ई वी एम् दायित्वकाहलस्य अन्तिमदिनाङ्क: -प्रतिसन्धिम् न स्व्यकुर्वन् राष्ट्रियदलीया:
नवदिल्ली> वैद्युतनिर्वाचनयन्त्रस्य ( ई वी एम् ) कार्यक्षमताप्रदर्शनाय कृतस्य श्रमस्य भागतया निर्वाचनसमित्या चाल्यमाने ई वी एम् दायित्वकाहले भागस्वीकाराय अपेक्षां दातुमद्य अन्तिमदिनाङ्क: । किन्तु एतावता केपि अपेक्षां न समर्पितवन्त: इति मुख्यनिर्वाचनसमित्या: समीपकेन्द्रै: ज्ञापितम् । निर्वाचनयन्त्रेषु व्यापकतया दुर्विनिमय:वर्तते इति आरोपणम् औद्योगिकरीत्या व्यक्तीकर्तुमेव एवं दायित्वस्वीकार: । सप्त अङ्गीकृतराष्ट्रियदलान् नवचत्वारिंशत् राज्यदलान् च एतदर्थम् निर्वाचनसमित्यधिकारिण: निमन्त्रितवन्त: । जून् तृतीये आरभ्य पञ्चदिनात्मकं यावत् चाल्यमाने ई वी एम् चालञ्च् कीर्यक्रमे भागं वोढुम् इच्छन्त: मई षड्विंशत्याम् सायम् पञ्चवादनात् पूर्वम् अपेक्षां दद्युरिति निर्देश: । आम् आदमी दलीया: एव आरोपणम् उन्नीतवन्त:। परीक्षणेस्मिन् उपयुज्यमानसङ्गणकेषु , मातृफलकेषु परिवर्तनानि अपेक्षितानि इति आम् आदमी दलस्य अपेक्षां निर्वाचनसमिति: व्याक्षिपत् । परिवर्तने कथञ्चित् कृते तत्र प्रकृतिनिर्वाचनयन्त्रं च न भवेदिति च निर्वाचनसमित्या ज्ञापितम् । पूर्वं दिल्ली नियमसभायाम् आम् आदमी दलीया: निर्वाचनयन्त्राणि चूषणं कृत्वा प्रादर्शयन् । किन्तु एतानि समित्या: नैवेति निर्वीचनसमित्या सूचितम् । कृत्रिमयन्त्राणि आसन्निति समित्या: वाद: विमर्शनञ्च । जूण् मासे चाल्यमाने परीक्षणे प्रतिदलेभ्य: त्रयाणामेक: सङ्घ: भागं वोढुमर्हति । विदेशीयविदग्धानां अनुमति: निषिद्धा ।पञ्चराज्येभ्य: आनीतेभ्य: निर्वाचनयन्त्रेभ्य: चत्वारि एकैकसङ्घ: चेतुमर्हति । कृत्रिमं विना कार्यक्षमताप्रदर्शनाय चतुर्घण्टात्मक: समयोपि दत्त: वर्तते ।।OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Monday, May 29, 2017
श्रीलङ्काप्रलयः - मरणानि १४६ , भारतस्य नाविकसाहाय्यम्।
कोलम्बो> श्रीलङ्काराष्ट्रे अतिवृष्ट्या जलोपप्लवेन च मारितानां सङ्ख्या १४६ अभवत्। ११२ जनाः अप्रत्यक्षाः अभवंश्च। पञ्चलक्षाधिकं जनाः भवनरहिताः जाता इति अधिकारिभिः सूचितम्। प्रलयेन दुरितबाधितानां कृते भारतस्य साहाय्यः प्राप्तः। भारतीय नौसेनायाः ऐ एन् एस् किर्च् नामिका महानौका श्रीलङ्कां प्रापयामास। शार्दुलमहानौका अवश्यवस्तुभिः साकं रविवासरे लङ्कातीरं प्राप्य रक्षाप्रवर्तनानि आरब्धानि।
सी बी एस् ई द्वादशकक्ष्याफलम् ; रक्षा गोपाल: प्रथमस्थाने ( प्रथमराङ्क् जेत्री )।
नवदिल्ली >अद्य प्रख्यापिते सी बी एस् ई द्वादशकक्ष्याफले नवनवति: दशांशं षट् ( ९९.६ '/. ) प्रतिशतम् अङ्कैस्सह रक्षा गोपाल: राष्ट्रे प्रथमस्थानीया अभवत् । नोयिडायाम् अमिट्टि अन्ताराष्ट्रविद्यालयस्य मानविकशास्त्रविभागे विद्यार्थिनी भवति रक्षा । नवनवति: दशांशं चत्वारि प्रतिशतम् ( ९९.४ '/. ) अङ्कान् प्राप्य चण्डिगडस्थे डी ए वी विद्यालयस्य भूमि: सावन्त: द्वितीयस्थाने आगता । चण्डिगडे एव भवन्स् विद्यामन्दिरस्य आदित्य जैन: नवनवति: दशांशं द्वे प्रतिशतम् (९९.२ '/. ) अङ्कान् प्राप्य तृतीयस्थाने च विराजते । अधिकाङ्कदानेन एव द्वादशकक्ष्याफलम् प्रसिद्धीकृतम् । द्व्यशीतिप्रतिशतम् ( ८२'/. ) छात्रा: उन्नतशिक्षायै योग्यताम् आर्जितवन्त: । उपरिपठनावसरम् बाधते इत्यत: अधिकाङ्कदानमसमापननिर्णय: आगामिवर्षादारभ्य स्वीकुर्यात् इति न्यायालयनिर्देश: ।
