कोच्ची> केरळे शबरीगिरौ भगवतः अयप्पस्य मंदिरे गतदिने दुरापादिते सम्मर्दे न्यूनातिन्यूनं ३१ व्रतधारिणः व्रणिताः। व्रणिताः अय्यप्पददृशवः भक्ताः कोट्टयं चिकित्यालये अथ च स्थानीये पम्बा चिकित्सालये शुश्रूषिताः वर्तन्ते।। पत्तनंतिट्टायाः जनपदााधिकारिणा प्रोदीरितं यत् तीर्थाटकानां भूरिसंख्याकारणेन आरक्षिबन्धस्य खण्डनमभवत् येन दुर्घटनेयं दुरापादिता। जनोद्धाराय सुरक्षादृशा च राष्ट्रियापदुद्धारबलं घटनास्थले सक्रियतामादधाति।
OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Monday, December 26, 2016
Sunday, December 25, 2016
ज्ञानपीठपुरस्कारः शङ्खघोषवर्याय।
नवदिल्ली> अस्य संवत्सरस्य ज्ञानपीठपुरस्काराय वंगराज्यस्य प्रशस्तकविः तथा निरूपकः शङखघोषवर्यः अर्हति। वंगसाहित्ये रवीन्द्रनाथटाक्कुरस्य मार्गम् अनुगच्छन्नस्ति अयम्।
प्रसिद्धः साहित्यकारः चिन्तकः नंवर् सिंहः इत्यस्य नेतृत्वे विद्यमाना समितिरेव इमं निर्णयं कृतवती। सामाजिकप्रश्नान् उपेत्य निरीक्ष्यमाणाः कविताः तस्य जीवनकालं सामाजिकावस्थां च याथातथ्येन अङ्कयतीति पुरस्कारसमित्या निर्णीतम्।
मानवस्य अन्तर्वैरुध्यान्येव शङघघोषस्य कविताभिः सामान्येन प्रकाश्यमाणानि वर्तन्ते। भाषायाः कृतहस्तता तस्य कवितानां मुखमुद्रा भवति। आशयागाधतयया सौन्दर्येण च तस्य रचनाः नितराम् उत्कृष्टाः विद्यन्ते।
छात्रवैद्यसमूहाः ग्रामेषु पर्यटनं कृत्वा रोगनिवारणोपाया: अध्ययनं करणीयम्-चन्द्रबाबुनायुडु:।
विजयवाडा> स्वास्थ्यविद्यावाहिनि कार्यक्रमे ये वैद्यछात्रा: भागं ग्रहिष्यन्ति तेषामधिक अङ्का: यच्छाम: इति आन्ध्रप्रदेश मुख्यमन्त्री श्री चन्द्रबाबुनायुडु: अवदत् । विजयवाडा नगरे शनिवासरे मुख्यमन्त्री अस्याः योजनायाः प्ररम्भं कृत्वा भाषणं दत्तवान् यत् “जनवरि मासस्य द्वितीयदिनाङ्कादारभ्य अक्टोबर् मास पर्यन्तं दशमासा: प्रतिदिनं षट्चत्वारिंशदधिकचतुश्शतं(४४६)वैद्यसमूहैः ग्रामेषु पर्यटनं कृत्वा तत्र पर्यावरणम्, प्रस्तुतस्थितिगतय:, रोगनिवारणोपाया: च अध्ययनं करणीयम्। अस्मिन् उद्यमे ये छात्रा: भागं ग्रहिष्यन्ति ते प्रयोगात्मकपरीक्षासु अधिकाङ्का: प्राप्तुं शक्नुवन्तीति मुख्यमन्त्री अवदत्।
नववैद्या: एव भारतनिर्मातार: - श्री प्रणवमुखर्जी।
