OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, April 21, 2017

V I P संस्कृतेः अन्त्यः, अतिप्रमुखपुरूषाणां वाहनेषु रक्तवर्णदीपाय निरोधः।
नवदिल्ली>भारते अतिप्रमुखपुरुषाणां (VIPs) वाहनेषु अधिकारस्य चिह्नत्वेन प्रयुज्यमानान् रक्तवर्णदीपान् [Beacon Light] मेय् प्रथमदिनाङ्कादारभ्य अपाकर्तुं  केन्द्रमन्त्रिमण्डलेन निर्णीतम्।
     राष्ट्रपतिः प्रधानमन्त्री इत्यादीनाम् अतिप्रमुखव्यक्तीनां वाहनेष्वपि उपरिदीपाः न प्रयोक्ष्यन्ते। किन्तु रुग्णयानम् , आरक्षकयानम् अग्निशमनवाहनम् इत्यादिषु अवश्यसेवनयानेषु उपरिदीपान् उपयोक्तुं शक्यन्ते।
    "एकैकः भारतीयः सविशेषः, तथा एकैकः भारतीयः अतिप्रमुखपुरुषः च भवति" - प्रधानमन्त्रिणा नरेन्द्रमोदिना ट्विटर् मध्ये लिखितं च।

 व्याजधनम्-  पाक्किस्थान प्रधानमन्त्रिणं नवास षेरीफं प्रति अन्वेषणाय विज्ञापनम्।
इस्लामाबाद्>पनामा गेट्ट् विवादे पाक्किस्थान प्रधानमन्त्रिणं नवासषेकीफं तथा परिवारं प्रति अन्वेषणाय पाक्किस्थान उन्नतन्यायालयस्य विज्ञापनम्। षष्ठि दिनेष्वन्तरे प्रतिवेदनं समर्पणीयमित्यपि न्यायालयेन विज्ञापितम्। षेरीफ् पुत्रौ हसन्, हुसैन् च साक्षात् आगन्तव्याः सन्ति।
१९९० संवत्सरे प्रधानमन्त्रितया शासनकाले व्याजरुप्यकमुपयुज्य लण्डन् देशे गृहाणि तथा भूक्रयणम् अकरोत् इत्यस्ति आरोपणम्। षेरीफ् कुटुम्बस्य ब्रिट्टन् राष्ट्रे वर्तमानानाम् आर्थिकस्थितीनां विवरणं पनामा दुर्व्यय रेखासु वर्तते।
रषिया राष्ट्रपतिः व्लाटिमिर् पुटिन्,चैना राष्ट्रपतिः षी चिन्पिङ्,पाक्किस्थान प्रधानमन्त्री नवास षेरीफ् ,अन्ये द्वादश राष्ट्राधिकारिणः,सप्तत्यधिक राष्ट्राणां १२८ उन्नत राजनैतिक नेतारः,विश्वस्य शतशः कोटिपत्यः च पनामा आस्थानवत्या संस्थया अनधिकृतं धनव्ययम् अकुर्वन् इति सूचनाः बहिरागच्छन्ति।
मातृराष्ट्रस्य करनियमान् उल्लंघ्य अनधिकृत धननिक्षेपकेषु पञ्चशताधिकाः भारतीयाः अपि सन्ति। तेषु चलनचित्र अभिनेता अमिताभ बच्चः,अभिनेत्री ऐष्वर्या रायः,डी एल् एफ् संस्थायाः अधिपः के पी सिङः,विनोद अडानी,दिवंगतः इक्बाल् मिर्ची इत्यादयाः सन्ति। रेखासु पादकन्दुक क्रीडाकारः लयणल् मेस्सी,पूर्व क्रीडाकारः मिषेल् प्लाट्टिनि, नटः जाक्कि तान् इत्यादयः अपि व्याजधननिक्षेपकाणां सूच्यां सन्ति।


