OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, May 4, 2017

दूरदर्शनं, आकाशवाणी आवेदनं श्रोतुं केन्द्र सर्वकारस्य संविधानम्।

नवदेहली>दूरदर्शनं भिन्नतरङ्गस्थाः, आकाशवाणी,एफ् एम् आकाशवाणी,सामाजिकाकाशवाणी इत्यादीनां कार्यक्रमाः, वार्ताः, विज्ञप्तिः इत्यादीन् अवलम्ब्य जनानाम् आक्षेपान् अभिप्पायान् च विमर्शयितुं अथवा परिगणयितुं केन्द्र सर्वकारेण सौविध्यं कृतम्।
सर्वकारस्तरे प्रथमवारम् एवं कार्यान्वयनम्।
जिल्लायां जिल्ला मजिस्ट्रेट् , आरक्षक कम्मीषणर् च स्तः अस्य अधिकारिणौ। सामान्यजनाः आवेदनानि तयोः सकाशे दातुं प्रभवन्ति। तस्मादतिरिच्य केन्द्र सर्वकारस्य pgportal.gov.in द्वारा अपि अवेदनानि दातुं शक्यते।

समीपस्थ-राष्ट्राणां कृते भारतस्य उपहारः
सार्कसाटलेट् उपग्रह विक्षेपणं मेय् मासे पञ्चम दिनांके दक्षिणएष्या राष्ट्रेभ्यःउपहारः रूपेण उपग्रहः संमानयिष्यति इति प्रधानमन्त्रिणः वाग्दानं मेय् मासे पञ्चम दिनांके याथार्तः भवति।  जि साट्  ९ उपग्रहः मय् मासे पञ्चम दिनांके विक्षेपणं करिष्यति इति प्रधानमन्त्रिणा स्वकीय रेडियो प्रभाषणे मन् की बात् मध्ये प्रख्यपितम्।
ऐ एस् आर् ओ एव उपग्रहस्य विक्षेपणं करिष्यति।  पूर्वं सार्कसाटलेट् इति नामकरणम् अकरोत्। पुनः पकिस्तनास्य विप्रतिपत्या तान् तिरस्कृत्य सौत् एष्यन् उपग्रहः इति नामकरणम् अकरोत् उपग्रहस्य भारं २१९५ किलोमितम् अस्ति।
२०१४ मध्ये काद्मण्डु सार्क संमेलने एव प्रधानमन्त्रिणः प्रख्यापनम्  अभवत्।
१२ वर्षपर्यन्तं वार्तविनिमये उपग्रहस्य सेवनं लप्स्यते प्रकृति दुरन्ताणां प्रवचनमपि लप्स्यते। विभिन्न सार्क राष्ट्रेभ्यः अनुगुणं भवति उपग्रहस्य सेवनम्।
जम्मूकाश्मीरराज्ये पुनः भीकराक्रमणम्। सप्त हताः तेषु पञ्च आरक्षकः।
नवदेहली>जमन्मूकाश्मीरराज्ये भीकरैः कृते आक्रमणे पञ्च आरक्षकाः द्वे वित्तकोश कार्यकर्तारः च हताः। जम्मु आण्ट् काश्मीर वित्तकोशस्य कुल्गां शाखां रूप्यकाणि स्वीकृत्य गच्छन्तं वाहनं प्रति आसीत् आक्रमणम्। क्षतबाधिताः समीपस्थम् आतुरालयं प्रवेशितवन्तः।
धनापहरणमासीत् भीकराणां लक्ष्यम्। किन्तु सुरक्षा कार्यकतॄणां परिश्रमेण तत् श्रमं पराजितम्। पलायितान् भीकरान् सुरक्षा कर्मकराणाम् अन्वेषणम् ऊर्जितं जातम्।
 अद्य प्रातः पूञ्च् जिल्लायां नियन्त्रणरेखायाः समीपे क्षेपणी आक्रमणेन पाक् सेनया द्वे भारतीयौ सैनिकौ हतौ। तयोः मृतदेहौ विकृतौ कारितौ च। तस्य प्रतिक्रिया करिष्यतीति भारतीयसेनया व्यक्तीकृतम्। तस्य अनन्तरमस्ति एतत् आक्रमणम्।

