OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Friday, February 3, 2017
लोकभाषायाः जननी संस्कृतम् - पुरुषन् कटलुण्डि।
कोष़िक्कोट्> संस्कृतभाषायाः महत्वः ज्ञेयः । तद् अज्ञात्वा वयं अत्र जीवनं कुर्मः । लोकभाषायाः माता संस्कृतमेव। अतः संस्कृत भाषायाः प्रचारः आवश्यकः इति साहित्यकारः तथा केरलविधानसभाङ्गः पुरुषन् कटलुण्डि महोदयः अवदत् । केरल - संस्कृताध्यापक फेडरेषन् संस्थायाः प्रतिनिधिसम्मेलनम् उद्घाट्य भाषमाणः आसीत् सः। अध्यापकः आदरणीयः तथापि संस्कृताध्यापकानां पि एफ् सुविधा न लप्स्यते। पि एफ् लब्ध्यर्थं यत् शक्यते तत् साध्यं कर्तुं प्रत्नं करिष्ये इति तेन उच्यते।
एकाभिनयेन प्रशोभितं मेघायनम्
कोष़िकोट्> कालिदासस्य मेघसन्देशस्य रङ्गभाष्यं मेघायनं कालास्वादकानं हृदयानि आकर्षयन् । केरळ संस्कृताध्यापक फेडरेषन् संस्थायाः एकोनचत्वारिशे वार्षिकसमेलने प्रवृत्ते कला-कार्यक्रमे एव एकाभिनयोयं सम्पन्नः ।कला मण्डलं प्रशोभ् वर्येण एव यक्षस्य विरहदुःखमिदं रङ्गमञ्चे अभिनीतम् । एकपात्राभिनयः इति नामयुक्तः नाट्यरूपः इदानीम् आस्वादकलोके प्रसिद्धः अभवत् । संस्कृत भाषा सरला इति भावना समुद्पादयितुं नाट्यमिदम् उपकृतम् ।
डिजिटल् परिवर्तनस्य ग्रामीणमण्डलस्य च प्राधान्येन भारतस्य आयव्ययपत्रकम्।
नवदिल्ली >मुद्रारूप्यकनिरासेन सञ्जातं मान्द्यं तर्तुं ग्रामीण कार्षिकमण्डलेभ्यः यथेष्टं दत्वा मोदिसर्वकारस्य चतुर्थम् आयव्ययपत्रकं वित्तमन्त्रिणा अरुण् जेट्लिवर्येण लोकसभायाम् अवतारितम्। व्याजधनं तथा करस्य छलापहरणं च निवारयितुं मुद्रारूप्यकरहित विनिमयान् [डिजिटल] प्रोत्साहयितुं निर्देशाः सन्ति।
प्रधानमंत्रिणा मोदिना अरुणजेटली वर्धापितः
प्रधानमंत्रिणा मोदिना समीचीन-आयव्ययपत्रक-प्रस्तुतिमालक्ष्य वित्तमन्त्री अरुणजेटली वर्धापितः प्रोक्तं च यत् अनेन आयव्ययपत्रक़ेण देशस्य- अर्थव्यवस्था सुदृढा, निर्धनानां स्थितिः च समुचिता भविष्यति
।
नवदिल्ली >मुद्रारूप्यकनिरासेन सञ्जातं मान्द्यं तर्तुं ग्रामीण कार्षिकमण्डलेभ्यः यथेष्टं दत्वा मोदिसर्वकारस्य चतुर्थम् आयव्ययपत्रकं वित्तमन्त्रिणा अरुण् जेट्लिवर्येण लोकसभायाम् अवतारितम्। व्याजधनं तथा करस्य छलापहरणं च निवारयितुं मुद्रारूप्यकरहित विनिमयान् [डिजिटल] प्रोत्साहयितुं निर्देशाः सन्ति।
भारत-इंग्लैण्डयोः २०-२० क्रिकेटशृंखला भारतेन विजिता
विंशतिः-विंशतिक्षेपचक्रीयक्रिकेटस्पर्धां पञ्चसप्ततिधावनांकैः विजित्य शृंखलेयं भारतीयदलेन स्वायत्तीकृता यजुवेन्द्रचहलः सर्वश्रेष्ठक्रीडाप्रदर्शनाय शृंखलापुरुषत्वेन प्रचितः |प्रधानमंत्रिणा मोदिना अरुणजेटली वर्धापितः