श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठे संस्कृतपत्रकारिताविषयिणी कार्यशाला
नवदिल्ली >गतदिने नवदिल्लीस्थे श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठे संस्कृतपत्रकारितासम्बद्धा कार्याशाला समायोजिता |विद्यापीठस्य कुलपतेः प्रो.रमेशचन्द्रपाण्डेयवर्यस्य आध्यक्षे भारतीयजनसंचारसंस्थानस्य निदेशकः  के.जी.सुरेशः मुख्यातिथिरूपेण आकाशवाण्याः सहायकनिदेशिकां डॉ ललिताचतुर्वेदिवर्या विशिष्टातिथिरूपेण आकाशवाण्याः संस्कृतएकांशस्य पूर्वप्रभारी डॉ. बलदेवानन्दसागरः Times Of India इति वार्ताः पत्रस्य प्राक्तन क्षेत्रीयसम्पादकः राजेन्द्रभारद्वाजश्च समुपातिष्ठन्त।
 
   संस्कृतपत्रकारितायाः कृते IIMC इति भारतीयजनसंचारसंस्थानेन विद्यापीठेन साकं सम्मिल्य संयुक्तपाठ्यक्रमसंचालनविषयेSपि मन्त्रणा सञ्जाता | कार्यशालायाः औद्घाटनिकसत्रे मुख्यातिथिना संस्कृतपत्रकारितायां न्यूजलैटर-कम्यूनिटिरेडियो चेति विषयद्वये व्याख्यानं प्रदत्तम् | आकाशवाण्याः सहायकनिदेशिकावर्यया रेडियोफीचरलेखनम् इति विषये स्वीयानुभवः विज्ञापितः | द्वितीयसत्रे डॉ. बलदेवानन्दसागरेण पत्रकारितायां प्रतिवेदनस्वरूपं विशदं वर्णितम् |
अधिकद्वितीयकक्ष्याच्छात्रेण(+2) चालितं कारयानम् अटनमार्गम् अतिक्रम्य;  द्वयोर्मरणम्।।
नवदिल्ली >  द्वादशकक्ष्यावार्षिकपरीक्षायां समाप्तायाम् तस्य आघोषाय प्रस्थितै: छात्रै: सञ्चालितं कारयानम् अटनमार्गे सुप्तानामुपरि प्रविश्य द्वौ मृतवन्तौ । त्रयाणाम् अवस्था अतीव गुरुतरा वर्तते । उत्तरदिल्ल्यां कश्मीरकवाटसमीपे प्रात: ५.४५ वादने इयं घटना । अमितवेगेन आगतं कार् यानं नियन्त्रणमतिक्रम्य  अटनमार्गं प्रति अपक्रान्तम् । दिल्ल्या: प्रमुखविद्यालयस्थछात्रा: चत्वारः(४) एव कारयाने आसन् तै: एव यानं चालितं च। घटनासम्बद्धौ द्वौ छात्रौ आरक्षका: गृहीतवन्त:। द्वावपि यानचालनाय अप्राप्तवयस्कौ। द्वौ तत: पलायितवन्तौ च। छात्रा: मद्यपिता: वेति निरीक्षणाय वैद्यसाहाय्यं स्वीकरिष्यन्ति।