अनन्तनाग् उपनिर्वाचनं निरस्तम्।
नवदिल्ली>जम्मु काशमीरे अनन्तनाग् लोकसभामण्डले मेय् पञ्चविंशतितमे दिनाङ्के कर्तुं निश्चितम् उपनिर्वाचनं निर्वाचनशासनेन अपाकृतम्। जम्मु काश्मीरे अनुवर्तमानस्य भीकराक्रमणस्य सङ्घर्षस्य च आधारे एव एतादृशः निर्णयः।
    एप्रिल् द्वादशदिनाङ्के निर्णीतं निर्वाचनमासीत् मेय् मासं परिवर्तितम्। किन्तु इदानीम् ओक्टोबर् मासे उपनिर्वाचनं कर्तुमेव पर्यालोचना वर्तते।

Wednesday, May 3, 2017

Episode-44 Sanskrit News

Tuesday, May 2, 2017


जनप्रतिनिधयः जनैः सह अवतीर्णवन्तः। प्रतिषेधसमरे भागं स्वीकृतवन्तः।
कोच्ची> ओपरेषन् पालरुवी नाम संग्राम: आसीत् अयम् । केरलेषु नूतनतया धाव्यमानं पालरुवी नाम रेल्यानं रेल् निस्थानेषु स्थगयितुमेव इदम् आन्दोलनम्। नियमसभा सामाजिकाः प्रादेशिक सर्वकारस्य शासन समित्यध्यक्षाः - सभाङ्गाश्च आन्दोलने यात्रिकैः सह भागं स्वीकृतवन्तः। चालक्कुटि मण्डलस्य नियम-सभा सामाजिकः बी डि देवसि प्रतिषेध-समरस्य उद्घाटनम् अकरोत् कोटुङ्ङ्ल्लूर् मण्डलस्य सामाजिकः वि आर् सुनिल् कुमारः मुख्यभाषणम् अकरोत्।
पुनलूरुदेशतः पालक्काट् पर्यन्तं प्रतिदिनं गच्छति यानम्। किन्तु प्रधानेषु रेल् निस्थानेषु न स्थगति। इडप्पल्लि कोरट्टि इरिङ्ङालक्कुटा नेल्लायी पुतुक्काट् वटक्काञ्चेरि नामकेषु रयिल् निस्थानेषु यानस्य स्थगनाय एव इदं जनकीय आन्दोलनम्। समर भटाः श्यामवर्णयुक्तेन वस्त्रखण्डेन वदनं पिधाय प्रतिषेधं प्राकाशयन् । विविधेषु रेल् निस्थानेषु बहवः जनाः भागभाजः अभवन्।
 कोयम्पत्तूरु - पोल्लाच्ची मार्गे बस् यानानां धावनस्पर्धा ; चालकानाम् उद्योग: नष्ट: ।।
              कोयम्पत्तूरु >कोयम्पत्तूरु - पोल्लाच्ची राजमार्गेण धावनस्पर्धीं क्रियमाणयो: बस् यानयो:  चलनचित्रदृश्यम् सामाजिकमाध्यमेषु  स्फुलिङ्गम्  अभवत् । यानचालनस्य आधारतत्वानि अपि  बोधपूर्वं विस्मृत्य धावनस्पर्धां कुर्वतो: बस्  यानयो: दृश्यं कश्चन द्विचक्रिकाकार: स्वीकृतवान्। तत: दृश्यचित्रमेतत्  समाजनाध्यमेषु आगतेषु द्वयो: बस् चालकयो: सकाशं तीव्रविमर्शनानि एव आगच्छन्ति। घटना विवादपूर्णा जाता इत्यत: द्वयो: चालकयो: चालनसामर्थ्यपत्रं निश्चलीकृतम्। अपघातपरं चालनं केन्द्रीकृत्य द्वौ आरक्षकै:  न्यायालयव्यवहाराय पञ्चीकृतौ। पुनर्निर्माणप्रवृत्तिसूचकेन मार्गेण अतिसाहसिकतया  धावनस्पर्धां कृता यानचालकै: इति दृश्येभ्य: स्पष्टम्। पुरोवर्तिनं यानमुल्लङ्घितुं गतागतनियमान् सर्वानपि लङ्घयन्ति चालका: , परं यात्रिकाणां प्राणापायविषये ते लेशमात्रोपि न बोधवन्त: इत्यपि दृश्यानि स्पष्टीकुर्वन्ति । बस् यानानां  धावनस्पर्धां  दृष्ट्वा  प्रतिदिशि आगच्छन्ति वाहनानि अतिश्रमकरं चालनं कृत्वैव अपघातात् रक्षां प्राप्नुवन्ति। उभयदिशि यानेषु अतिवेगं गच्छत्सु  तन्मध्ये प्राणं गृहीत्वा एव अन्ये चालका: यानानि चालितवन्त: इत्यपि व्यक्तमेव । यानयात्रिकाणां कार्यमपि व्यत्यस्तं नास्ति ।
अद्भुतं संसृज्य गोत्रछात्राः।
भोप्पालः>जाम्बुवादेशस्थाः पञ्चपञ्चाशत् गोत्रवर्गछात्रैः  अद्भुतं कार्यं कृतम्। अस्य संवत्सरस्य ऐ ऐ टी- जे इ इ प्रधान परीक्षायाम् उ न्नbतविजयं प्राप्य ते अभियान्त्रिक बिरुदाय प्रवेशनं प्रापुः।
जाम्बुवादेशे अधारसौविध्यानाम् अभावः,निरक्षरता च वर्तेते। एतादृशानि असौविध्यानि अतिजीव्य एव ते एतत् विजयं स्वीचक्रुः। लघु ग्रामीणाः एते छात्रः बहु दूरं पद्भ्यां गत्वा एव पठन्ति स्म।
जाम्बुवा जिल्ला पञ्चायत् कार्यकर्ता अनुराग् चौधर्या  छात्राणाम् अध्ययनाय सौविध्यं निर्मितम्। सर्वकार विद्यालयानां प्रगल्भान् अध्यापकानुपयुज्य विशिष्ट परिशीलनं कृतम्।गतसंवत्सरे त्रिंशत् छात्राः योग्यतां प्रापुः । आगामिनि संवत्सरे पञ्चशतं छात्राणाम् अस्ति लक्ष्यमिति अनुराग् चौधरी अवदत्।

