पञ्चपञ्चाशत् कि. मी दीर्घा समुद्रसेतु: चैनायाम् अद्भुतं विकिरति; मध्ये कृत्रिमद्वीपा: तुरङ्कानि च।
बेय्जिङ्> अद्भुतनिर्मितिरिति विशेषार्ह: लोकेपि अतिदीर्घतम: समुद्रसेतु: अस्मिन् वर्षे अन्तिमे गतागताय उद्घाटयिष्यति। Y आकृतौ निर्मीयमानसेतु: होङ्कोङ्ङस्य लन्तावु द्वीपादारभ्य मक्कावु पर्यन्तं तथा सुहायिपर्यन्तं च द्विधा विभज्य मार्गं पूर्तीकृत्य निर्मित: भवति । चैनया एव ५५ (पञ्चपञ्चाशत्) कि.मी दीर्घ: सेतु: निर्मित: ।आधुनिकलोके सप्त महाद्भुतेषु एक:इत्येव गार्डियन् दिनपत्रिकया सेतुनिर्मिति: परामृष्टा। झंझावातं समुद्रवीचीन् वा प्रतिरुध्य स्थातुं क्षम: एव तन्त्रज्ञानशाखाया: अद्भुतमित्यपि चैना प्रस्तौति। पञ्चपञ्चाशत् (५५) कि मी सेतो: अध: द्वौ कृत्रिमद्वीपौ निर्मितौ। एतौ द्वीपौ परस्परं बन्धित्वा समुद्रस्याध: द्वे तुरङ्के एतस्य भागत्वेन तिष्ठत:। महानौकानां गमनसौकर्याय एष: तुरङ्ग:अत्र अन्तर्भावित:। समुद्रस्याध: षट् दशांशम् सप्त( ६.७) कि मी तुरङ्कस्य तथा सेतो: द्वाविंशति दशांशम् नव (२२.९) भागस्य केवलं निर्माणाय चतुर्लक्षं टण् स्टील् एव निर्मिवन्त:।OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Thursday, April 27, 2017
राष्ट्रविरुद्धसन्देशाः जन्मू काश्मीरे सामूहिक माध्यमानां निरोधः।
नव दिल्ली> संघर्षावस्थायाः अनुबन्धतया जन्मूकाश्मीरे सामूहिक माध्यमानां निरोधः । फेस बुक् , वाट्स् आप्, ट्विट्र्, स्कैप् प्रभृतीनां अन्तर्जाल सुविधाम् उपयुज्य राष्ट्रविरुद्धतया सन्देशानि प्रसारयन्ति इति निरीक्ष्य एव निरोधः। एप्रिल्मासस्य नवदश ( १९) दिनाङ्कात् आरभ्य निरोधः प्रबलः अभवत् । अन्तर्जाल-सेवनदादृणां कृते एनमधिकृत्य निर्देशः दत्तः I विद्यार्थिनः त्रिशताधिकं वाट्स् आप् सङ्घाः राष्ट्रविरुद्ध सन्देशस्य प्रचरणस्य कारणेन निरुद्धाः। समूहमाध्यमेषु प्रचलिताः चलनमुद्रखण्डानि सङ्घर्षकारणानि भविष्यन्ति इति निरीक्ष्यते ।
सौदिराजस्य पुत्रः खालिद् बिन् सल्मान् राजकुमारः अमेरिकायां स्थानपतित्वेन नियुक्तः।
