OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Wednesday, December 21, 2016
Tuesday, December 20, 2016
पाम्पोर् भीकराक्रमणे वीरमृत्युं प्राप्तवद्भ्यः राष्ट्रस्य हृदयाञ्जलिः।
श्रीनगरम्> जम्मुकाश्मीरे पाम्पोर् मध्ये सञ्जाते भीकराक्रमणे वीरमृत्युं प्राप्तवद्भ्यः सैनिकेभ्यः राष्ट्रम् अन्त्याञ्जलिं समार्पयत्।शनिवासरे पाम्पोर् प्रदेशे श्रीनगर-जम्मु देशीयवीथ्यां सैनिकवाहनव्यूहं प्रति सम्पन्नेन भीकराक्रमणेन त्रयः सैनिकाः मृताः आसन्। केरलीयः कण्णूर् स्वदेशीयः रतीशः[३५], महाराष्ट्रीयः पूणे प्रदेशस्थः सौरभ् नन्दकुमारः[३३], झार्खण्डे धन्बाद् स्वदेशीयः शशिकान्त् पाण्डे च वीरस्वर्गम् उपगताः सैनिकाः।
सैनिकवृन्दस्य औद्योगिकश्रद्धाञ्जलिसमर्पणानन्तरं भौतिकशरीराणि स्वस्वराज्यं प्रति नीतानि।
सर्वकार-कार्यकर्तृृऋणाम् अनधिकृत धनस्य पुनस्वीकरणाय विचारः
तिरुवनन्तपुरम्- सर्वकारकार्यकर्तृृऋणाम् अनधिकृत धनस्य पुनस्वीकरणाय नयनिर्माणाय विचारः। सेवाप्रवेशावसरे आयत्तस्य पूर्णं रूपं व्यक्तीकर्तव्यमिति निर्णयस्य पश्चादस्ति नयनिर्माणस्य आलोचना। आगामि फेब्रुवर्यां आयोक्ष्यमाणे सामाजिकानां मेलने परिगणयितुम् अस्य लघुरूपं निर्मातुं मुख्यसचिवः श्री.पिणराई विजयः प्रधान निर्देशकाय एस्.एम् विजयानन्द् महोदयाय निर्देशः अयच्छत्। सर्वकारीय तथा तद्देशसंस्थानां एकादशलक्षाः कार्यरताः च अस्मिन् नियमपरिधौ आगच्छन्ति।
डो.धर्मराज् अटाट् संस्कृतविश्वविद्यालयस्य सहोपकुलपतिः।
Monday, December 19, 2016
ऐ एस् एल् पादकन्दुकस्पर्धा - कोल्कोत्तायै किरीटम्।
कोच्ची> ऐ एस् एल् पादकन्दुकस्पर्धा - कोल्कोत्तायै किरीटम्।
कोच्ची - गर्जन्तं पीतसागरं निश्शेषं पीत्वा अत्लटिको डि कोल्कोत्ता सङ्घः ऐ एस् एल् पादकन्दुककिरीटं शिरसि धृतवान्। कोच्ची जवहर् लाल् नेहरू अन्ताराष्ट्रक्रीडाङ्कणे सम्पन्नायां अन्तिमस्पर्धायां पञ्चाशत्सहस्राधिकैः पीतवस्त्रधारिभिः केरला ब्लास्टेर्स् आराधकैः सम्पूर्णसहयोगे कृते अपि अन्तिमविजयः कोल्कोत्तादलं प्राप्तवान्।
निश्चितसमये एकैकं लक्ष्यकन्दुकं प्राप्य दलद्वयमपि समस्थितौ आसीत्। ततः अर्धहोरायाः अधिकसमये अपि तत्स्थितिम् अनुवर्त्य शरव्यप्रक्षेपणं [Shoot out] नीतम्। तत्र ४-३ इति लक्ष्यकन्दुकविन्यासेन केरल ब्लास्टेर्स् दलं पराजित्य अत्लटिको डि कोल्कोत्ता दलेन विजयकिरीटं प्राप्तम्।
कनिष्ठवर्गीया विश्वहॉकीचषकस्पर्धा
नवदिल्ली >भारतेन 15 वर्षानन्तरं जूनियर इति कनिष्ठवर्गीया विश्वहॉकीचषकस्पर्धा विजिता । लखनऊ-नगरस्य मेजरध्यानचंदराष्ट्रियक्रीडांगणे निर्णायकस्पर्धायां भारतेन बेल्जियम: एकांकं विरुध्य अंकद्वयेेन पराभूय विजयश्रीरधिगता। भारतेन स्पर्धायाः अंकद्वयं क्रीडायाः प्रथमार्धभागे समर्जितम् । प्रथमगोलांकः गुरजंतसिंहेन द्वतीयश्च सिमरनजीतसिंहेन समर्जितः । इतः प्राक् 2001तमे वर्षे भारतीयक्रीडकदलेन अर्जेंटीनादेशं पराजित्य स्पर्धेयं विजितासीत् । Sunday, December 18, 2016
