एकवर्षाभ्यन्तरे भारतस्य सर्वेषु ग्रामेषु वैद्युति:।।
नवदिल्ली > राष्ट्रस्य सर्वेषु ग्रामेषु एकवर्षाभ्यन्तरे विद्युतिम् प्रापयेदिति प्रधानमन्त्री नरेन्द्रमोदी । प्रतिसन्धय: अनेका:। किन्तु वैद्युतीकरणं कर्तुं शक्यते इति प्रतीक्षा च वर्तते प्रधानमन्त्री उक्तवान्। गुर्जरदेशे गान्धिनगरे आफ्रिक्काविकसनवित्तकोशस्य वार्षिकसम्मेलनम् उद्घाटयन् स: एवं सूचितवान्। कर्षकाणां दरिद्राणां स्त्रीणां च उन्नमनमेव सर्वकारस्य प्रथमपरिगणना । शिक्षामेखलायां तावत् आफ्रिकादेशसमानैस्सह हस्तयोजनम् भारतस्य अभिमानास्पदम् इत्यपि स: उक्तवान् । चतुर्दशोत्तरद्विसहस्रतमे (२०१४) शासने आगमनात्परं भारतस्य विदेशसाम्पत्तिकनयेषु तेन आफ्रिकाया: कृते प्रातिनिध्यं दत्तम् । षण्णवत्युत्तरनवशताधिकसहस्रतमात् (१९९६) षोडशोत्तरद्विसहस्रपर्यन्तम् (२०१६) आफ्रिकाराष्ट्रैस्सह साक्षात् विदेशनिक्षेप: पञ्चसु एकं जातम् च (१/५)। एकाशीति: राष्ट्रेभ्य: त्रिसहस्राधिका: प्रतिनिधय: सम्मेलने भागं भजन्ते।OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Thursday, May 25, 2017
तीव्रवादाय धनसहाय:; पञ्चदशजना: द्रोहिण: इति एन् ऐ ए न्यायालय:।
गुवाहती > असमे तीव्रवादप्रवर्तनानां कृते धनसाहाय्यं कृतमिति आरोप्य पञ्चदशजना: द्रोहिण: इति एन् ऐ ए विशिष्टन्यायालय:। दण्ड: विधीयते मङ्गलवासरे। नवोत्तरद्विसहस्रतमे एन् ऐ ए न स्वीकृतद्वयो: न्यायवादयो: एव न्यायालयनिर्णय: सोमवारे आगत:। प्राक्तीव्रवादिन: जनप्रतिनिधय: तथा सर्वकारोद्योगस्थाश्च द्रोहिणाम् पट्टिकायाम् सन्ति। विकसनप्रवर्तनानां कृते स्थापितसर्वकारधनयोजनाभ्य: साम्पत्तिकव्यय: इतरमार्गै: इति आरोपणम् पूर्वमासीत्। एतस्य अन्वेषणवेलायाम् साम्पत्तिकं सर्वं तीव्रवादम् प्रति गच्छति इति ज्ञातवन्त: । सहसंयोजका: हवाला मध्यस्था: सर्वकारोद्योगस्थाश्च मिलित्वा साम्पत्तिकस्य दुरुपयोगं कुर्वन्ति एवम् । अन्वेषणस्य भागतया मिसोरामे परिशोधनायां सिंगप्पूरुनिर्मितम् एम् - षोडश रैफिल्स् तथा अनेके आयुधशेखराश्च दृष्टा: गृहीताश्च। एककोटि: द्वात्रिंशत् लक्षम् रूप्यकाणि द्वयो: न्यायवादयो: कृते एन् ऐ ए स्वीकृतवन्त: ।पञ्चराज्याणि सन्दर्श्य स्पष्टीकरणरेखा: स्वरूपिता:। असमस्य, मिसोरामस्य, कर्णाटकाया: बङ्गालस्य च आरक्षकाणां साहाय्यं सेवनं च एन् ऐ ए उपयुक्तवन्त:।।Wednesday, May 24, 2017
ब्रिट्टने भीकराक्रमणं - २२ मरणानि।