रियाद्>सौदिभरणाधिकारिणः सल्मान्-राजस्य पुत्रः खालिद् बिन् सल्मान् राजकुमारः अमेरिकायां स्थानपतित्वेन नियुक्तः। मन्त्रिसभायां विविधप्रविश्यासु च समग्रतया शासनस्तरे पुन: क्रमीकरणमपि अनेन सह अकरोत्। अब्दुल्ल बिन् फैसल् बिन् तुर्किराजकुमारस्य स्थाने एव एषः नियुक्तः। सौदिव्योमसेनायां वैमानिक: खालिद् राजकुमार: ऐ एस् विरुद्धसख्यसेनायाः दौत्येषु भागं गृहीतवानासीत्। डाणाल्ड् ट्रंपस्य अधिकार प्राप्त्यनन्तरम् अमेरिका-सौदि राष्ट्रयोः संबन्धः शक्तः अभवत् इति अनया नियुक्त्या निर्णीयते। सिरियायाः, इरान्स्य विषयेषु ट्रंपस्य सौदिराष्ट्रं प्रति आनुकूल्यमेव राष्ट्रद्वयोः संबन्धस्य दृढीकरणकारणम्।विविधमन्त्रिणः राज्यपालान् उपराज्यपालांश्च आपकृत्य तत्स्थाने अन्ये नियुक्ताः। खालिद् अल् अराज्, आदिल् अल् तुरैफ् मुहम्मद् सुवैलि इत्येषां मन्त्रिणां पदवीः क्रमशः नगराचारविभागस्य सांस्कारिकवार्तावितरणविभागस्य टेलिकों विभागस्य च भ्रष्टाचारारोपैः नष्टाः। आरोपा न्वेषणार्थं मन्त्रालयसमितिरपि रूपीकृता।
तैलमूल्यह्रासत्वात् नयनिश्चयप्रधानभूते ऊर्जविभागे अब्दुल् असीस् बिन् सल्मान् राजकुमारः नूतनमन्त्रित्वेन नियुक्तः। हायिल्-अल्बाहा- उत्तरसीमा प्रविश्यानां राज्यपालानामेव एतत् स्थानान्तरीकरणम्। राष्ट्रे नूतनदेशीयसुरक्षाकेन्द्रस्य प्रारम्भाय अपि आज्ञा अस्ति। देशीयसुरक्षा- उपदेष्टारम् अविहाय बहवः अन्ये कर्मकराः अपि स्थानान्तरीकृताः। व्ययनियन्त्रणपद्धत्या गतवर्षे न्यूनीकृतानाम् नगराचारसेवकानां सैनिककर्मचारिणां च विविधानुमतवेतनानि च पुनरङ्गीकृतानि॥
Wednesday, April 26, 2017
मोहनभागवतवर्यं ॠत्वा अन्य: कोsपि राष्ट्रपतिपदं न अर्हति - शिवसेना
मुम्बै>भारतस्य राष्ट्रपतिपदं प्राप्तुम् रास्वसंघप्रमुख: मोहनभागवतवर्यं ॠत्वा अन्य: कोsपि योग्य: नास्ति, इति शिवसेनापक्षत: पुनरुच्चारं कृतम्। मुंबईनगरे पत्रकारानाम् सह शिवसेनादलस्य कार्याध्यक्ष: उद्धवठाकरेवर्य: वार्तालापं कृतवान्। प्रसंगेsस्मिन् स: अकथयत् यत् यदि रास्वसंघप्रमुख: वाञ्छति चेत् किमपि भवितुम् शक्यते।"अधुना रास्वसंघप्रमुखं ॠत्वा अन्यम् कमपि वयं न पश्याम: य: राष्ट्रपतिपदं अधिगन्तुमर्हति," इति स: अकथयत्।
नैका: नेतार: रास्वसंघेन राज्यपालरूपेण नियुक्ता:। तत: भागवतवर्यस्य राष्ट्रपतिपदग्रहणार्थं का बाधा वर्तते, इति प्रश्नमपि स: अपृच्छत्।
शरदपवार: अपि राष्ट्रपतिपदस्य अभ्यर्थी अस्ति इति पृष्ट्वा स: उत्तरं अददात् यत् क: किं इच्छति एतद्विषये अहं किमपि वक्तुम् न इच्छामि। अस्मिन् विषये अस्माकं का अपि चर्चा न अभवत्।
युद्धं कदापि -अमरीकाया: अन्तर्वाहिनी अपि कोरियातीरं प्राप्ता ।