प्रधानमंत्रिणा मोदिना समीचीन-आयव्ययपत्रक-प्रस्तुतिमालक्ष्य वित्तमन्त्री अरुणजेटली वर्धापितः प्रोक्तं च यत् अनेन आयव्ययपत्रक़ेण देशस्य- अर्थव्यवस्था सुदृढा, निर्धनानां स्थितिः च समुचिता भविष्यति
।
Thursday, February 2, 2017
बड्जट्ट् -२०१७
लक्षत्रयाधिकं मुद्रापत्रकविनिमयानि निरुद्ध्य आयकरव्यवस्थायां लाघावं कृत्वा च केन्द्रसर्वकारस्य 'बड्जट्'।
नवदिल्ली>भवन रहितानां कोटिमितम् भवनानि, वर्षद्वयाभ्यन्तरेण दरिद्रतानिर्मार्जनमुद्धिश्य अन्त्योदयमिषन्, कृषके भ्यः अधिकं धनं ऋणरूपेण, राजनैतिकदलेभ्यः आर्थिक साहाये सुतार्यता क्रमनिर्माणः निर्वाचनात् पूर्वम्, एते धनमन्त्रिणा अरुण्जैटिलिना प्रस्तुते बड्जट् निर्देशे प्रमुखाः।
लक्षत्रयाधिकं मुद्रापत्रकविनिमयानि निरुद्ध्य आयकरव्यवस्थायां लाघावं कृत्वा च केन्द्रसर्वकारस्य 'बड्जट्'।
नवदिल्ली>भवन रहितानां कोटिमितम् भवनानि, वर्षद्वयाभ्यन्तरेण दरिद्रतानिर्मार्जनमुद्धिश्य अन्त्योदयमिषन्, कृषके भ्यः अधिकं धनं ऋणरूपेण, राजनैतिकदलेभ्यः आर्थिक साहाये सुतार्यता क्रमनिर्माणः निर्वाचनात् पूर्वम्, एते धनमन्त्रिणा अरुण्जैटिलिना प्रस्तुते बड्जट् निर्देशे प्रमुखाः।
अपरनामबद्धः कोटिसंख्याकानां संपदः गृहीताः।
सप्ताशीति जनान् प्रति गरीयसी सूचना।
नवदिल्ली> व्याजधनस्य स्वाधीनताग्रहणस्य अनुबन्धतया आयकर-विभागेन सप्ताशीति जनान् प्रति तर्जनात्मिका सूचना प्रेषिता। कोटिशः रूप्यकाणां मूल्यवती सम्पत् कूटरीत्या सम्पादितवतां गूढेतरनाम्नि स्थापितानां च अवद्यां संपदं सर्वकारेण स्वायत्तीकर्तुं नियमाः सज्जाः ।सेवानिवृत्तानां कर्मकराणां, यान्त्रिक स्वामिनां शैक्षिकसंस्थानां च एवं विध अलीक धनसञ्चयः दृष्टाः यन्त्रशालायाः ७८० कर्मकराणां वित्तलेखेषु तदधिकारिणा गुप्तधनानि निभृतानि। शैक्षिक संस्थया ४० कर्मकराणां वित्तलेखेषु पूरितम् आसीत्। हरियाना स्वदेशी निवृत्तः ऐ ए एस् कर्मकरः अट्टसमुच्चयाः गृहीताः। एतानि सर्वाणि आयकरविभागेन नियमानुसारम् अधीनतामकरोत्।
केरल संस्कृताध्यापक फेडरेषनस्य राज्यस्थरीयमेलनं अद्य आरभते।
कोष़िक्कोट्> केरलस्य विद्यालयस्तरीय शिक्षकानां अङ्गीकृतं सेवादलं भवति के एस् टि एफ्। अस्य दलस्य एकोन चत्वारिशत्तमं मेलनं अद्य आरभते। कोषिक्कोटे नलन्दा नाम सभागारे आयोज्यमाने मेलने विधानसभाङ्गः पुरुषन् कटलुण्डिः उद्घाटकः भविष्यति। विधानसभाङ्गः ए प्रदीप् कुमारः संस्कृत विश्वविद्यालयस्य उपकुलपतिः डॉ धर्मराज् अटाट्टः च, डॉ सि जी विजयकुमारः सुरेन्द्रन् कटक्कोट् प्रभृतयः प्रमुखाः भागभाजः भविष्यन्ति।Wednesday, February 1, 2017
व्याजधनान् विरुद्ध्य कृतः प्रतिरोधः प्रशंसनीयः - भारतस्य राष्ट्रपतिः।
