन्यास: "कोव्फेफे" इति स्पष्टीकृत्य कामिरोटा, एतत् असम्बन्धपदमिति च उक्त्वा एतस्य उद्भव: यथार्थतया संस्कृतात् वेति अस्माकं निश्चय: नास्तीत्यपि सूचितवती। संस्कृतमेव खलु नित्यमुपयुज्यते भवद्भि: इत्यपि योजितवती। अवतारक: क्रिस् कोमो अनन्याया: सफलताम् अभिनन्दितवान् तथापि संस्कृतसम्बन्धेन सह कामिरोटया कृतपरामर्शं विरुध्य समाजमाध्यमेषु व्यापकप्रतिषेधा: प्रसरन्ति।OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Thursday, June 8, 2017
विद्यालयेषु परीक्षाप्रणालिः परिष्क्रियते।
अनन्तपुरी> केरले प्रथमकक्ष्यायाः आरभ्य द्वादशकक्ष्यापर्यन्तं परीक्षाप्रणालिः आपादमस्तकं परिष्क्रियते। शिक्षामन्त्रिणः सि रवीन्द्रनाथस्य नेतृत्वे एस् सि ई आर् टि आस्थाने सम्पन्ने उन्नताधिकारिणाम् उपवेशने एतदधिकृत्य निर्णयः जातः। आगस्ट् मासस्य पादवार्षिकमूल्यनिर्णयादारभ्य नूतनसम्प्रदायः प्रवृत्तिपथमागमिष्यति। निरन्तरमूल्यनिर्णयम् इतःपरं युक्तियुक्तं कारयिष्यति। एतदर्थं दीयमानः अङ्कः विभिन्नघटकैः विभज्यते। सर्वेभ्यः छात्रेभ्यः सम्पूर्णमङ्कानां दानेन विजयमानं कृत्रिमेण वर्धयतीति आरोपणमस्ति। अङ्कविभजनं निर्णेतुं एस् सि ई आर् टि संस्थायै उत्तरदायित्वमदात्।
प्रतिशतं २५ अङ्कानां प्रश्नाः अधिकं दीयन्त इति अन्यः परिष्कारः। विपुलं प्रश्नशेखरमपि सज्जीकरिष्यति।
भारतस्य अभिमानम् "स्थूलबाल:"( फाट् बोय् ) भ्रमणपथे, विक्षेपणं राष्ट्रस्य विजय:।
श्रीहरिक्कोट्टा>आधुनिकसाङ्केतिकताया: प्राबल्येन जी एस् एल् वी - मारक् त्रीणि उपग्रहवाहनं श्रीहरिक्कोट्टाया: विक्षेपितम् । विक्षेपणं विजयकरमिति ऐ एस् आर् ओ न्यवेदयत् । "स्थूलबाल:"( फाट् बोय् ) इति आहूतस्य उपग्रहवाहनस्य विक्षेपणम् मनुष्यबहिराकाशगमनं साधयेदिति ऐ एस् आर् ओ संस्थाया: स्वप्नपद्धते: निर्णायकपादस्थापनमेव । सी ई २० इति क्रयोजनिकमुखयन्त्रेण सहिता: नैका: सविशेषता: अस्य वर्तन्ते । विक्षेपणस्य विजयकर्तॄन् शास्त्रज्ञान् राष्ट्रपति: प्रणब मुखर्जी, प्रधानमन्त्री नरेन्द्रमोदी, केरलस्य मुख्यमन्त्री पिणराई विजय:, ऐ एस् आर् ओ निर्देशक: किरणकुमार: एते अभिनन्दितवन्त: । जी एस् एल् वी उपग्रहयन्त्रस्य विक्षेपणेन उपग्रहयन्त्रविक्षेपणे साङ्केतिकविद्यायां च भारतम् अग्रिमतलम् प्रविष्टम् इति प्रधानमन्त्रिणा सूचितम् । भारतेन तद्देशीयरीत्या विकासितम् अतिभारयुक्तम् उपग्रहवाहनमेव क्रयोजनिकमुखयन्त्रसहितं श्रीहरिक्कोट्टाया: विक्षेपितमिति मुख्यमन्त्रिणा पि प्रदर्शितम् । पादशतकातिलम्बितस्य शास्त्राज्ञानाम् परिश्रमस्य फलमेव विजयोयम् । बहिराकाशं प्रति मानवम् प्रेषयेत् इति भारतसमय स्वप्नपद्धतिं याथार्थ्यं क़र्तुम्भारतस्य़ पादन्यास:इत्यपि एतत् परिदृश्यते इत्यपि स: असूचयत्।।
Wednesday, June 7, 2017
मध्यप्रदेशे कृषक प्रक्षोभः - भुषुण्डिप्रयोगे पञ्च हताः।