जवहार्नगरम् >नववैद्या: भारतनिर्मातार: भवितव्यः इति भारतराष्ट्रपतिना श्री प्रणवमुखर्जी महोदयेन उक्तम्। हैदरबाद् सैनिक-दन्तवैद्यकलाशालाया: स्नातकोत्तर-बिरुद-प्रदानोत्सवे मुख्यतिथिर्भूत्वा उत्तम-पठनपरिणामं प्राप्तवतां छात्राणां पुरस्कारप्रदानं कृत्वा भाषमाणः आसीत् सः। वैद्यकलाशालाया: एकादशीय स्नातकोत्सव महोत्सवः आसीदयम् । अस्मिन् अवसरे भाषणं दत्तवान् यत् वैद्यछात्रा: भारतनिर्मातार: भवन्ति। तेषां ज्ञानं समाजकल्याणाय भवतु , नववैद्यैः वैद्यसेवाः मानुषत्वेन करणीयाः इति च तेन महामहिमवर्येण उक्तम् । अष्टसहस्र नगरीयजनानां एक: दन्तवैद्य:, एवमेव पञ्चसहस्र ग्राम्यजनानां एक: दन्तवैद्य: एव अस्ति। अत: नववैद्या: प्रतिग्रामं गत्वा दन्तवैद्य-शिबिरा: स्थापनीया: इति तेन वैद्याः उपदिष्टाः। अस्मिन् स्नातकोत्सवे राज्यपाल: श्री नरसिंहन् , तेलंगाना उपमुख्यमन्त्री महम्मद् अलि, कालोजी आरोग्य-विश्वविद्यालयस्य उपकुलपति: करुणाकररेड्डि: अन्ये कलाशालाध्यापकाध्यापिकाश्च भागं गृहीतवन्त:।
अत्यन्तोन्नत छत्रपतिशिवाजिमूर्तेः निर्माणम्- अरेबियन् महासमुद्रे।
भारतप्राधनमन्त्री श्री नरेन्द्रमोदि: जलपूजां कृतवान्।
मुम्बई> मुम्बई नगरस्य समीपे अरेबियन् महासमुद्रे अत्यन्तोन्नत शिवाजिमहाराज्ञ: मूर्ते: निर्माणं भविष्यति। अयं मूर्ति: षट्शतत्रिंशत्पदम् उच्चतां भूत्वा विश्वविक्रमे स्थानं प्राप्स्यति। अस्य मूर्ते: निर्माणार्थं त्रिसहस्रषट्शतकोटि रूप्यकाणि व्ययं भविष्यति। शनिवासरे शिवाजिमूर्तेः निर्माणस्य प्रारम्भोत्सवे भारतप्राधनमन्त्री श्री नरेन्द्रमोदि: जलपूजां कृतवान्।
अद्य क्रिस्तुजयन्ति आचरन्ति लोकाः
चित्रशेखरात् |
Saturday, December 24, 2016
कृष्णानदी तीरे पञ्चम अन्ताराष्ट्रिय कूचिपूडि नृत्योत्सव:।
अमरावती > कृष्णानदी परीवाहकप्रान्त: कूचिपूडि: विश्वप्रसिद्ध:। अस्मिन् ग्रामे प्रचलिते अन्ताराष्ट्रिय कूचिपूडि नृत्योत्सवे भागं ग्रहीतुं देश,विदेशेभ्यश्च नृत्यकलाकरा: आगतवन्ता:। अयं नृत्योत्सवकार्यक्रम: दिसेम्बर् २३ दिनाङ्कादारभ्य दिसेम्बर् २५ दिनाङ्कपर्यन्तं भविष्यति। आन्ध्रभाषासांस्कृतिकशाखा, सिलिकानान्ध्रा च संस्थे मिलित्वा अयोजितः भवति कार्यक्रमः। द्विशत-पञ्चाशत् गुरव: तेषां शिष्याश्च अस्मिन् कार्यक्रमे नृत्यं प्रदर्शयिष्यति। अद्य सार्ध-नववादने आन्ध्रप्रदेशमुख्यमन्त्री श्री चन्द्रबाबुनायुडु: अयं कार्यक्रमस्य प्रारम्भ: कृत:। अस्मिन् कार्यक्रमे तृतीयदिने षट्सहस्रं कलाकरा: मिलित्वा नृत्यं करिष्यन्ति। कूचिपूडि नृत्यं आगामि संवत्सरादारभ्य सप्तमकक्ष्याया: पाठ्यपुस्तके पाठ्यांश रूपेण भविष्यतीति मुख्यमन्त्री अवदत्।