नवदिल्ली > राष्ट्रपति प्रणाब् मुखर्जी वर्यस्य प्राप्यतत्त्वोपोद्घातभाषणेन वर्षीयायव्ययनिर्णायकस्य सत्रस्य बड्जट् नामकस्य आरम्भः अभवत्। ऐतिहासिकाभूतपूर्वमेलनं इत्युक्त्वा असीत् राष्ट्रपतेः भाषणस्य आरंभः। अलीकस्य तथा व्याजधनस्य पुरतः सुशक्तया रीत्या प्रतिरोधं कृत्वा एव भारतसर्वकारः प्रशासनं कुर्वन्ति इत्येतत् प्रशंसार्हं भवति इति राष्ट्रपतिना प्रणाब् मुखर्जिवर्येण उच्यते । धनमुद्रिकायाः निर्मुल्यीकरण-निर्णयः चरित्रे लेखनीयः इति उक्तवान् राष्ट्रपतिः। हस्तगतधनं विना धनविनिमयः प्रोत्साहं अर्हतीति अवोचत्। स्वच्छभारत योजना जनानां सहकारितया वृद्धिम् अवाप। भारतभूमिं प्रति गूढरूपेण निलुण्ठन् अन्तरागतानां वैरिणां कृते पर्याप्तं दण्डं दातुं प्रभवाम: वयम्। सैनिकैः तेषां मूलमेव चूर्णयित्वा अतिप्रहारः कृतः इति प्रवर्तितसाहसक्रियां सूचयित्वा राष्ट्रपतिवर्येण उक्तम्।
केन्द्रायव्ययपत्रावतारणम् अद्य ।
कोच्ची> नरेन्द्रमोदीसर्वकारस्य चतुर्थम् आयव्ययपत्रं फेब्रु. प्रथमदिनाङ्के केन्द्रवित्तमन्त्रिणा अरुण् जेट्लिमहोदयेन लोकसभायां अवतारयिष्यते। मुद्रारूप्यकनिरासानन्तरम् अवतार्यमाणम् आयव्ययपत्रम् इत्यतः सामान्यजनाः तथा उद्योगभीमाश्च अत्यन्तम् उत्कण्ठाभरिताः वर्तन्ते।
विनोद् राय् बि सि सि ऐ नेता।
नवदिल्ली>भारत क्रिक्कट् नियन्त्रण समित्याः दैनन्दिनकार्यनिर्वहणाय सर्वोच्चन्यायालयेन चतुरङ्गसमितिः नियुक्ता। भूतपूर्वः सि ए जी विनोदराय् वर्यस्य नेतृत्वे रूपवत्कृतायां समित्यां चरित्रकारः रामचन्द्रगुहा, ऐ डि एफ् सि संस्थायाः मुख्यनिदेशकः विक्रम लिमाये , भारतस्य महिला क्रिक्कट् दलस्य भूतपूर्वनेत्री डयाना एडुल्जी इत्येते अङ्गाः। सन्ति। निर्वाचनद्वारा यावत् नवीनाः धुरन्धराः अवरोधितव्याः भवेयुः तावत् लोधासमित्याः निर्देशानुसारं दैनिकप्रवर्तनानि करणीयानि।
ई अहम्मद् दिवंगतः।
Tuesday, January 31, 2017
परीक्षा उत्सववत् आघोषयतु - प्रधानमन्त्री नरेन्द्रमोदिः
नव दिल्ली > आगामि मासाः परीक्षायाः कालः। परीक्षा सोत्साहं उत्सववत् करणीया। तदर्थं छात्राः पितरः च अद्युक्ताः भवन्तु इति च प्रधानमन्त्रिणा नरेन्द्रमोदिना मन् की बात् नाम प्रतिमास-कार्यक्रमे अवोचत्। संवत्सरं यावत् कृतप्रयत्नस्य मूल्य निर्णयस्य समयः। अतः मनःक्लेशंविना परीक्षा लेखनीया। शान्ति युक्तात् चित्तात् एव उत्तराणि स्वच्छतया प्रवहेत् इति च मोदिना उच्यते। परीक्षा केन्द्रीकृत-शिक्षा प्रणालिः क्लेशमुद्पादयन्ति। एतदधिकृत्य सर्वेषाम् अभिमतानि ज्ञातुम् अभिलाषामि इति च तेन महोदयेन उक्तम्।अद्य महात्मा गान्धिनः रक्त-साक्षित्व दिनमेव। निमेषद्वयं मौनमवलम्ब्य राष्ट्रस्य कृते जीवान् त्यक्तान् सर्वानपि स्मरणीयम् इति च मन् की बात् कार्यक्रमे तेन उक्तम् ।