नवदिल्ली >अद्य प्रख्यापिते सी बी एस् ई द्वादशकक्ष्याफले नवनवति: दशांशं षट् ( ९९.६ '/. ) प्रतिशतम् अङ्कैस्सह रक्षा गोपाल: राष्ट्रे प्रथमस्थानीया अभवत् । नोयिडायाम् अमिट्टि अन्ताराष्ट्रविद्यालयस्य मानविकशास्त्रविभागे विद्यार्थिनी भवति रक्षा । नवनवति: दशांशं चत्वारि प्रतिशतम् ( ९९.४ '/. ) अङ्कान् प्राप्य चण्डिगडस्थे डी ए वी विद्यालयस्य भूमि: सावन्त: द्वितीयस्थाने आगता । चण्डिगडे एव भवन्स् विद्यामन्दिरस्य आदित्य जैन: नवनवति: दशांशं द्वे प्रतिशतम् (९९.२ '/. ) अङ्कान् प्राप्य तृतीयस्थाने च विराजते । अधिकाङ्कदानेन एव द्वादशकक्ष्याफलम् प्रसिद्धीकृतम् । द्व्यशीतिप्रतिशतम् ( ८२'/. ) छात्रा: उन्नतशिक्षायै योग्यताम् आर्जितवन्त: । उपरिपठनावसरम् बाधते इत्यत: अधिकाङ्कदानमसमापननिर्णय: आगामिवर्षादारभ्य स्वीकुर्यात् इति न्यायालयनिर्देश: ।
Sunday, May 28, 2017
"सिका वैरस्" भारतेऽपि।
अहम्मदाबाद् > भारते सिका वैरस् रोगबाधा स्थिरीकृता इति विश्व स्वास्थ्य संस्था। अहम्मदाबादे त्रयः जनाः रोगबाधिताः इति सूच्यते। इदं प्रथममेव भारते रोगस्थिरीकरणम्। अहम्मदाबादस्थे बि जे मेडिक्कल् कोलेज् आतुरालये कृते रक्तपरिशोधे आसीत् त्रिषु जनेषु रोगबाधा दृष्टा। प्रथमं कस्मिंश्चित् ६४ वयस्के , ततः कस्यांचित् ३४वयस्कायां , पुनः २२वयस्कायां गर्भवत्यां च रोगबाधा स्थिरीकृता।शिरोवेदना , ज्वरः, पेशीवेदना , नयनयोः रक्तवर्णः इत्यादीनि यानि लक्षणानि "डङ्किज्वरे" दृश्यन्ते तान्येव अस्मिन् रोगे अपि दृश्यन्ते।
अधिकाङ्कदानविरोधी राज्यन्यायालयविधि: सी बी एस् ई निरोधपत्रं न दास्यति।
नवदिल्ली > अधिकाङ्कदानं कुर्यात् इति दिल्लीन्यायालयस्य विधिम् विरुद्ध्य सी बी एस् ई निरोधपत्रं न दास्यति । एतस्य पश्चात् द्वादशकक्ष्यापरीक्षाफलं झटिति प्रख्यापयेत् । अधिकाङ्कदानसम्बद्धानि आशयवैरुद्ध्यानि सन्तीत्यत: फलप्रख्यापने विलम्ब: भवेदिति सूचना वर्तते एव । तथापि अद्य परिक्षाफलं प्रकाश्ययते इति सूचना अस्ति । अधिकाङ्कदानं निरोधयेत् इति निर्णय: परीक्षाया: परमेव आगत: इति कारणम् प्रदर्श्य एव अस्मिन् वर्षे दिल्लीराज्यन्यायालयेन तत् निरोधितम् । परीक्षाफलं निश्चितसमयाभ्यन्तरे एव प्रख्यापयेयु: इति मानवशेषिमन्त्री प्रकाशजावदेकर: गतदिने निवेदितवान् ॥
दीर्घतमां सेतुं राष्ट्राय समार्पयत् प्रधानमन्त्री ।
