National Seminar on Holistic way of Life & Living Day 1
OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Friday, December 23, 2016
सौदीअरेब्याराष्ट्रेण करव्यवस्थां स्थापयितुं निश्चितम्।, प्रतिमासं ७०० रियाल्।
रियाद् > प्रवासिजनानां सौदीअरेब्याराष्ट्रेण करव्यवस्थां स्थापयितुं निश्चितम्। सन्दर्भेऽस्मिन् प्रवासि जनाः प्रति मासं सप्तशतं रियाल् (७००) करं दातुं निर्बन्धिताः भवेयुः। आश्रित विसायां गतेभ्यः द्वि शतादारभ्य चतुश्शत पर्यन्तं (२००-४००) भवति करः। आगामि नूतनसंवत्सरस्य आर्थिक-विनिमय-निर्देशे एव इमं निर्देशं अन्तर्भावयति। भारतात् बहवः जनाः तत्र कर्म कुर्वन्ति। तेषां अवस्था दुरितमया भविष्यति। स्वदेशवत्करणस्य अनुबन्धतया भवति अयं निर्देशः
सी.बी.एस्.सी विद्यालयेषु संस्कृतम् अनिवार्यम्, दशमी पर्यन्तं त्रिभाषासूत्रम् – श्री प्रकाश जवेद्कर:
नवदिल्ली>सी.बी.यस्.सी विद्यालयेषु त्रिभाषासूत्रमचिरेण प्रारप्स्यते। षष्ठ-कक्ष्यादारभ्य दशमकक्ष्या पर्यन्तं त्रिभाषासूत्रमुद्घोषितम्। परन्तु पाठशालासु का पि भाषा समाहिता न भवति। संस्कृतभाषा दशम-पर्यन्तमनिवार्यं भविष्यतीति जवेद्कर: अवदत्। तमिलनाडुं त्यक्त्वा देशेषु सर्वेषु राज्येषु एका अन्ताराष्ट्रियभाषा आङ्गलम् , अन्या देशीयभाषा हिन्दी , अपरा संस्कृतं अथवा एका प्रान्तीयभाषा भविष्यति। परन्तु येषां हिन्दी प्रान्तीयभाषा भवति तेषां तृतीयाभाषारूपेण संस्कृतमनिवार्यं भविष्यति । ये जना: पाश्चात्यभाषा-पठनार्थमुत्सुका: भवन्ति ते ऐच्छिकरूपेण चतुर्थभाषारूपेण पठितुमर्हन्तीति श्री जवेद्कर: अवदत्।
८०००० शिशवः अनशनतया मृताः भविष्यन्ति -यू एन्।
लोगोस् (नैजीरिया ) >पोषकाहारस्य अभावेन आगामी संवत्सरे अशीति सहस्रं शिशवः मृत्युवशं गमिष्यति इति यू एन् संस्थायाः शिशुविभागेन सूचना दत्ता। चतुर्लक्षं शिशवः अनशनाः भविष्यन्ति। बोक्को हरां भीकराणां वर्धनेन राष्ट्रेषु महान् विघ्नाः जाताः। अस्य विघ्नस्य परिणाम-वशात् दुरन्तः भविष्यति इति युनिसेफ् दलस्य निर्वाहण निर्देशकः अन्टोणि लेक् अवदत्।Thursday, December 22, 2016
विश्वसम्पद्व्यवस्था - भारतं षष्ठस्थाने।