Thursday, April 20, 2017

ग्रीन्लाण्ड् द्वीपे बृहत् छिद्रम्। वैज्ञानिकानां पूर्वसूचना।
नासा>विश्वस्य बृहत्तमस्य द्वीपस्य ग्रीन्लाण्डस्य हिमावरणेषु दीर्घं छिद्रम् दृष्टम्। द्वीपस्य प्रधाने भागे पीट्टरमेन् हिमान्यां सञ्जातस्य छिद्रस्य चित्राणि नासा बहिः प्रैषयत्। सामान्यतया हिमान्याः पार्श्वेषु छिद्राणि दृश्यन्ते।किन्तु पीट्टरमेन् हिमान्याः मध्यभागे एव छिद्रम् अभवत्। अस्य छिद्रस्य कारणमन्विष्य वैज्ञानिकाः आकुलाः भवन्ति।
 हिमान्याः पूर्वे पार्श्वे पूर्वागतम् एकं छिद्रं शन्नैः मध्यभागं चलदस्ति। एतौ द्वौ छिद्रौ मिलति चेत् तत्कारणेन जायमानः पारिस्थितिकपरिणामः भीकरमेव भविष्यति।
 इदानीं भीत्याः आवश्यकता नास्तीति वैज्ञानिकाः वदन्ति। द्वयोः छिद्रयोः मेलनस्य अवकाशः  अपि इदानीं नास्ति।
१०१० तमे २०१२ तमे च पीट्टरमेन् हिमानीतः बृहत् हिमखण्डानि विच्छिद्य पतितानि आसन्। २०१० आगस्तमासे पतितस्य हिमखण्डस्य मानहट्टन् नगरस्य द्विगुणाकारम् आसीत्। तत् यु एस् कोण्ग्रस् सभायामपि चर्चाविषयं जातम्।
अरुणाचलप्रदेशस्य षट्स्थानानां नामानि चैनया परिवर्तितानि; तर्क:  कलुषित:।।
नवदिल्ली>अरुणाचलप्रदेशस्य षट्स्थानानां नामानि चैनया एकपक्षीयमत्या परिवर्तितानि । टिबटीयस्य आत्मीयाचार्यस्य दलैलामस्य अरुणाचलसन्दर्शनं प्रतिषिद्ध्यैव चैना एवं करोतीति स्पष्टं कारणम् । चीनाभाषानामानि एतेषां स्थानानां दत्तानि ।अरुणाचलप्रदेशोपरि चैनया  अधिकारमतं कालाकालै: उन्नीयते । नवदिनात्मकसन्दर्शनं समाप्य दलैलामस्य प्रतिगमनात्परमेव नामान्तरीकरणम् ।एप्रिल् ४ त: नवदिनात्मकमासीत् तस्य अरुणाचलसन्दर्शनम्   अस्मिन् विषये चैनाया: प्रतिषेधस्वर: अनेन स्फुरति । टिबटेनसहितप्रदेश: भारतेन अनधिकृतरीत्या स्ववशं स्थापित: इति तेषां न्यायवादश्च। प्रदेशोपरि परमाधिकार: अस्माकमिति भारतं बोधयितुमेव नामान्तरीकरणंमिति चैनाया: औद्योगिकमाध्यमेन विज्ञापितम् ।तर्कभूमौ दलैलामस्य प्रवेशनं निषिद्धमिति चैऩया बहुवारं ज्ञापितं च । दक्षिणटिबट् इति अरुणाचलम् आह्वयति चैना । चैनाया: औद्योगिकभूमानचित्रे इमे प्रदेशा:  दक्षिणटिबटस्य भागरूपेण कल्पिताश्च ।