वाषिङ्टण् > उत्तरकोरिया युद्धभीत्याम् अमरीकीया अन्तर्वाहिनी अपि कोरियातीरं प्राप्ता । आणवमिसैल्शस्त्रपरीक्षणात् कदापि पृष्ठत: इति उत्तरकोरियाया: भीषण्यां स्थितायां एव युद्धसन्नाहेन अमरीका स्वान्तर्वाहिनीं यु एस् एस् मिषिगं दक्षिणकोरियां प्रैषयत् । अमरीकाया: विमानवाहिनी महानौका यु एस् एस् काल् विन्सण् एतदभ्यन्तरे एव कोरियातीरं प्राप्ता । कोरियाग्रे युद्धाय सन्नद्धे अत्र प्राप्नुवन्तीं अमरीकाया: विमानवाहिनी यु एस एस् काल्विन्सणम् निमज्जयेत् इति उत्तरकोरियाया, भीषणि:स्थिता । तत्पश्चात् एतेन सहवर्त्य यु एस् अस् मिषिगण् अपि दक्षिणकोरियां प्राप्ता ।।
संस्कृतं आर्षभारतस्य आत्मा भवति - पि. पि. श्रीधरनुणिः
कोष़िक्कोट्> आत्मा नास्ति चेत् जडः भवति । अतः भारतस्य आत्मनः संकृतस्य संरक्षणं अद्य अस्माकं कर्तव्यमेव । इयंभाषा भाषाणांमाता , श्रेष्ठा च भवति । अतः अस्माकं संस्कारस्य पुनरानयनायनं संस्कृतेन कर्तुं शक्यते । तदर्थं विश्वसंस्कृतप्रतिष्ठानेन कृतानि कार्याणि अभिनन्दार्हाणि । " इति कविना पि. पि. श्रीधरनुणि महाशयेन उक्तम्। विश्वसंस्कृतप्रतिष्ठानस्य कोष़िक्कोट् जनपदसम्मेलनस्य प्रतिनिधिसभायाः उद्घाटनं कृत्वा महोदयः भाषमाणः आसीत् सः।
वनवीथ्यां कलभस्यकृते दोषमकरोत् - २०,००० दन्डनशुल्कं ।
कोयम्बत्तुर् >वनवीथीसमीपे स्थितस्य कलभस्य कृते द्रोहम कुर्वन्तः विनोदयात्रिकेभ्यः १०,००० दण्डन शुल्कं वनपालकाः दत्तवन्तः ।तमिल्नाट् राज्यस्य मुतलमला व्याघ्रोद्यानस्थिते अभयारण्ये एव कार्यमिदं जातं ।
वन्यमृगाणां कृते द्रोहः कृतः इति कारणेन दण्डनः प्राप्तः ।
महाराष्ट्रीयाः सावन्तः , अभिजित्त: , रोहित् च दण्डनं प्राप्तवन्तः I
वीथीसमीपस्थितस्य कलभस्य समीपं यानं संस्थाप्य हसतेन कलभं लालनं युवकाः कृतवन्तः । एतत् पृष्टतः आगतवन्तः यात्रिकाः चित्रीकृत्य वनपालकेभ्य: दत्तवन्तः I एवमेव दण्डनं लब्धम् ।
Tuesday, April 25, 2017
IIT मध्ये वास्तुशास्त्रमपि पाठयति।
खरग् पुरम् > भारतराष्ट्रस्य प्रप्रथम विज्ञान विनिमय विद्यालये भारतेषु प्रप्रथमतया भारतीय वास्तुशास्त्रमपि पाठ्यप्रणाल्याम् अन्तर्भवति। हर्म्यनिर्माणकला-विभागे एव शास्त्रमिदम् अध्येतुं सर्दर्भः इति संस्थायाः अध्यक्षेण उक्तम्।प्रथम द्वितीयवर्षयोः बिरुदाध्ययनस्य आमुखत्वेन अध्यापयितुं निश्चितम् इति अध्यापककुलाङ्गेन जोय् सेन् वर्येण च उक्तम्। आगामिनी आगस्ट्मासे पाठनम् आरभ्यते । बिरुदानन्तर कक्ष्यायां सविस्तरं पाठयिष्यति इति च तेन उक्तम्। पाश्चात्यानां वास्तुशास्त्रेण सह भारतीयानां रीतिः अपि पाठयति इत्येनन शिक्षाप्रणाल्याः श्रेष्ठत्वं वर्धते इति वास्तुशास्त्र विदग्धाः अभिप्रयन्तिI