वाषिङ्टण्> ब्रिटेन राष्ट्रं पृष्टतः कृत्वा भारतं विश्वस्य षष्ठं महदार्थिकव्यवस्थायुक्तं राष्ट्रं समजायत इति फोरिन् पोलिसि नामिकायाः मासिक्याः वृत्तान्तख्यातिः। शतसंवत्सराभ्यन्तरे प्रथमतया भवति ब्रिटेन राष्ट्रात् भारतस्य पुरतःप्राप्तिः। अतिशीघ्रः आर्थिकाभिवृद्धिः तथा यूरोप्यन् संगमात् ब्रिटनस्य बहिर्गमनेन [ब्रक्सिट्] आर्थिकमण्डले सञ्जातम् अनिश्चितत्वं च भारतस्य प्रयोजनाय अभवताम्। पञ्चविंशतिसंवत्सराभ्यन्तरे भारतस्य सम्पूर्णाभ्यन्तर उत्पादने [जि डि पि] अभूतपूर्व अभिवृद्धिः सञ्जातः।तथा च संवत्सरैकाभ्यन्तरे ब्रिटिष्पौण्ट् मुद्रायाः मूल्यमपि बहुवारम् अधःपपात इत्येतच्च भारताय सहायकम् अभवदिति विज्ञप्तिपत्रेण ज्ञायते।
Wednesday, December 21, 2016
करुणस्य वीरत्वेन भारतं विजयपीठे।
चेन्नै> करुण् नायर् नामकस्य केरलीयक्रिक्कट् क्रीडकस्य लगुडेन लब्धानां त्र्यधिकत्रिशतं [३०३] धावनाङ्कानाम् अधीशत्वे इङ्लण्ट् सङ्घस्योपरि भारतस्य एक इन्निङ्स् तथा पञ्चसप्तति धावनाङ्कानां च समुज्वलविजयः।विरसा भवेदिति विचिन्तिता स्पर्धा एव करुणस्य अनितरसाधारणवैभवेन भारतानुकूला परिवर्तिता।अनेन विजयेन ४-० इत्यङ्कविन्यासे भारतं इङ्लन्टराष्ट्रं विरुध्य निकषस्पर्धापरम्परामपि स्वायत्तमकरोत्। प्रथम इन्निङ्स् क्रीडायाम् अतिथिराष्ट्रेण ४७७ धावनाङ्कानि, भारतेन ७कन्दुकताडकविनष्टे ७५९ धावनाङ्कानि च प्राप्तानि। द्वितीयेन्निङ्स्मध्ये इङ्लण्टदलं २०७ धावनाङ्कैः सर्वे ताडकाः बहिर्गताः। रवीन्द्र जडेजा नामकः चक्रगेन्दकः तस्य ऐन्द्रजालिकप्रकटनेन सप्त कन्दुकताडकान् बहिर्गमयितवान्। अतः आङ्गलेयानां समस्थितिप्रतीक्षा अपि अस्तंगता। चतस्रः स्पर्धाः अपि भारतेन स्वायत्तीकृताः।
जगन्नाथवर्मा दिवंगतः।
अनन्तपुरी> प्रशस्तः कैरलीचलच्चित्र-दूरदर्शनपरम्परानटः जगन्नाथवर्मा निर्यातः। सप्तसप्ततिवयस्कः आसीत्।
केरलस्य आरक्षकविभागे उच्चस्थानमलंकृतवान् सः पञ्चशताधिकेषु चलनचित्रेषु स्वीयकलावैभवं प्रदर्शितवान्। शङ्कराभरणम् इति उत्कृष्टतेलुगुचलच्चित्रस्य कैरलीपाठान्तरे सोमयाजलुवर्येण अवतारितस्य शङ्करशास्त्रिणः शब्दः जगन्नाथवर्मणा कृतः आसीत्। कथाकेलिः चेण्टवाद्यम् इत्यादिषु कलारूपेषु अपि निपुणः आसीत्।
Tuesday, December 20, 2016
पाम्पोर् भीकराक्रमणे वीरमृत्युं प्राप्तवद्भ्यः राष्ट्रस्य हृदयाञ्जलिः।