तमिल् नाडुराज्यस्य नूतन प्रधानसचिवा श्रीमति गिरिजा वैद्यनाथन्।
श्रीमती गिरिजा वैद्यनाथन् तमिलनाडु राज्यस्य मुख्यकार्यनिर्वाहिका रूपेण अद्य पदवीमलङ्कृतवती। भारतीय प्रौद्योगिकी संस्थाय़ामुपाधिं सम्पाद्य “संक्षेमं-आर्थिकप्रगति:” इत्यस्मिन् विषये विद्यावारधिं प्राप्तवती। डा.गिरिजा वैद्यनाथन् १९८१ संवत्सरे भारतीय प्रशासनिक सेवायां प्रशिक्षणं कृतवती। अनन्तरं तमिलनाडु आरोग्यशाखायां अधिकारिणी आसीत्। तत्र तस्या: सेवा: प्रशंसनीया: आसन्।प्राचार्य योग्यता परीक्षा – सी.बी.एस्.सी
Friday, December 23, 2016
सौदीअरेब्याराष्ट्रेण करव्यवस्थां स्थापयितुं निश्चितम्।, प्रतिमासं ७०० रियाल्।
रियाद् > प्रवासिजनानां सौदीअरेब्याराष्ट्रेण करव्यवस्थां स्थापयितुं निश्चितम्। सन्दर्भेऽस्मिन् प्रवासि जनाः प्रति मासं सप्तशतं रियाल् (७००) करं दातुं निर्बन्धिताः भवेयुः। आश्रित विसायां गतेभ्यः द्वि शतादारभ्य चतुश्शत पर्यन्तं (२००-४००) भवति करः। आगामि नूतनसंवत्सरस्य आर्थिक-विनिमय-निर्देशे एव इमं निर्देशं अन्तर्भावयति। भारतात् बहवः जनाः तत्र कर्म कुर्वन्ति। तेषां अवस्था दुरितमया भविष्यति। स्वदेशवत्करणस्य अनुबन्धतया भवति अयं निर्देशः
सी.बी.एस्.सी विद्यालयेषु संस्कृतम् अनिवार्यम्, दशमी पर्यन्तं त्रिभाषासूत्रम् – श्री प्रकाश जवेद्कर:
नवदिल्ली>सी.बी.यस्.सी विद्यालयेषु त्रिभाषासूत्रमचिरेण प्रारप्स्यते। षष्ठ-कक्ष्यादारभ्य दशमकक्ष्या पर्यन्तं त्रिभाषासूत्रमुद्घोषितम्। परन्तु पाठशालासु का पि भाषा समाहिता न भवति। संस्कृतभाषा दशम-पर्यन्तमनिवार्यं भविष्यतीति जवेद्कर: अवदत्। तमिलनाडुं त्यक्त्वा देशेषु सर्वेषु राज्येषु एका अन्ताराष्ट्रियभाषा आङ्गलम् , अन्या देशीयभाषा हिन्दी , अपरा संस्कृतं अथवा एका प्रान्तीयभाषा भविष्यति। परन्तु येषां हिन्दी प्रान्तीयभाषा भवति तेषां तृतीयाभाषारूपेण संस्कृतमनिवार्यं भविष्यति । ये जना: पाश्चात्यभाषा-पठनार्थमुत्सुका: भवन्ति ते ऐच्छिकरूपेण चतुर्थभाषारूपेण पठितुमर्हन्तीति श्री जवेद्कर: अवदत्।
८०००० शिशवः अनशनतया मृताः भविष्यन्ति -यू एन्।
लोगोस् (नैजीरिया ) >पोषकाहारस्य अभावेन आगामी संवत्सरे अशीति सहस्रं शिशवः मृत्युवशं गमिष्यति इति यू एन् संस्थायाः शिशुविभागेन सूचना दत्ता। चतुर्लक्षं शिशवः अनशनाः भविष्यन्ति। बोक्को हरां भीकराणां वर्धनेन राष्ट्रेषु महान् विघ्नाः जाताः। अस्य विघ्नस्य परिणाम-वशात् दुरन्तः भविष्यति इति युनिसेफ् दलस्य निर्वाहण निर्देशकः अन्टोणि लेक् अवदत्।Thursday, December 22, 2016