आर्थिकसंवत्सरं दिनदर्शिका संवत्सरं च संयोजनीयौ- प्रधानमन्त्री।
नवदेहली>आर्थिकसंवत्सरं दिनदर्शिका संवत्सरं च संयोजनीयेषु प्रवृत्तिषु राज्याणां सहवर्त्तित्वं प्रधानमन्त्रिणा निवेदितम्। आगोल विकसनेन साकं भारतं सज्जं कारयितुं स्वेन सह स्थातुं नीति आयोगस्य तृतीये शासनसमितियोगे सः मुख्यसचिवान् आह्वानं कृतवान्।२०१४ अनन्तरं राज्याणां विहितं चत्वारिशत् प्रतिशतं अवर्धत। विकासाय केन्द्र सर्वकारः तथा राज्यसर्वकाराः च मिलित्वा रूपीकृतः गणः भवति नीतिआयोगः।
आर्थिकसंवत्सरस्य परिष्कारस्य भागत्वेन अस्मिन् संवत्सरे केन्द्र बट्जट्ट् एकमासात्पूर्वं प्रस्तुतमासीत्। आगामि संवत्सरादारभ्य आर्थिकसंवत्सरस्य तथा दिनदर्शिका संवत्सरस्य च संयोजनस्य सूचना अस्ति एतत्।
२५ वर्षेभ्य: एष: मनुष्य: केवलं शाखाखण्डान् पर्णानि च भक्षयति; रोगरहितोयम् ।।
लाहोर् > मितभोजनमलब्ध्वा दुर्भिक्षेण जना: क्लिश्यन्ति इति वार्ता: वयं प्रतिदिनं शृणुम: । किन्तु पाकिस्थाने वर्षेभ्य: प्रतिदिनं शाखाखण्डान् पर्णानि च खादित्वा जीवन् कश्चन वर्तते । पाक् पञ्चाब् प्रविश्यायां गुज्रण्वाला मण्डलवासी महमूद: एव गत२५ वर्षेभ्य: एवं असाधारणभोजनेन जीवति । एतावता कालेन एतस्य रोगा: नागता: इति माध्यमानि ज्ञापयन्ति । २५ त्यां वयसि स: एतादृशभोजनरीतिम् आरब्धवान् । स्वगृहे अतिदारिद्र्येण भोजनप्राप्तिरपि कष्टकराभवत् इति महमूद: वदति । मार्गपार्श्वे उपविश्य याचनात्परम् उत्तमं कार्यं शाखाखण्डानां पर्णानाम् अशनमिति स्वयं चिन्तितवान् इति च स: वदति। इदानीम् एतेषां खादनं महमूदस्य शील: अभवत्। गर्दभयानम् तस्य एकमात्रोपजीवनमार्ग:।प्रतिदिनं ६० पाकिस्थानि रूप्यकाणि तस्य आय:। वट: तालि सक् चेयिन् आदिवृक्षाणां पल्लवशाखा: तस्य इष्टविभव:। विचित्रेण भक्षणशीलेन जना: महमूदम् अद्भुतेन पश्यन्ति। गमनमार्गे कुत्रापि इष्टवृक्षा: सस्यानि वा दृष्टानि चेत् विलम्बं विना तत: भोजनमन्वेष्टुम् एष: आलस्यं न प्रकटयति।
Subscribe to:
Posts (Atom)