श्रीनगरम्> जम्मुकाश्मीरे पाम्पोर् मध्ये सञ्जाते भीकराक्रमणे वीरमृत्युं प्राप्तवद्भ्यः सैनिकेभ्यः राष्ट्रम् अन्त्याञ्जलिं समार्पयत्।शनिवासरे पाम्पोर् प्रदेशे श्रीनगर-जम्मु देशीयवीथ्यां सैनिकवाहनव्यूहं प्रति सम्पन्नेन भीकराक्रमणेन त्रयः सैनिकाः मृताः आसन्। केरलीयः कण्णूर् स्वदेशीयः रतीशः[३५], महाराष्ट्रीयः पूणे प्रदेशस्थः सौरभ् नन्दकुमारः[३३], झार्खण्डे धन्बाद् स्वदेशीयः शशिकान्त् पाण्डे च वीरस्वर्गम् उपगताः सैनिकाः।
सैनिकवृन्दस्य औद्योगिकश्रद्धाञ्जलिसमर्पणानन्तरं भौतिकशरीराणि स्वस्वराज्यं प्रति नीतानि।
सर्वकार-कार्यकर्तृृऋणाम् अनधिकृत धनस्य पुनस्वीकरणाय विचारः
तिरुवनन्तपुरम्- सर्वकारकार्यकर्तृृऋणाम् अनधिकृत धनस्य पुनस्वीकरणाय नयनिर्माणाय विचारः। सेवाप्रवेशावसरे आयत्तस्य पूर्णं रूपं व्यक्तीकर्तव्यमिति निर्णयस्य पश्चादस्ति नयनिर्माणस्य आलोचना। आगामि फेब्रुवर्यां आयोक्ष्यमाणे सामाजिकानां मेलने परिगणयितुम् अस्य लघुरूपं निर्मातुं मुख्यसचिवः श्री.पिणराई विजयः प्रधान निर्देशकाय एस्.एम् विजयानन्द् महोदयाय निर्देशः अयच्छत्। सर्वकारीय तथा तद्देशसंस्थानां एकादशलक्षाः कार्यरताः च अस्मिन् नियमपरिधौ आगच्छन्ति।
डो.धर्मराज् अटाट् संस्कृतविश्वविद्यालयस्य सहोपकुलपतिः।
Monday, December 19, 2016
ऐ एस् एल् पादकन्दुकस्पर्धा - कोल्कोत्तायै किरीटम्।
कोच्ची> ऐ एस् एल् पादकन्दुकस्पर्धा - कोल्कोत्तायै किरीटम्।
कोच्ची - गर्जन्तं पीतसागरं निश्शेषं पीत्वा अत्लटिको डि कोल्कोत्ता सङ्घः ऐ एस् एल् पादकन्दुककिरीटं शिरसि धृतवान्। कोच्ची जवहर् लाल् नेहरू अन्ताराष्ट्रक्रीडाङ्कणे सम्पन्नायां अन्तिमस्पर्धायां पञ्चाशत्सहस्राधिकैः पीतवस्त्रधारिभिः केरला ब्लास्टेर्स् आराधकैः सम्पूर्णसहयोगे कृते अपि अन्तिमविजयः कोल्कोत्तादलं प्राप्तवान्।
निश्चितसमये एकैकं लक्ष्यकन्दुकं प्राप्य दलद्वयमपि समस्थितौ आसीत्। ततः अर्धहोरायाः अधिकसमये अपि तत्स्थितिम् अनुवर्त्य शरव्यप्रक्षेपणं [Shoot out] नीतम्। तत्र ४-३ इति लक्ष्यकन्दुकविन्यासेन केरल ब्लास्टेर्स् दलं पराजित्य अत्लटिको डि कोल्कोत्ता दलेन विजयकिरीटं प्राप्तम्।
कनिष्ठवर्गीया विश्वहॉकीचषकस्पर्धा
नवदिल्ली >भारतेन 15 वर्षानन्तरं जूनियर इति कनिष्ठवर्गीया विश्वहॉकीचषकस्पर्धा विजिता । लखनऊ-नगरस्य मेजरध्यानचंदराष्ट्रियक्रीडांगणे निर्णायकस्पर्धायां भारतेन बेल्जियम: एकांकं विरुध्य अंकद्वयेेन पराभूय विजयश्रीरधिगता। भारतेन स्पर्धायाः अंकद्वयं क्रीडायाः प्रथमार्धभागे समर्जितम् । प्रथमगोलांकः गुरजंतसिंहेन द्वतीयश्च सिमरनजीतसिंहेन समर्जितः । इतः प्राक् 2001तमे वर्षे भारतीयक्रीडकदलेन अर्जेंटीनादेशं पराजित्य स्पर्धेयं विजितासीत् । Sunday, December 18, 2016