विश्वसम्पद्व्यवस्था - भारतं षष्ठस्थाने।
वाषिङ्टण्> ब्रिटेन राष्ट्रं पृष्टतः कृत्वा भारतं विश्वस्य षष्ठं महदार्थिकव्यवस्थायुक्तं राष्ट्रं समजायत इति फोरिन् पोलिसि नामिकायाः मासिक्याः वृत्तान्तख्यातिः। शतसंवत्सराभ्यन्तरे प्रथमतया भवति ब्रिटेन राष्ट्रात् भारतस्य पुरतःप्राप्तिः। अतिशीघ्रः आर्थिकाभिवृद्धिः तथा यूरोप्यन् संगमात् ब्रिटनस्य बहिर्गमनेन [ब्रक्सिट्] आर्थिकमण्डले सञ्जातम् अनिश्चितत्वं च भारतस्य प्रयोजनाय अभवताम्। पञ्चविंशतिसंवत्सराभ्यन्तरे भारतस्य सम्पूर्णाभ्यन्तर उत्पादने [जि डि पि] अभूतपूर्व अभिवृद्धिः सञ्जातः।तथा च संवत्सरैकाभ्यन्तरे ब्रिटिष्पौण्ट् मुद्रायाः मूल्यमपि बहुवारम् अधःपपात इत्येतच्च भारताय सहायकम् अभवदिति विज्ञप्तिपत्रेण ज्ञायते।
Wednesday, December 21, 2016
करुणस्य वीरत्वेन भारतं विजयपीठे।
चेन्नै> करुण् नायर् नामकस्य केरलीयक्रिक्कट् क्रीडकस्य लगुडेन लब्धानां त्र्यधिकत्रिशतं [३०३] धावनाङ्कानाम् अधीशत्वे इङ्लण्ट् सङ्घस्योपरि भारतस्य एक इन्निङ्स् तथा पञ्चसप्तति धावनाङ्कानां च समुज्वलविजयः।विरसा भवेदिति विचिन्तिता स्पर्धा एव करुणस्य अनितरसाधारणवैभवेन भारतानुकूला परिवर्तिता।अनेन विजयेन ४-० इत्यङ्कविन्यासे भारतं इङ्लन्टराष्ट्रं विरुध्य निकषस्पर्धापरम्परामपि स्वायत्तमकरोत्। प्रथम इन्निङ्स् क्रीडायाम् अतिथिराष्ट्रेण ४७७ धावनाङ्कानि, भारतेन ७कन्दुकताडकविनष्टे ७५९ धावनाङ्कानि च प्राप्तानि। द्वितीयेन्निङ्स्मध्ये इङ्लण्टदलं २०७ धावनाङ्कैः सर्वे ताडकाः बहिर्गताः। रवीन्द्र जडेजा नामकः चक्रगेन्दकः तस्य ऐन्द्रजालिकप्रकटनेन सप्त कन्दुकताडकान् बहिर्गमयितवान्। अतः आङ्गलेयानां समस्थितिप्रतीक्षा अपि अस्तंगता। चतस्रः स्पर्धाः अपि भारतेन स्वायत्तीकृताः।
जगन्नाथवर्मा दिवंगतः।
अनन्तपुरी> प्रशस्तः कैरलीचलच्चित्र-दूरदर्शनपरम्परानटः जगन्नाथवर्मा निर्यातः। सप्तसप्ततिवयस्कः आसीत्।
केरलस्य आरक्षकविभागे उच्चस्थानमलंकृतवान् सः पञ्चशताधिकेषु चलनचित्रेषु स्वीयकलावैभवं प्रदर्शितवान्। शङ्कराभरणम् इति उत्कृष्टतेलुगुचलच्चित्रस्य कैरलीपाठान्तरे सोमयाजलुवर्येण अवतारितस्य शङ्करशास्त्रिणः शब्दः जगन्नाथवर्मणा कृतः आसीत्। कथाकेलिः चेण्टवाद्यम् इत्यादिषु कलारूपेषु अपि निपुणः आसीत्।
Subscribe to:
Posts (Atom)