OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, May 13, 2017

एस्. बि. ऐ. वित्तकोशः भवनऋणकुसीतमूल्यं न्यूनमकरोत् । 
मुम्बै > एस्. बि ऐ. वित्तकोशः भवनऋणकुसीतमूल्यम् न्यूनीकृतवान् I त्रिंशत् लक्षमितस्य ऋणस्य o.२५ प्रतिशतं कुसीतम् न्यूनीभविष्यति। ८.३५ प्रतिशतं भवति नूतनमूल्यम्I नूतनं मूल्यं मङ्गलवासरे प्रबलीभवति स्म। त्रिंशत् लक्षाधिकऋणस्य मूल्यं ८.६०तः ८.५० इति न्यूनीभवति । भवनऋणग्राहकाणां लक्षसंख्याकानां जनानाम् अस्य प्रयोजनं भविष्यति इति व्यवस्थापकनिदेशकः रजनिष् कुमारः अवदत्I

Friday, May 12, 2017

कुलभूषणयादवस्य मृत्यु दण्डः निरोधितः।  
नवदिल्ली> गुप्तारोपणम् पुरस्कृत्य पाकिस्थानसैनिकन्यायालयेन मृत्युदण्डं विहितस्य  भारतीयनाविकसेनोद्योगस्थस्य कुलभूषणयादवस्य मृत्युदण्डः निरोधितः।  भारतस्य नीतिन्यायापेक्षाम्  पुरस्कृत्य  अन्ताराष्ट्र नीतिन्यायालयेनैव वधशिक्षा निरोधिता। नाविकसेनाया: विरामात्परं वाणिज्यं कुर्वन्तं कुलभूषणम् इरानत: अपहृत्य पाकिस्थानस्य गुप्तचर: इति आरोपणम् उन्नीय मृत्युदण्डः विहितः आसीत्। गतमासे एव पाकिस्थानसैनिकन्यायालयेन कुलभूषणस्य मृत्युदण्डः विहितः।  एतद्विरुध्य भारतेन शक्तियुक्तं प्रतिषिद्ध:  ज्येष्ठाभिभाषक: हरीषसाल्वे  महाशय: भारतस्य कृते अन्ताराष्ट्र नीतिन्यायालये उपस्थित: भवति। बलूचिस्थानात् कुलभूषणं  षोडशोत्र्तरद्विसहस्रतमे (२०१६ ) वर्षे गृहीतवन्त: इति पाकिस्थानस्य वाद:। किन्तु एष: न गुप्तचर: सैन्यात् विरमित: इति भारतेन व्यक्तीकृतम्। तन्न केवलम्; ग्रहणसमये कुलभूषणस्य हस्ते पारपत्रं चासीत्;  तथा न क्रियते गुप्तचरै: इत्यपि भारतेन व्यक्तीकृतम्।