वर्धा प्रचण्डवातानन्तरं चेन्नै नगरं पुनःपुष्टिं प्राप्स्यते।
चेन्नै>विगते सोमवासरे प्रचण्डवातेन भग्नं चेन्नै नगरं प्रत्यागमनाय प्रयतते। वर्धा नामकेन प्रचण्डवातेन वर्षया च इतःपर्यन्तं अष्टादश जनाः मृताः आसन्। वाहनानि बहूनि विनष्टाः। रेल् राजमार्गाः वार्ताविनिमय-सुविधाः वैद्युती, सर्वमपि स्थगिताः किन्तु एते मन्दमन्दं प्रवर्तनक्षमतां यान्ति। सर्वे जनाः सर्वकार सेवकेभ्यः साकं नगर निर्माणाय प्रयत्नं कुर्वन्ति। विभिन्न राजनैतिक दलस्थाः विभिन्न धर्मानुयायिनः च विभिन्नतां विस्मृत्या यत्नं कुर्वन्ति।
नवदिल्ल्यां राज्यस्तरीया संस्कृत-वाद-विवाद-प्रतियोगिता
नवदिल्ल्यां 17.12.2016 तमे दिनांके बक्करवालास्थिले श्रीवेदव्यासगुरुकुले दिल्ली-संस्कृत-अकादम्या दिल्ली-प्रशासनद्वारा राज्यस्तरीया संस्कृत-वाद-विवाद-प्रतियोगिता समायोजिता । यस्यां राजधान्याः गुरुकुलीय छात्रैः सहाभागिता विहिता, प्रतियोगितायं केवलं संस्कृतभाषायामेव वाद-विवादः समाचरितः।
Saturday, December 17, 2016
संस्कृतविद्वांस: एव संस्कृतस्य महत्त्वम् ज्ञापनीया: -राजस्थानस्य राज्यपाल:।
जयपुरम्> राजस्थानराज्यस्य राज्यपाल: श्री कल्याणसिंह: शुक्रवासरे राजस्थानसंस्कृतविश्वविद्यालयस्य स्नातकोत्सवे भागं गृहीतवान्। अस्मिन् अवसरे विदुष: पृष्टवान् यत् विद्वांस: एव संस्कृतस्य महत्त्वम्, आवश्यकता च ज्ञापनीया: खलु? इति। विदेशीया: अपि संस्कृतभाषायां शोध: कुर्वन्ति। पाश्चात्यदेशा: बहुविस्तारेण संस्कृतस्य उपयोगं कुर्वन्ति । अमेरिका, इंग्लाण्ड, जपान् देशेषु वैदिकगणितं पाठ्यक्रमस्य भाग: भवति, नासा अपि संस्कृतस्य उपयोगं कुर्वन्ति पाठयन्ति च इति राज्यपाल: अवदत्। इतोsपि कर्णाटकराज्ये मत्तूर् ग्रामस्य जना: दैनंदिनजीवने संस्कृतेन एव सम्भाषणं क्रियते, विश्वविद्यालयस्य छात्रसमूह: मत्तूर् ग्रामं द्रष्टव्यमिति सोsवदत्। अस्मिन् स्नातकोत्सव-कार्यक्रमे विश्वविद्यालयस्य उपकुलपति: विनोदकुमार:, संस्कृतविभागाध्यक्ष: सञ्जयदीक्षित: अन्ये आचार्या: च, भागं गृहीतवन्त:।
Subscribe to:
Posts (Atom)