गुवाहाटी >भारते दीर्घतमा " धोला - सदिया "सेतु: उद्घाटिता प्रधानमन्त्रिणा असमे । केन्द्रसर्वकारेण वर्षत्रये पूर्तीकृते एष: समारोप: । सर्वकारस्य तृतीयवार्षिकाघोषाणाम् औद्योगिकप्रारम्भ: अनेन अभवत् । असमे सदियाया: आरभ्यमाणा नव दशांशं एकं पञ्च कि मी दीर्घा इयं सेतु: धोलायाम् समाप्यते । असमस्य टिन् सुकिया मण्डले ब्रह्मपुत्राया: पोषकनद्या: लोहिताया: उपरि एव सेतुरियम् । एतावत्पर्यन्तं बिहारस्य महात्मागान्धिसेतुरेव ( पञ्च दशांशं सप्त पञ्च कि मी ) राष्ट्रे दीर्घतमा आसीत् । तृतीयस्थाने च मुम्बै मध्ये बान्द्र - वरली समुद्रसेतु: ( पञ्च दशांशं पञ्च सप्त कि मी दीर्घयुता )।Saturday, May 27, 2017
संस्कृतं भारतीयभाषाणां जीवच्छक्तिः भवेत् - डो . के . जि. पौलोस्।
कालटी> कैरली , हिन्दी, गुजराती इत्यादीनां बहूणां भारतीयभाषाणां जीवच्छक्तिरूपेण संस्कृतभाषा वर्तमाना भवेदिति केरलकलामण्डलस्य भूतपूर्व उपकुलपतिः तथा कालटी श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य भूतपूर्वः पञ्जिकाघिकारी डो. के.जि.पौलोस् वर्यः प्रोक्तवान्। संस्कृतविश्वविद्यालये प्रचाल्यमानायां संस्कृतशिक्षणं - अभिग्रहः संभाव्यता च नामिकायां त्रिदिनसङ्गोष्ठ्यां मुख्यभाषणं कुर्वन् आसीत् सः। कैरल्याम् उपयुज्यमानेषु पदेषु बहुभूरिपदानि संस्कृतात् निष्पन्नानि भवन्ति। ओजस्तेजोयुक्तायाः मलयालभाषायाः सुस्थित्यर्थं संस्कृतभाषाशिक्षणं प्रयोगश्च अनिवार्यं भवतीति पौलोस्वर्येण उक्तम्।प्रोफ. मुत्तलपुरं मोहनदासः अध्यक्षपदमलंकृतवान्। डो. पि.के .शङ्करनारायणः[विश्व संस्कृत प्रतिष्ठानं] एन् .के रामचन्द्रः [सम्प्रतिवार्ता] , अय्यम्पुष़ा हरिकुमारः [सम्प्रतिवार्ता मुख्यसम्पादकः] , वेणु कक्कट्टिल् , डॉ महेष् बाबुः , मार्गि मधुः , गोपालप्पणिक्कर् इत्येते विविधविषयेषु प्रबन्धान् अवतारितवन्तः।
भारतं विशालतया चिन्तयति द्रुतगत्या चलति च- यु एस्।
वाषिड्टण्> राष्ट्रविकासे पूर्वस्थितं चैना राष्ट्रं पश्चात् कारयितुं भारतं विशालतया चिन्तयति द्रुतगत्या चलति च इति यु एस् । विविधेषु क्षेत्रेषु भारतं वर्धते। यु एस् सदृशराष्ट्रं प्रतिरपि अनेके साध्यताः ते अवतारयन्ति इति यु एस् नियमज्ञः रोबर्ट् ओर् अवदत्।सैरोर्जं, वायु ऊर्जं इत्यादि क्षेत्रेषु बृहती प्रतीक्षा अस्ति भारतस्य। गार्हिकक्षेत्रे राज्यान्तर क्षेत्रे च एतयोः निक्षेपं तैः क्रियते। प्रधानमन्त्रिणः स्मार्ट् सिट्टी पद्धत्याम् अनेके घटकाः सन्ति। विकासक्षेत्रे आर्थिकक्षेत्रे श्रद्धां दत्वा तन्त्रप्रधानं निर्णयं भारतेन स्वीक्रियते इति सः अयोजयत्।
गतागतधर्मलङ्घनं - षार्जायां पादचारिभ्यः शुल्कदण्डनं विहितम्।
षार्जा >वीथीसुरक्षाम् अनुबन्ध्य कृते आलोकने गतागतविधिम् उल्लङ्घितवतां पादचारिणां कृते अधिकृतैः शुल्कदण्डनं विहितम्। उपचतुस्सहस्रं पदचारियात्रिकाः एतादृशदण्डनविधेयाः अभवन्।यत्र मार्गव्यत्यस्तः न विधीयते तैः स्थानेैः मार्गव्यत्यस्तः कृतः इत्यनेन कारणेनैव २०० दिर्हक्रमेण दण्डः विहितः। यदा गतागतविधिः उल्लङ्घ्यते तदा आरक्षकैः अपराधिनां कृते अवबोधनमपि क्रियते।
Subscribe to:
Posts (Atom)