Monday, May 1, 2017

श्रीशङ्करजन्मदिनाघोषोत्सवे कालटी ग्रामः।
कालटी >अद्वैतवेदान्तप्रतिष्ठापकस्य श्रीशङ्कराचार्यस्य जन्मग्रामः कालटी जन्मदिनाघोषलहर्यां निमग्ना वर्तते। आदिशङ्करजन्मभूमिक्षेत्रं वर्तमाने श्रृङ्गेरी शारदादेवीमन्दिरे , कुलदेवतास्थाने श्रीकृष्णस्वामिमन्दिरे ,  श्रीशङ्कराचार्य संस्कृतविश्वविद्यालये,श्रीरामकृष्णाश्रमे , श्रीशङ्करकलालये च विविधाः सांस्कृतिक - आध्यात्मिक - कलाकार्यक्रमाः प्रचलन्तः वर्तन्ते।
   श्रीशङ्करस्य कुलदेवतास्थाने श्रीकृष्णमन्दिरे ३२ वैदिकश्रेष्ठानां नेतृत्वे १०,००८वारं दिनद्वयेन कृतः  कनकधारास्तोत्रजपः सम्पूर्णः। जन्मदिने रविवासरे सुकृतहोमः मातृवन्दनं च प्रचलितम्। आदिशङ्करजन्मभूमिस्थाने दिनत्रयात्मकं वाक्यार्थसदः प्रचलदस्ति। आदिशङ्करजन्मदेशविकसनसमित्याः नेतृत्वे सञ्चाल्यमानः महापरिक्रमः राष्ट्ररक्षासहमन्त्रिणा सुभाष् रावु भांरेवर्येण उद्घाटनं कृतम्। काञ्चि शङ्कराचार्यः जयेन्द्रसरस्वतिस्वामिनः अनुग्रहभाषणं कृतवन्तः।

काश्मीरस्य भारतविरुद्ध-समराय पुनरपि साह्यः भविष्यति इति पाक् सैन्यस्य अध्यक्षः।
इस्लामाबाद्> काश्मीराय स्वयं शासनाधिकारप्राप्तये पाकिस्थान पक्षतः पुनरपि साह्यं भविष्यति इति पाकिस्थानीय सैनिकाध्यक्षः जनरल् खमर् जावेद् बाद् व अवदत्।
तत्रत्यानां जनानां अधिकारेषु तथा नियन्त्रणरेखायाः समीपवर्तिनः जनानां अधिकारोपरि च भारतः हस्तक्षेपं कुर्वति इति च जावेदेन उक्तम्I सैन्यस्य अध्यक्षपदवीं स्वीकृत्य नियन्त्रणरेखायाः समीपे सन्दर्शनं कृत्वा माध्यम -प्रवर्तकानां पुरतः भाषमाणः आसीत् सः।
भारतं भीकरवादान् पोषयतिI मनुष्यधिकारः लङ्घयति इत्यादि आरोपणानि निरस्यते । स्वयं निर्णयाधिकारः जीवनाधिकारः च सर्वोषाम् अस्ति इति तेन उक्तम्।