वर्धा प्रचण्डवातानन्तरं चेन्नै नगरं पुनःपुष्टिं प्राप्स्यते।
चेन्नै>विगते सोमवासरे प्रचण्डवातेन भग्नं चेन्नै नगरं प्रत्यागमनाय प्रयतते। वर्धा नामकेन प्रचण्डवातेन वर्षया च इतःपर्यन्तं अष्टादश जनाः मृताः आसन्। वाहनानि बहूनि विनष्टाः। रेल् राजमार्गाः वार्ताविनिमय-सुविधाः वैद्युती, सर्वमपि स्थगिताः किन्तु एते मन्दमन्दं प्रवर्तनक्षमतां यान्ति। सर्वे जनाः सर्वकार सेवकेभ्यः साकं नगर निर्माणाय प्रयत्नं कुर्वन्ति। विभिन्न राजनैतिक दलस्थाः विभिन्न धर्मानुयायिनः च विभिन्नतां विस्मृत्या यत्नं कुर्वन्ति।
नवदिल्ल्यां राज्यस्तरीया संस्कृत-वाद-विवाद-प्रतियोगिता
नवदिल्ल्यां 17.12.2016 तमे दिनांके बक्करवालास्थिले श्रीवेदव्यासगुरुकुले दिल्ली-संस्कृत-अकादम्या दिल्ली-प्रशासनद्वारा राज्यस्तरीया संस्कृत-वाद-विवाद-प्रतियोगिता समायोजिता । यस्यां राजधान्याः गुरुकुलीय छात्रैः सहाभागिता विहिता, प्रतियोगितायं केवलं संस्कृतभाषायामेव वाद-विवादः समाचरितः।
Saturday, December 17, 2016
संस्कृतविद्वांस: एव संस्कृतस्य महत्त्वम् ज्ञापनीया: -राजस्थानस्य राज्यपाल:।
जयपुरम्> राजस्थानराज्यस्य राज्यपाल: श्री कल्याणसिंह: शुक्रवासरे राजस्थानसंस्कृतविश्वविद्यालयस्य स्नातकोत्सवे भागं गृहीतवान्। अस्मिन् अवसरे विदुष: पृष्टवान् यत् विद्वांस: एव संस्कृतस्य महत्त्वम्, आवश्यकता च ज्ञापनीया: खलु? इति। विदेशीया: अपि संस्कृतभाषायां शोध: कुर्वन्ति। पाश्चात्यदेशा: बहुविस्तारेण संस्कृतस्य उपयोगं कुर्वन्ति । अमेरिका, इंग्लाण्ड, जपान् देशेषु वैदिकगणितं पाठ्यक्रमस्य भाग: भवति, नासा अपि संस्कृतस्य उपयोगं कुर्वन्ति पाठयन्ति च इति राज्यपाल: अवदत्। इतोsपि कर्णाटकराज्ये मत्तूर् ग्रामस्य जना: दैनंदिनजीवने संस्कृतेन एव सम्भाषणं क्रियते, विश्वविद्यालयस्य छात्रसमूह: मत्तूर् ग्रामं द्रष्टव्यमिति सोsवदत्। अस्मिन् स्नातकोत्सव-कार्यक्रमे विश्वविद्यालयस्य उपकुलपति: विनोदकुमार:, संस्कृतविभागाध्यक्ष: सञ्जयदीक्षित: अन्ये आचार्या: च, भागं गृहीतवन्त:।
Friday, December 16, 2016
शुल्कविभागेन सहस्रकोटिरूप्यकाणि सङ्गृहीतानि।
नवदिल्ली> राष्ट्रे मुद्रापत्रनिर्मूल्यीकरणानन्तरम् इतःपर्यन्तं सम्पन्नैः उपचत्वारिंशत् प्रत्यवेक्षणैः सहस्रकोट्यधिकमूल्ययुक्तानि मुद्रारूप्यकाणि वशीकृतानि इति आयकरविभागेन निवेदितम्। राष्ट्रे सर्वत्र आयकरविभागस्य अवेक्षणं तीव्रेण अनुवर्तते। कर्णाटक-गोवा प्रदेशेभ्यः इतःपर्यन्तम् अनधिकृतानि त्रिंशत् कोटिरूप्यकाणि संगृहीतानि। दिल्लीतः चतुष्कोटि रूप्यकाणां निर्मूल्यवत्कृतमुद्रापत्राणि गृहीतानि। चण्डीगढ्तः २.२०कोटिः, मुम्बई तः सपादैककोटिः, पूणैतः६७लक्षं, छत्तीस्गढ्तः १४लक्षं ,असम राज्यात् २५लक्षं राजस्थानतः११लक्षं रूप्यकाणि च संगृहीतानि।