मन् की बात्- आकाशवाणी अभिनन्दिता ।
नव दिल्ली>मन् की बात् नाम कार्यक्रमस्य नवीनया रीत्या प्रसारणाय आकाशवाणी प्रयत्नं कुर्वन्ती अस्ति। गतमासात् आरभ्य प्रादेशिकभाषासु अपि अनुवादः प्रसार्यते इति अभिनन्दनार्हः एव। प्रधानमन्त्रिणा उच्यते। स्वप्रेरणया एव एतादृशाः कार्यक्रमाः आयोजिताः इत्यस्मात् कारणात् अभिनन्दनार्हा इति मोदि महोदयेन उक्तम्।
केन्द्रायव्ययपत्रावतारणं श्वः।
कोच्ची> नरेन्द्रमोदीसर्वकारस्य चतुर्थम् आयव्ययपत्रं फेब्रु. प्रथमदिनाङ्के केन्द्रवित्तमन्त्रिणा अरुणजेय्ट्ली वर्येण लोकसभायां अवतारयिष्यते। मुद्रपत्रकनिरासानन्तरं अवतार्यमाणम् आयव्ययपत्रम् इत्यतः सामान्यजनाः तथा उद्योगभीमाश्च अत्यन्तं प्रतिक्ष्यमाणाः वर्तन्ते।Monday, January 30, 2017
राष्ट्रेण स्थगायिताः इतरदेशीयाभयार्थिनः कनडा स्वीकर्तुं सन्नद्धा ।।
टोरन्टो > यू एस् राष्ट्रपतिना डोणाल्ड ट्रम्पेन निवारितापि कानडायाः प्रधानमन्त्रिणा जस्टिन् ट्रूडो महाशयेन इतरदेशीयाभयार्थिनः स्वागतीकृताः। सप्तानां इस्लामिकराष्ट्राणां जनानां तथा अभयार्थिनं च स्वराष्ट्रे प्रवेशं निरुघ्य कृतः निर्णय: राष्ट्रे राष्ट्रान्तरे च विचार-विमर्शानां कारणत्वेन अभवत् । एवं स्थिते सति कानडायाः अभयार्थिनयं सर्वेषां सुविचाराय भविष्यति। ट्विट्टर द्वारा आसीत् स्वागतवचनम्। भिन्न धर्मानुयायिनः चेदपि स्वागतं करोमि इति जस्टिन् ट्रूडो अवदत्। वैविध्यमेव अस्माकं शक्तिरिति च सः अवदत्।
ऐ एस् भीकरदलंविरुद्ध्य यूस् रष्ययोः मिथः सन्धिः।
वाषिङ्टण् > ऐ एस् नामकं भीकर दलंविरुद्ध्य योद्धुं यू एस् राष्ट्रपतिना डोणाल्ड् ट्रम्पेन तथा रष्यायाः राष्ट्रपतिना व्लाडिमिर् पुटिनेन च कृतयोः संभाषणे निर्णयः स्वीकृतः। द्वयोः राष्ट्रयोः मध्ये सुदृढबन्धाय सार्थक: पदक्षेपः भवति इदम् इति वैट् हौस् वक्ता वदति। दूरवाणीद्वारा एकघण्डा-पर्यन्तमासीत् भाषणम्। सिरिया युक्रैन् संघर्षाणाम् अनुबन्धतया एव उभययोः राष्ट्रयोः मध्ये विदूरबन्धः जातः आसीत्। दूरवाणीभाषणं गुणदायकम् इति रष्यापक्षीयाणां अभिप्रायः। नैकाः राष्ट्रान्तर-समस्याः संभाषणे प्रतिपादिताः आसन्।Sunday, January 29, 2017
विंशतिः प्रतिविंशतिः क्रिकेटस्पर्धा-
भारतेन पञ्चधावनाकैः विजितः।
नवदिल्ली>भारत
इंग्लैडयोः मध्ये ह्यः नागपुरे समायोजितः विंशतिः प्रतिविंशतिः
क्रिकेटस्पर्धायाः द्वितीयो द्वन्द्वः भारतेन पञ्चधावनाकैः विजितः,
बुमराह: क्रीडापुरुषः समुद्घोषितः। अनेनैव श्रृंखलायां दलद्वयमपि समत्वं
भजते। श्रृंखलायाः निर्णायकद्वन्द्वः बुधवासरे बैंग्लूरुनगरे भविष्यति।
Subscribe to:
Posts (Atom)