नवभारतम् अतीवप्रधानव्यक्तीनां न ; तत्र सर्वे प्रधाना:- प्रधानमन्त्री मोदी।
      नवदिल्ली> अतीवप्रधानव्यक्तिसंस्कारं  (वी ऐ पी)  परिसमापयितुं  सर्वकाराणां पक्षत:  सजीवसज्जतासु चाल्यमानासु ; वी ऐ पी इति पदस्य  स्थाने समानं नूतनं च पदमाविष्कृत्य प्रधानमन्त्री नरेन्द्रमोदी ।केवलं केचन जना: अतीवप्रधानव्यक्तित्वेन परिगण्यमाने सति ; 'वी ऐ पी ' इति आशयस्य स्थाने  '' ई पी ऐ ''{ every person is important } इति आशयं प्रधानमन्त्री नरेन्द्रमोदी पुरस्कृतवान् । ई पी ऐ  इति आशयानुसारं सर्वेपि व्यक्तय: प्रधाना: । प्रतिमासाकाशवाणीप्रभाषणकार्यक्रमस्य 'मन् की बात्'  इत्यस्य नूतनसम्पुटे  एव समभावनाया: नवसन्देशेन सह  प्रधानमन्त्रिण: रङ्गप्रवेश: । जायमानस्य नवभारतस्य चिह्नेषु सर्वत्र  '' ई पी ऐ '' भविष्यति इति च तेन सूचितम् ।     'अङ्कीयभारतम् ' '( डिजिटल् इन्डिया )  इत्याशयेन समं  मोदिना एव प्रचार्यमाण: प्रयोग: भवति ' नवभारतम् '। प्रधानव्यक्तीनां वाहनेषु नील रक्त बीकण दीपानाम् उपयोगं निरुध्य वी ऐ पी संस्कारं प्रतिरोद्धुं  केन्द्रसर्वकारै: क्रियमाणकार्यक्रमाणां पश्चात्तले  एव  एतस्य समानपदत्वेन  ई पी ऐ  प्रयोगमुन्नीय मोदिन: परिष्कार: । राष्ट्रे  स्थित: वी ऐ पी संस्कार: भारतस्य शाप: एव । बीकणरक्तदीपा:  केवलं  वाहनेषु स्थापयन्ति चेदपि  जनानां शिरसि अपि चिह्नमेतत्  मुद्रितं तिष्ठति इति अनुभवात् बोध्यमित्यपि स: उक्तवान् ।वी ऐ पी संस्कारस्य आरम्भ: एव अनेन अभवत् । वाहनेभ्य: यथा रक्त- बीकणदीपा: निष्कासिता:  तथा जनानां शिरोभ्यश्च वी ऐ पी संस्कारस्य रक्तदीपा: निवारणीया: । वी ऐ पी स्थाने सर्वेषां तुल्यतादायकस्य ई पी ऐ इति पदस्यैव नवभारते स्थानम् । राष्ट्रस्य १२५ ( पञ्चविंशत्यधिकशतम् ) पौराश्च समप्रधाना: । सर्वे वयं समभावनया यदा वर्ताम: ; स्वप्नसफलताकाल:  नातिविदूरे  इत्यपि तेन सूचितम् । अन्तरिक्षव्यतियानम् आशङ्काजनकं ; प्रकृते: परिवर्तनानि ज्ञात्वा जीवितव्यम् इत्यपि प्रधानमन्त्री प्रभाषणेन व्यक्तीकृतवान् ।युवजनै: "भोजनदुर्व्यय: मास्तु " इति सन्देश: स्वीकृत: इत्यत्र सन्तोष: अस्ति । ग्रीष्मविरामकाले  बाला:गृहात् बहि: स्थानानि पश्येयु:  नूतनकार्याणि पठेयु: इत्यपि प्रधानमन्त्री  अभिप्रैतवान्