माञ्चेस्टर्> ब्रिट्टन् राष्ट्रे माञ्चेस्टर् नगरे प्रचलितायां कस्यांश्चन सङ्गीतनिशायां दुरापन्ने आत्मघातिस्फोटने द्वाविंशति जनाः मारिताः। एकोनषष्टिः[५९] व्रणिताः।नगरस्थे बृहत्तमे गृहान्तःस्थे क्रीडाङ्कणे - माञ्चेस्टर् अरीना - अमेरिक्कीयगायिकायाः अरियाने ग्रान्डे इत्यस्यायाः सङ्गीतकार्यक्रमम् आस्वदितुं प्राप्ता एव दुरन्तविधेयाः अभवन्। आक्रमणस्य उत्तरदायित्वम् ऐ एस् संस्थया स्वीकृतम्।
जनानाम् अभिमतज्ञानाय 'जन्की बात'॥
नवदिल्ली> नरेन्द्रमोदी मन्त्रिसभायाः त्रितीयसंवत्सरीय समारोहस्य अनुबन्धतया 'जन् की बात्' नाम जनानां स्वाभिमतप्रकाशनसन्दर्भः आयोक्ष्यते। 'मन की बात' नाम आकाशवाणी कार्यक्रमे प्रधानमन्त्री जनान् प्रति भाषणं करोति। जन की बात कार्यक्रमे जानाः प्रधानमन्त्रिणं प्रति भाषणं कुर्वन्ति इत्येव अस्ति विशेषता। मेय्मासस्य षट्विंशति दिनाङ्कतः जूण् एकादश दिनाङ्क पर्यन्तं आयोक्ष्यमाणेषु कार्यक्रमेषु एव जनेभ्यः अभिमतस्वीकरः। केन्द्रयोजनां प्रति जनानां मतः एव क्रोडीक्रियते। आराष्ट्रं नवशतेषु केन्द्रेषु मोदी फेस्ट् (Making Of Developed India )आयोक्ष्यते ।केन्द्र सर्वकारस्य विकास -पद्धतेः प्रचारः एव लक्ष्यः ।
अस्मिन्मासस्य षट्विंशे (२६) दिने गुवाहत्यां सार्वजनिक सम्मेलने संवत्सरीय-समारोहः प्रधानमन्त्रिणा उद्घाट्यते। अन्येषु राज्येषु राजनैतिक दलाध्यक्षः अमित्षा महाभागेन अघोषस्य उद्घाटनं करिष्ये।
मिरिण्डा शीतलपानीये प्राणी दृष्टा।१५००० रूप्यकाणि नष्टपरिहारम्।
चेन्नै>मिरिण्डा शीतलपानीये मृताः प्राण्यः दृष्टाः। शीतलपानीय निर्मातॄन् चेनै उपभोक्तृन्यायालयेन आज्ञप्तः। दशसहस्रं आवेदकस्स कृते पञ्चसहस्रं मनेवेदनायै च भवतः। धनं षण्मासाभ्यन्तरे दातव्यम्।पी. तलपतिः अस्ति निवेदकः। २०१३ जूलाई मासे २७ दिवाङ्के सः चेन्नै नगरे स्ट्रहनास् वीथ्यां तस्माक् मद्यशालातः मिरिण्डा अक्रीणत्। पानात् पूर्वमेव तेन मृतप्राण्यः अदृष्टाः। तस्मिन्नेव दिने सः उपभोक्तृन्यायालये निवेदनं प्रदत्तम्।
राष्ट्रिय सङ्गोष्ठी संस्कृतभाषायाम्
कोच्ची >केरळेषु संस्कृतशिक्षायाः प्रतिबन्धः सौलभ्यः च इति विषयमधिकृत्य तृदिवसीय-राष्ट्रियसङ्गोष्ठी मेय् मास स्य पञ्चविंशाति दिनाङ्के भविष्यति। भारतस्य विभिन्नदेशेभ्यः विद्वांसः भागभाजाः भविष्यन्ति। कालटी श्री शङ्कराचार्य विश्वविद्यालये एव सङ्गेष्ठ्याः वेदी इति पूर्वनिश्चितः। सप्त विंशति दिने कार्यक्रमस्य पूर्णता भविष्यति।
"एवरस्ट्" शृङ्गस्य कश्चन भाग: भग्न: पतितश्च इति पर्वतारोहका:।