  गंगासंरक्षणाय नूतन पद्धत्या यु. पि. -मुख्यमन्त्री योगी आदित्यनाथ:
लख्नो >आङ्गलशासनकालादारभ्य गंगानद्यां राशिरूपेण एकत्रीभूतानि विषमालिन्यानि अपसारणीया नि इति समस्याम् एव सः स्वीकरोति। गंगा तीरे प्रवर्तमानानि चर्मयन्त्रागाराणि  विषमालिन्यानि अपसारणीयानि इति आह्वानम् एव सः स्वीकरोति। गंगातीरे प्रवर्तमानानि चर्मयन्त्रागाराणि विना विलंबम् अन्यत्र स्थापनाय प्रर्वतनानां प्रारम्भः अभवत्। यन्त्रागारेभ्यः उचितस्थलानि द्रष्टुम् हरितट्रिब्यूणल् संस्थां विनियोजयति स्म च। किन्तु अखिलेष्सर्वकारः अस्याः पद्धतेः विरोधम् अकरोत्।
वयनाडे इ -३ विषयसङ्केतस्य उद्घाटनम् एप्रिल् ३० दिनाङ्के ।।  
दक्षिणभारतस्य अतिबृहत्परिस्थितिसौहृदविषयसङ्केत: वयनाडे प्रवर्तनक्षमं जायमानमस्ति । मानन्तवाटीत: २० कि मी दूरे तोण्डर्नाड् ग्रामे नीलोम् स्थानके एव एप्रिल् ३० तमे इ _३ तीम् पार्क् नाम्नि परिस्थितिसौहृदविषयसङ्केत: प्रवर्तनक्षम: जायमान: वर्तते । परिस्थिति:, विज्ञानं, विनोद:-विषयत्रयमुपजीव्य पश्चिमघट्टहरितनेतृत्वसंस्थया  एव सङ्केत: आविष्कृत: । वर्षचतुष्टयेन प्राथमिकघट्टनिर्माणं पूर्तीकृतमिति प्रधानप्रबन्धकेन डो के टी अषरफ् महोदयेनोक्तम्। सामान्या: ३०० प्रवासिन:  सम्पदंशं विन्यस्य वयनाड्कार्षिकप्रतिसन्धे: पश्चात्तले संरम्भोयमारब्ध: । प्रथमघट्टे ७५ कोटि रूप्यकाणां पद्धति: ५५ कोटि रूप्यकै; पूर्तीकृतमिति तन्त्रज्ञाने प्रबन्धकक्षेत्रे वाणिज्यरङ्गे च नूतना मातृका एषा पद्धतिरिति सी ई ओ  तथा हैदराबाद रामोजी फिल्म सिटी पूर्वसह निर्देशकेन के वेङ्कटरत्नेन स्पष्टीकृतम् ।। 
एच् वन् एन् वन् ज्वरस्य प्रतिरोधौषधम्। मण्डूकस्य चर्मोपरितलात् औषधः निर्मितः।
कोच्चि>एच् वन् एन् वन् ज्वरस्य मण्डूकस्य चर्मोपरिनतलात् औषधः निर्मितः। पश्चिमघट्ट गिरिक्षेत्राणां समतलभूमौ दृष्टेभ्यः हैट्रोफिलाक्स् बाहुविस्तारा इति विज्ञाननाम्ना विख्यातेभ्यः मण्डूकेभ्यः औषधनिर्माणं क्रियते। एच् वन् एन् वन् ज्वरस्स रोगाणून् संहर्तुं शक्ताः कोशाः बाहुविस्तारायाः चर्मोपरि उत्पादितेषु स्रवेषु सन्ति। तिरुवनन्तपुरम् राजीवगान्धी सेण्टर फोर बयोटटेक्नोलजी विज्ञानगणैः सह अमेरिकायाः एमरि वाक्सिन् केन्द्रेस्य वरिष्ठव्याख्या जोषी जेक्कब् च मिलित्वा गवेषणं कृत्वा तस्य फलम् अद्य प्रकाश्यमानायां प्रसिद्ध विज्ञानमासिक्याम् इम्यूणिट्याम प्रकाशयिष्यति।