भोपाल् >मध्यप्रदेश राज्यस्य मन्सोर् जनपदे कृषकान् प्रति आरक्षकैः कृतेन भुषुण्डिशस्त्रप्रयोगेण पञ्च हताः। अनावृष्टिबाधिते जनपदे कार्षिकोत्पन्नानां कृते अधिकमूल्यं याचमानैः कृषकैः कृतस्य आन्दोलस्य मध्ये आसीदियं घटना। नैकाः आहताः। प्रक्षोभे भागं भजमानाः कृषकाः पिपालिया आरक्षकालयस्थानि वाहनानि अग्निसात्कृतानि , तेन कारणेनैव भुषुण्डिप्रयोगः कृत इति श्रूयते।
खत्तर् राष्ट्रस्य पृथक्करणं - विषयपरिहाराय तीव्रयत्नः आरब्धः।
दुबाय् > गल्फ् - अरब मण्डलेषु सञ्जातं प्रतिसन्धिं परिहर्तुं तीव्रयत्नः आरब्धः। कुवैट् राष्ट्रस्य शासकः [अमीर्] सौदीराजं सन्दर्श्य चर्चां कृतवान्।सौदी अरेब्या राष्ट्रस्य नेतृत्वे यु ए ई , बहरिन् , ईजिप्ट् , यमन् इत्यादीनि सप्त राष्ट्राणि खत्तरेण सह नयतन्त्रबन्धान् विच्छेदितवतः आसन्। भीकरसंस्थाभ्यः खत्तर् राष्ट्रं साहाय्यं करोति इत्यारोप्य एव तस्य पृथक्करणं कृतम्।
Tuesday, June 6, 2017
लण्टने पुनरपि भीकराक्रमणम् - सप्त हताः।
लण्टन् >शनिवासरे रात्रौ लण्टन्नगरे संवृत्ते भीकराक्रमणे सप्त जनाः हताः। ४८जनाः आहताः। आक्रमणकारिषु त्रयः आरक्षकैः निहताः च। नगरे प्रसिद्धेन "लण्टन् सेतु" मार्गेण सञ्चरन्तः पादचारिणः केनचन कार् यानेन दूरं विक्षिप्ताः। अनन्तरं कार् यानात् अवतीर्णाः अाक्रमकारिणःसमीपस्थे आपणे स्थितान् जनान् छुरिकया आक्रमितवन्तः।
लण्टन् >शनिवासरे रात्रौ लण्टन्नगरे संवृत्ते भीकराक्रमणे सप्त जनाः हताः। ४८जनाः आहताः। आक्रमणकारिषु त्रयः आरक्षकैः निहताः च। नगरे प्रसिद्धेन "लण्टन् सेतु" मार्गेण सञ्चरन्तः पादचारिणः केनचन कार् यानेन दूरं विक्षिप्ताः। अनन्तरं कार् यानात् अवतीर्णाः अाक्रमकारिणःसमीपस्थे आपणे स्थितान् जनान् छुरिकया आक्रमितवन्तः।
Monday, June 5, 2017
अमेरिक्कायाम् आङ्गलपदानाम् अक्षरविवेचनस्पर्धायां त्रुटिं विना अनन्याविजयिनी।
अमेरिक्कायाम् प्रचलिते नवतितमे देशीयाङ्गलपदस्थाक्षरविवेचनस्पर्धायां (स्पेल्लिङ्ग् कण्टेस्ट् ) भारतवंशजाया: अनन्यानामिकाया:(१२ वयस्काया: ) कृते विजयकिरीटम् । भारतवंशजं रोहन राजीवं नाम बालकं विजित्यैव अनन्या स्पर्धायामस्यां जेत्री अभवत् । उपपञ्चविंशति: लक्षं रूप्यकाणाम् मूल्ययुतं डोळर् तथा फलकं (ट्रोफी) च पुरस्कार: । अनन्तपुर्याम् पूजप्पुरायां विनुभवने विनयश्रीकुमारस्य तृश्शिवपुरे चेलक्कोट्टुकरायाम् पोलियेडत्त् गृहे डा अनुपमायाश्च पुत्रीयम् । कालिफोर्णियायाम् फुगमान् एलिमेन्टरी विद्यालयस्य विद्यार्थिनी चेयम् बालिका । द्वितीयकक्ष्याछात्र: अच्युत: सहोदर: । गुरुवारे रात्रौ मेरिलान्ड् गेलोर्ड् नाशनल् रिसोर्ट् मध्ये प्रचलिते अतिशक्तायां स्पर्धायाम् एव अनन्या रोहनम् पराजितवती । " मारोकेन् " इति पदं दोषं विना उच्चार्यैव अनन्या किरीटं स्वायत्तमकरोत् । एकस्य विशिष्टवस्त्रविशेषस्य नाम इदम् पदम् ।
श्वासवायुस्तूपिकां विना चत्वारो भारतसैनिका: एवरस्ट् शृङ्गे ।