काठ्मण्डु: >"एवरस्ट् शृङ्गात् कश्चन भाग: भग्न: पतितश्चेति पर्वतारोहका:। त्रिपञ्चाशदुत्तरनवदशशततमे प्रथमतया एवरस्ट् आरूढवन्त: एड्मण्ड् हिलरी तथा टेन्सिंह: नोरगे च यत्र पादं स्थापितवन्त: स: भाग: एव विनष्ट:। हिलरीस्टेप् (पाद:) इति स्थानमिदम् आहूयते । पञ्चदशोत्तरद्विसहस्रतमे नेपाले प्रवृत्तभूकम्पात्परमेव भागेयम् विनष्ट: इति पर्वतारोहका: चिन्तयन्ति। एवरस्ट् शृङ्गस्य दक्षिणपूर्वभागे स्थिता द्वादश कि मी दैर्घ्ययुता शिला एव गता एवम्। एतस्य भङ्ग: पूर्वमेव संशयित: तथापि हिमाच्छादितावसंथायाम् स्थिरीकरण-साध्यता नासीत्। ब्रिटिष् पर्यवेक्षक: टीम् मोसेदाले एव हिलरीपाद: विनष्ट:, इति स्थिरीकृतवान्। एतस्य चित्रमपि स: मुखपुस्तके (फेस् बुक्) विनिमीतमपि ।गतवर्षे एव पादोयम् विनष्टमिति आवेदनानि आगतानि। स्थिरीकरणाय च बहुविधश्रमा: प्रचलिता:। समुद्रोपरितलात् नवत्युत्तरसप्तशताधिकअष्ट मीटर् मितौन्नत्ये एव अस्य स्थिति:। तीक्ष्णारोहणप्रदेश: अयम् एवरस्ट् अतिक्रान्तै: अन्तिमम् अतिक्रेतव्य: प्रदेश:। पश्चादवरोहणायापि एतत् स्थानम् नष्टमित्येतत् पर्वतारोहकान् अपघाते पातयेत्। उपरि प्राप्तुं च आरॉहका: कष्टम् अनुभवन्ति। अतिशैत्ये प्रतीक्षा करणीया इति साहचर्यम् च वर्तते।
अटूर् गोपालकृष्णाय जे सि डानियेल् पुरस्कारः।
अनन्तपुरी> मलयालचलनचित्रमण्डले समग्रयोगदानाय दीयमानः २०१६तमसंवत्सरस्य जे सि डानियल् पुरस्काराय अन्ताराष्ट्रप्रसिद्धः कैरलीचलनचित्रनिदेशकः अटूर् गोपालकृष्णः चितः। भारतीयचलच्चित्रमण्डलस्य परमोन्नतपुरस्कारः दादासाहिब् फाल्के पुरस्कारः २००४तमे संवत्सरे अनेन लब्धः आसीत्। तथा पद्मश्री, पद्मभूषणपुरस्काराभ्यां सः आदृतश्च आसीत्।स्वयंवरम्, अनन्तरम्, एलिप्पत्तायं, कोटियेट्टं, मुखामुखं, मतिलुकल्, विधेयन् इत्यादीनि आगोलप्रशस्तिमाप्तानि तस्य प्रमुखानि चलच्चित्राणि भवन्ति।
चीनासीमायां भारतीयव्योमसेनाविमानं भग्नं - अवशिष्टानि दृष्टानि।
नवदिल्ली> भारतीयव्योमसेनायाः सुखोय् - ३० नामकं युद्धविमानं परिशीलन-प्रयाणमध्ये चीनाराष्ट्रस्य सीमोपान्ते अप्रत्यक्षमभवत्। बहुहोराणाम् अन्वेषणान्ते असमराज्यस्य घोरवने अवशिष्टानि दृष्टानि। किन्तु वैमानिकद्वयमधिकृत्य कापि सूचना न लब्धा। असमस्य तेज़पुरात् उड्डयितं विमानं उत्तरदिशि ६० कि मी दूरे चीनायाः सीमासमीपमेव रडार् यन्त्रात् अप्रत्यक्षं जातम्।भारतीयव्योमसेनायाः नष्टभूतं अष्टमं युद्धविमानं भवति इदं सुखोय्। २४० सुखोय् विमानानि भारतव्योमसेनायै सन्ति।
Subscribe to:
Posts (Atom)