Wednesday, April 19, 2017

भारतीया: बहु इच्छन्तः प्रवेशानुमतिपत्रम् ओस्ट्रेलिय देशेन अवरुद्धम्
मेल्बण्> ओस्ट्रेलियां गन्तुं भारतीयानां कृते बहुसाहायकं प्रवेशानुमतिपत्रं ओस्ट्रेलिया देशेन अवरुद्धम् । अल्पकालीनकर्माणां कृते विदेशिजनेभ्यः दीयमानः 457 प्रवेशानुमतिपत्राणि ओस्ट्रेलिया देश: अवरुद्धाणि | राष्ट्रस्य जनानां मतं स्वीकृत्य  एव एतत् कृतं इति ओस्ट्रेलियादेशस्य प्रथानमन्त्रिणा माल्कं टाण्बुल् महोदयेन उक्तम्। 95,000 विदेशिजना : अवरुद्धान् प्रवेशानुमतिपत्रान् उपयुज्य इदानीं कर्मं कुर्वन्ति । तेषु अधिकाः भारतीया: एवI
Episode 42 -Saraswati Vidyaniketan HS, Chengamanad, Ernakulam Kerala.
तुर्क्यां  हितनिरीक्षणं राष्ट्रपतेरनुकूलम्      
अङ्कारा> तुर्क्या:  भाविनिर्णीयमानं हितनिरीक्षणं  राष्ट्रपते:  तय्यिब् एरदोगस्य अनुकूलम् ।राष्ट्रपते: अधिकारपरिधिवर्धयति  हितनिरीक्षणे ९८.२% निर्वाचनगणनायां पूर्तीकृतायां ५१.३% अनुकूलनिर्वाचनं लक्षितम् । राष्ट्रस्य १६८१४० निर्वाचनस्थानेषु ५.५ कोटि: जना: हितनिरीक्षणाय स्वाभिप्रायं निर्वाचनद्वारा  सूचितवन्त: ।नूतनशासनघटनाया: आगमने अनुकूलप्रतिकूलहितनिरीक्षणात्मकप्रश्ना:  केवलम् आसन् निर्वाचनपत्रेषु। औद्योगिकफलम् अप्रख्यापितं चेदपि शासकवृन्दै: विजय: प्रख्यापित:। राष्ट्रं चरित्रपरं निर्णयं स्वीकृतवदिति एर्दोगने अवकाशवादे उन्नीते ,  अयं विजय: शासनमुल्लङ्घितुंये प्रयतितवन्त: तथा शत्रूणां च कृते प्रत्युत्तरमेवेति प्रधानमन्त्री बिनाली यिल्द्रिम् उक्तवान् । निर्वाचने  कृत्रिमत्वमारोप्य प्रधानप्रतिपक्षेण पुनरपि गणना आवश्यकीति  सूचितम् । सुस्थिरं विकसितं च राष्ट्रकरणंवाग्दानम् एरदोगेन जनानां कृते दत्तम् ।हितनिरीक्षणे अनुकूले २०२९ पर्यन्तम् एतेन राष्ट्रपतिपदे  अनुवर्तितुं शक्यते । प्रधानमन्त्री तथा परमोन्नतनीतिपीठस्थ न्यायाधिपा:  एतेषां नियमनं   सभामतिं विना साम्पत्तिकनयरेखावतारणं राष्ट्रे जाग्रतावस्थाप्रख्यापनं प्रतिस्वीकरणं  मन्त्रिमण्डलनिर्णयानाम् उल्लङ्घनं एतेषु राष्ट्रपते:  अधिकार: वर्धते  नूतनशासनघटनाभेदगत्या इति एरदोगस्य मतम् । संयुक्तकक्षिशासनं सुरक्षाप्रतिसन्धय: सैनिकलङ्घनानि च वारयितुं शासनघटना परिवर्त्य लेखनीया इति  एरदोगानुकूलिन:। अधिकाधिकारदानम् एकं केन्द्रीकृत्य इति भीत्या प्रतिकूलिन: च।

राष्ट्रपते: केन्द्रमन्त्रिणां च भाषणानि इत:परं हिन्दी भाषायाम्।
नवदिल्ली> राष्ट्रपते: केन्द्रमन्त्रिणाञ्च भाषणानि इत: परं केवलं हिन्दीभाषायां करणीयानि इति लोकसभाया: समित्या: निर्देश: राष्ट्रपतिना अङ्गीकृत: ।हिन्दीभाषमाणानां पठितुं शक्तानाञ्च एषा निबन्धना ।हिन्दीभाषाया: प्रयोगप्राचुर्याय एव समित्या: निर्देशोयम् । समित्या: इतरनिर्देशानां कृतेपि राष्ट्रपतेरङ्गीकार:  प्राप्त: । हिन्दीभाषितुं लेखितुं च समर्था: सर्वेपि मन्त्रिण: तेषां प्रस्तावना:  भाषणानि च हिन्द्यामेव  इत: परं दातव्या: । एयर् इन्डिया विमानचिटिकायामपि हिन्द्यां कार्याणि सूचनीयानि ।तेषु विमानेषु हिन्दी पत्रिका: मासिकी: च योजनीया: । आङ्गलेयघोषणा: अनुवर्त्य हिन्द्यामपि घोषणा:  इत्यादि कार्याण्येव राष्ट्रपतिना अङ्गीकृतानि । किन्तु पञ्चमी कक्ष्यात: हिन्दीपठनम् अनिवार्यम्, उद्योगस्थानां  निर्बन्धहिन्दीपरिज्ञानम्, हिन्दीप्रचाराय प्रत्येकतस्तिकानिर्माणम्, हिन्दीपरस्यानां कृते अधिकधनविनियोग:  इत्यादिनिर्देशान् नाङ्गीकृतवान् राष्ट्रपति: ।