काठमण्डु:> श्वासवायुस्तूपिकां विना एवरस्ड् शृङ्गम् अधिरुह्य चत्वारो भारतसैनिका:। कुञ्जोक्क् टेण्ट: , केलषाङ् दोर्जि भूट्टिया , कलदेन् पञ्जूरः, सोनम् फन्तोस्क: एते सैनिका: धीरसाफल्यम् प्राप्तवन्त:। मई एकविंशतिदिनाङ्के एतेषां सङ्घ: एवरस्ट् अध्यारोहत् । शुक्रवारे प्रत्यागतवन्तश्च । चतुर्दशजनानां सङ्घ: दौत्याय सन्नद्ध: प्रस्थितश्च। श्वासवायुस्तूपिकां विना एवरस्ट् आरोढुं दशजनानां सङ्घ: रूपीकृत:। एतेषु चत्वार: एव दौत्यविजेतार: इति दौत्यसङ्घनायक: केणल् विशालदुबे उक्तवान्। " हिमसिंह: एवरस्ट् एक्स्पडिषन् २०१७ " ( स्नो लयण् एवरस्ट् एक्स्पडिषन् सप्तदशोत्तरद्विसहस्रम् ) इत्यासीत् दौत्यस्य नाम । अष्टचत्वारिंशदुत्तराष्टशताधिकाष्टसहस्रम् मीटर् उन्नतम् एवरस्ट् शृङ्गम् एतावता चतुस्सहस्राधिका: आरूढवन्त:। एतेषु सप्ताशीत्यधिकशतम् पर्वतारोहका: एव श्वासवायुस्तूपिकां विहाय शृङ्गमिदमारूढवन्त:। षट् षेर्पा मार्गनिर्देशकाश्च सफलप्रयत्ना: । इदंप्रथमतया एक: सङ्घ: साहसिकयात्रायै प्रस्थित: इति वैशिष्ट्यम् भारतसेनाया: । लोकमूर्ध्नि मानवेन पादस्पर्शं कृत्वा चतुष्षष्टिवर्षेषु पूर्तीकृतेषु सुवर्णनिमिषेस्मिन्नेव सेनाया: दौत्यसाफल्यमित्यपि कौतुककरम्। त्रिपञ्चाशदुत्तरनवशताधिकसहस्रतमे एड्मण्ड् हिलारि: टेन्सिंग् नोर्गे च मिलित्वा प्रप्रथमंम् एवरस्ट् अधिरूढवन्तौ । एकसप्तत्युत्तरत्रिशतम् पर्वतारोहकाणां कृते अस्याम् ऋतौ एवरस्ट् आरोढुम् अनुमतिर्दत्ता वर्तते नेपालेन । अस्मिन् वर्षे आहत्य एतावत्पर्यन्तं दश पर्वतारोहका: मृता:। आहत्य एतावता त्रिशतम् च मृतवन्त: । तेषु द्विशतानाम् मृतदेहोपि न प्राप्त:॥
रेलमार्गं विहाय रथ्यया अपि रेल्यानं चालयितुं शक्यते इति चैनया स्पष्टीकृतम् ।
रथ्ययापि रेलयानं धावति किम् ? धावतीति चैना स्पष्टीकरोति । रेलमार्गं त्यक्त्वा रथ्यया सञ्चरत: रेलयानस्य दृश्यचित्राणि सामान्यचित्राणि च चैनया बहिरानीतानि वर्तन्ते । लोके एव प्रप्रथमं स्यादिदम् परीक्षणम् । किन्तु सामान्यरेलयानेषु उपयुज्यमानानि दृढायोनिर्मितानि चक्राणि विहाय रबर् चक्राणि एव एव रेलयानेषु उपयुक्तानि। चैनानगरस्य ह्यूनानप्रविश्यायां जूण् द्वितीयदिनाङ्के रेलयानस्य नूतनसेवनम् आरब्धम् । अत्याधुनिकसाङ्केतिकज्ञानसाह्येन निर्मितं रेलयानमिदं लोके एव विप्लवात्मकपरिवर्तनम् आनयेत् इति विश्वास:। त्रयोदशोत्तरद्विसहस्रतमे एव अस्या: कल्पनाया: बलेन यत्नोयं सफलीकृतम् । चैनाया: रेल् कोर्परेषन् संस्थाया: नूतनसंरम्भ: अयम् पूर्णतया अष्टादशोत्तरद्विसहस्रतमे एव प्रवर्तनक्षमम् भवेत्। सामान्यमार्गेषु निर्दिष्टचिह्नितमार्गेण एव रेलयानं सञ्चरेत् । रेलयाननियन्त्रणाय अनेकानि सेन्सर् यन्त्राणि च उपयुज्यन्ते । एतेषां सेन्सर् यन्त्राणां साहाय्येन चालक: मार्गस्थरेलमार्गम् अभिव्यनक्ति । घण्टायां सप्तति: कि मी वेगमानकयुतं मुखयन्त्रसहितं ( एन्जिन् ) रेलयानं दशनिमेषाणां वैद्युतिग्रहणेन पञ्चविंशति: कि मी पर्यन्तं दूरं सञ्चरेत् ।
Subscribe to:
Posts (Atom)