Thursday, May 11, 2017

आधार् नाम मूलप्रमाणपत्रस्य पञ्जीकरणं स्खालित्यदूरीकरणं च स्थगितम्।
कोच्ची> आधार् नाम मूलप्रमाणपत्रस्य पञ्जीकरणं स्खालित्यदूरीकरणं  च स्थगिते जाते। तन्त्राधिगमस्य पुनर्नवीकरणे जातं मन्दगमनमेव अस्य निदानम्। विद्यालयेषु प्रवेशनकालमिदमित्यनेन एतत् क्लेशं सृजति।आधारपत्रस्य विनिमयाधिकारम् आधार विभागः ऐ टी मिषणाय अयच्छत्। ऐ टी मिषण् ऐ  टी अट् स्कूलाय, अक्षयाय, केलट्रोणाय च विनिमयाधिकारम् अयच्छत्। अलाभकारणेन ऐ टी अट् स्कूल् तथा केल्ट्रोण् च तस्मात् अत्तरदायित्वात् निर्गच्छतः। इदानीं विनिमयोत्तरदायित्वम् अक्षयायां निक्षिप्तमस्ति। ऐप्रिल् प्रथमदिनादारभ्य तन्त्राधिगमस्य पुनर्नवीकरणं कर्तव्यमिति अक्षयकेन्द्रान् निर्देशं दत्तमासीत्। किन्तु तत् न कार्यान्वितम्।
समाजमाध्यमद्वारा राष्ट्रहिताय युद्धं कुर्म:।
      नवदिल्ली> समाजमाध्यमेषु  विद्वेषजनकसन्देशान् मा विनिमयेयु: इति केन्द्रमन्त्री  राज्यवर्धनसिंहराथोड: आह्वानं कृतवान्। राष्ट्रशत्रुभि: प्रचार्यमाण-सन्देशा: राष्ट्रविरुद्धा: तादृशसन्देशान् प्रति  " समरभटा: " भवेम वयम् समाजमाध्यमोपयोक्तार:  इति च स: निर्दिष्टवान्।  वनिता धनतत्वफोरम्  ( विमन् इकणोमिक् फोरम् )  उद्घाटनसम्मेलने भाषमाण: आसीत् स:।  राष्ट्रहिताय युद्धं कर्तुम् भवद्भि: गणवस्त्रं धरणीयम् उत सीमा गन्तव्या इति किमपि नास्ति। समाजमाध्यमद्वारा अस्मद्गेहप्राप्तान् राष्ट्रविरुद्धसन्देशान् प्रति युद्धं कुर्म:। तादृशसन्देशान् मा विनिमयेम, मा प्रेषयेम।  मन्त्री सूचितवान्।
भारतस्य वर्धनसूचिकाङ्क: ७.७  प्रतिशतम् भविष्यति इति ऐ एम् एफ्। 
वाषिङ्टण:> चलत्साम्पत्तिकवर्षे - २०१७ - २०१८ (सप्तदशोत्तरद्विसहस्रम् - अष्टादशोत्तरद्विसहस्रम्) भारतेन ७.२% (सप्त दशांशं द्वे प्रतिशतम् ) वर्धनम् आर्ज्यते तथा च २०१८ - २०१९ ( अष्टादशोत्तरद्विसहस्रम् -  नवदशोत्तरद्विसहस्रम् ) साम्पत्तिकवर्षे भारतस्य वर्धनसूचिकाङ्क: ७.७% ( सप्त दशांशम् सप्त प्रतिशतम् ) प्रति  कूर्दिष्यते इति च अन्ताराष्ट्रनाणकनिधे: ( ऐ एम्  एफ् ) आवेदनम् । विपण्या: कार्यक्षमतादृढीकरणाय  दीर्घकालाधारेण घटनापरा:  प्रतिसन्धी: परिवर्तयेत् इति च ऐ एम् एफ्  निर्देश: ।  राष्ट्रनाण्यरूपविनिमयपरिष्करणेन सह राष्ट्रे  आविर्भूतात् रूप्यकदौर्लभ्यात् उद्भूता: तात्कालिकरोधा:  सप्तदशोत्तरद्विसहस्रतमे  क्रमानुगतं लुप्ता:  भविष्यन्ति  इत्यपि स्वस्य प्रादेशिक धनतत्व बहिरालोकने  ( रीजणल् इकणोमिक् औट्लुक् ) ऐ एम् एफ् संस्थया व्यक्तीकृतम् । विनिमयेषु विद्यमानानि ८६ % ( षडशीति प्रतिशतम् )  रूप्यकाणि  झटिति निरुध्य कृतं साम्पत्तिकपरिष्करणं स्वकार्योपभोगेषु सारवत्तया प्रतिफलितमभवत् । एतत् सामान्यस्थितिम् प्रापयितुं चलद्वित्तीयवर्षे  शक्नुयाम इति प्रतीक्षापि  संवेद्यते ऐ एम् एफ् संस्थया । भारतीयवित्तकोशसंविधानेन अभिमुखीक्रियमाणा: प्रतिसन्धय:ह्रस्वकालं यावत् ॠणवर्धनेषु  प्रतिफलिष्यन्ति इत्यपि संस्थया सूच्यते । धनपरम् एकीकरणम् , रूप्यकमूल्यवर्धननियन्त्रणाय नया: च सम्पन्मेखलाया: आत्मविश्वासं प्रतिष्ठापयेत्  इति ऐ एम्  एफ् सूचयति । आवेदनानुसारम्  षोडशोत्तरद्विसहस्रे   (२०१६ ) आर्जितात् ५.३ % ( पञ्च दशांशं त्रीणि  प्रतिशतात् ) j सप्तदशोत्तरद्विसहस्रतमे ( २०१७ ) एष्या  ५.५ % (पञ्च दशांशं पञ्च प्रतिशतम् ) वर्धनं रेखाङ्कयेत् इति प्रवचनम् । गतवित्तीयवर्षे ओक्टोबरमासस्य लोक धनतत्वबहिरालोकनम् (वेल्ड् इकणोमिक् औट्लुक्) अपेक्ष्य  सप्तदशोत्तरद्विसहस्रतमे (२०१७) चैनाया: जापानस्य च वर्धनसूचिकाङ्क:  उपरि गच्छेत् इति सूचनापि दीयते ऐ एम्  एफ् संस्थया । भारतस्य कार्ये ; कार्षिकरङ्गे उत्पादनवर्धनाय  अग्रेपि प्रतिसन्धय: परिगणनीया: भवेयु: इति निरीक्षणम्  । कार्षिकरङ्गसम्बद्धान् प्रश्नान् अभिमुखीकर्तुम् बहुविधकार्याणि करणीयानि च वर्तन्ते  इति ऐ एम् एफ्  निर्देश:।।