सर्वाण्यपि भीकरकर्माणि प्रतिरोद्धुं पाक्किस्थानाय अमेरिका।
इस्लामाबादः - भीकरवादस्य सर्वाण्यपि रूपाणि प्रतिरोद्धुं पाक्किस्थानाय अमेरिका अवोचत्। पूर्वनिर्णयं विना ह्यः पाक्किस्थानं सन्दर्शितेन यु एस् देशीय सुरक्षा उपदेशकेन एच् आर् मक्मास्टरेण पाक्किस्थान सेना नेतृत्वेन सह चर्चां क्रियते स्म। पाक्किस्थानसन्दर्शितः ड्रंप् सर्वकारस्य प्रथमः समुन्नत कर्मकरः भवति मक्मास्टरः । काबूल सन्दर्शनानन्तरं सः इस्लामाबादम् आगतवान्।
ड्रंप् सर्वकारेण सह पाक्किस्थान स्य प्रथम उन्नततल आशयविनिमयमिदम्। काश्मीरेण सह सर्वाः समस्याः परिहर्तुं उभयकक्षिचर्चासु दृढविश्वासमस्तीति पाक्किस्थान प्रधानमन्त्रिणा नवास षेरीफेण व्यक्तीकृतम्। तदर्थं राष्ट्रपतेः ट्रंपस्य सन्नद्धतां प्रधानमन्त्रिः स्वागतम् अकरोत्।
 अमेरिका सुरक्षा उपदेशकेन सह पाक्-अफ्गान् विदग्धानां नयतन्त्रज्ञानां संघमपि आसीत्। अफ्घानिस्थानस्य ऐ एस् केन्द्रेषु यु एस् सेनायाः बृहत्तरं  अग्निगोलकाक्रमणानन्तरमस्ति मक्मास्टरस्य अफ्कान् पाक्क् सन्दर्शनम्।

Tuesday, April 18, 2017

केरळे विद्युत्प्रमाणं संवर्धितम्। 
अनन्तपुरी> केरळराज्ये विद्युदुपभोगस्य मूल्यप्रमाणं रगुलेटरि कम्मीषन् संस्थया संवर्धितम्। गार्हिकोपभोगाय वैद्युतेः मूल्यं दश पैसाभ्यः आरभ्य पञ्चाशत् पैसापर्यन्तं एकाङ्कं प्रति  [यूणिट् ] वर्धनं जातम्। उद्योगोपभोगाय त्रिंशत् पैसानां वर्धनमभवत्। किन्तु वाणिज्य-कार्षिकावश्यानां वर्धनं नास्ति। नूतनप्रमाणानि अद्य प्रवृत्तिपथमापद्यते।

संस्कृतविश्वविद्यालये सौरवैद्युतनिलयः उद्घाटितः। 
कालटी>  कालटी श्रीशङ्कराचार्य संस्कृतविश्वविद्यालये सौरवैद्युतनिलयस्य समुद्घाटनं नवदिल्ल्याम् आयोजिते समारोहे केन्द्रमन्त्रिणा प्रकाश् जावेद्कर् वर्येण निर्व्यूढम्। अन्येषां कृते पि आदर्शभूता पद्धतिरिति तेन प्रोक्तम्। केरलस्य शिक्षामन्त्रिणः सि रवीन्द्रनाथस्य सान्निध्ये आसीदुद्घाटनम्। समारोहस्य तत्समयवीडियो सम्प्रेषणं सर्वकलाशालायाः कनकधारा सभागृहे प्रवृत्तम्।
       विश्वविद्यालयस्य शैक्षिकभवनसमुच्चयस्य (Academic Block) उपरि १२३० चतुरश्रमीटर् विस्तृतौ स्थापितात् अस्मात् निलयात् प्रतिदिनं ४००-५०० एककपरिमितं विद्युच्छक्तिम् उत्पादयितुमर्हति। विद्युत्कोशसंभरणप्रणालिं विना (Battery Storage) के एस् ई बि संस्थायाः संभरण वितरणश्रृङ्खलां प्रति (Grid) एव निलयः संयोजितः अस्ति। अनया पद्धत्या प्रतिमासम् एकलक्षरूप्यकाणां लाभः भविष्यति।