Wednesday, May 10, 2017

कोच्चीमेट्रोयोजनायै प्रयाणानुमतिः।
कोच्ची> कोच्ची मेट्रो रेल् यानयोजनायै प्रयाणानुमतिः लब्धा। आलुवातः पालारिवट्टं पर्यन्तं १३ कि मी. दूरं यावदेव मेट्रो रेल् सुरक्षाधिकारिणा अनुमतिः दत्ता। अद्य परिशीलनप्रयाणम् आरभ्यते।  केरलस्य प्रथममेट्रो योजनां प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटनं कारयितुमेव राज्यसर्वकारस्य अभिलाषः। तदर्थं प्रधानमन्त्रिणः कार्यालयेन सह पर्यालोचना आरब्धा।
न्यायाधीशाय कर्णाय मासषट्कस्य कारागारवासः।
नवदिल्ली>कोल्कोत्ता उच्चन्यायालयस्य न्यायाधीशाय सि एस् कर्णाय सर्वोच्चन्यायालयेन षण्मासानां कारागारवासदण्डः विहितः नीतिपीठं प्रति अनादरम् आचरितम् इति व्यवहारे एव सर्वोच्चन्यायालयस्य मुख्यन्यायाधिशस्य जे एस् खेहार् वर्यस्य आध्यक्ष्ये सप्ताङ्गनीतिपीठेन कारागारवासरूपं दण्डं विहितम्।
      गतदिने न्याया. कर्णेः सर्वोच्चन्यायालयस्य मुख्यन्यायाधिपसहितान् अष्टान् न्यायाधिपान् पञ्चसंवत्सराणां कारागृहवासाय अदण्डयत् इति अपूर्वघटना अपि सञ्जाता आसीत्।
वृक्षछेदनाय इच्छा नागता। नियमसभा सामाजिकः स्व उत्तरदायित्वे वृक्षरोपणं कृतवान्।
विशाखपट्टणम्>राष्ट्रिय-मार्गस्य  विकासे  वृक्षछेदनम् अनिवार्ये सति नियमसभा सामाजिकः स्व उत्तरदायित्वे वृक्षन् सर्वान् उत्क्षिप्य अन्यत्र तेषाम् पुनस्सथापनम् अकरोत्। आन्ध्रा राज्यस्य नियमसभा सामाजिकः बोधे प्रसादः एवम् आदर्शभूतः सञ्जातः। मूलानां नाशं न अभवत् अनेन वृक्षाः समीचीनतया वर्धन्ते। एकलक्षं रूप्यकाणि व्ययं कृत्वा तेन एतत् कार्यं कृतम्। वृक्षछेदनात् पूर्वं तान् अन्यत्र स्थापितुं शक्यते वा इति सर्वैः अवश्यम् चिन्तनीयमिति सः अयोजयत्।
Episode 45- Sanskrit News
Subhadra K Namboothiri, Std.10, Brahmanandodayam HSS, Kalady, Ernakulam, Kerala.

Tuesday, May 9, 2017

वृद्धदम्पत्यो: सम्पाद्यम्  एककोटि:  प्रतिरोधनिधये।
 अहमदाबाद:> गुर्जरदेशे वृद्धदम्पत्यौ  आजीवनान्तं स्वीयं सम्पाद्यम् पूर्णतया राष्ट्रियप्रतिरोधनिधिम् प्रति  दत्तवन्तौ । भावनगरस्थ: जनार्दनभाईभट्ट: तस्य पत्नी च व्यत्यस्तप्रवृत्या श्रद्धाकेन्द्रे भवत:। स्टेट् बाङ्क् ओफ् इन्डियाया: निवृत्तोद्योगस्तौ उभावपि । उद्य़ोगात् लब्धवेतनात् संरक्षितानि एककोटि: रूप्यकाणि एतौ प्रतिरोधनिधिम् प्रति दत्तवन्तौ । सैनिकानां तथा तेषां बान्धवानां च क्षेमाय रूपीकृता भवति राष्ट्रियप्रतिरोधनिधि:। प्रधानमन्त्रिण: आध्यक्ष्ये काचन समिति: एव  एतस्य  प्रवर्तनानि क्रमीकरोति । प्रतिरोधमन्त्री , धनकार्यमन्त्री  प्रमुखा: तस्या: अङ्गानि । प्रतिरोधनिधि: तु आर् . बी . ऐ  पश्यति । सामान्यजनानां सम्भावनामाश्रित्य एव प्रतिरोधनिधि:  तिष्ठति । """भारतकविर् ""  इति  नाम्नि कश्चन आप्  तथा वेब्सैट् च आभ्यन्तरमन्त्रालयेन आविष्कृतमासीत् । एतेन राष्ट्राय जीवत्यागं कृतवतां धीरसैनिकानां कुटुम्बाङ्गानां वित्तकोशलेखं प्रति जनै:  साक्षात् धनसाहाय्यं कर्तुं शक्यते इति पद्धत्या: प्रयोजनम् ।।