सि बि ऐ संस्थया सिऐएस् एफ् संस्थया च विमानपत्तनेषु अपि अन्वीक्षणं क्रियते च।
धनपत्र निर्मूल्यीकरणं -जनपद-सहयोग वित्तकोशेभ्यः दयाचेतः नास्ति।
नवदिल्ली>धनपत्रस्य निर्मूल्यीकरणस्य अनुबन्धतया जनपद साह्य वित्तकोशेभ्यः सुविधा दातुं नशक्यते इति सर्वोच्च-न्यायालयेन उक्तम्। धन-विनिमयाय शीघ्रतरनिर्देशाय कृतमावेदनं न्यायालयेन निरस्तम्। नवम्बर् मासस्य दशमदिनाङ्कतः चतुर्दश दिन पर्यन्तं स्वीकृतं धनम् रिज़र्व् बैंक मध्ये पूरयितुमनुज्ञा सर्वकारेण दत्तमस्ति।जनपद सहयोग वित्तकोशेभ्यः वारद्वयं प्रतिपाल्य स्थातुं शक्यते वा इति च न्यायालयः अपृच्छत्। दिसंबर् ३० तः सर्वकारेण नियमेषु दयाचेतः भविष्यति तदा निवेदनं पुनरालोकयिष्ये इति च न्यायालयेन उक्तम्।
अङ्कीयधनविनिमयाय पुरस्कार: कोटिरूप्यकाणि
नवदिल्ली>धनपत्रसमस्या करणत: अङ्कीयधनविनिमयाय प्रोत्साहं दातुं केन्द्रियसर्वकार: द्वे योजने प्रारभ्स्यते । पञ्चविंशति दिसेम्बर् दिनाङ्कादारभ्य एप्रिल् चतुर्दश दिनाङ्कपर्यन्तं धनरूपेण प्रोत्साहका: दास्यन्ति। लक्कीग्राहक नाम एका योजना क्रेतॄणाम्, वणिजानां कृते डिजिधनव्यापारी योजना इति च नीति आयोगस्य सी.ई.ओ श्री अमिताब् कान्त: उद्घोषितवान् ।लक्की ग्राहक योजना द्वारा प्रतिदिनं पञ्चसहस्र-ग्राहकाणां सहस्ररूप्यकाणि, सप्ताहे सप्तसहस्र जनानां लक्षं रूप्यकाणि च दास्यन्ति। ’डिजिव्यापारीयोजना’ द्वारा सप्तसहस्र वणिजानां पञ्चाशत् सहस्ररूप्यकाणि दास्यन्ति । अन्तिमे लक्कीग्राहकयोजनायां त्रयाणां भाग्यजेतॄणां प्रथमस्य पञ्चाशत् लक्षं रूप्यकाणि,द्वितीयस्य कृते पञ्चविंशतिलक्षं रूप्यकाणि, तृतीयाय पञ्चलक्षं रूप्यकाणि च पुरस्कारवत् दास्यते।
राजवीथिनां पार्श्वे मदिराशालाः निरुद्धाः।
नवदिल्ली >राष्ट्रिय-राज्यकीयराजवीथिनां पार्श्वे अर्धकिलोमीटर् परिधौ मदिराविक्रयणशालानां प्रवर्तनं निरुध्य सर्वोच्चन्यायालयस्य आदेशः। आगामि संवत्सरस्य एप्रिल् प्रथमदिनाङ्कादारभ्य अनुशासितव्यम्।मार्गेषु मदिराशालानां प्रवर्तनं मार्गदुर्घटनावर्धकम् इत्यनेन कारणेनैव मुख्यन्यायमूर्तिः टि एस् ठक्कुरः, न्याय. डि वै चन्द्रचूडः, एल् नागेश्वर रावः इत्येतेषां खण्डपीठस्य आदेशः।
Thursday, December 15, 2016
रेक्स् टिलेर्सन् नूतनः यू एस् स्टेट् सेक्रट्टरी।
वाषिङ्टण् > विश्वस्य बृहत्मासु मृत्तैल-संस्थासु एका भवति मोबिल्। अस्याः प्रधान-कार्य नियन्ता रेक्स् टिलेर्सन् इदानीं यू एस् स्टेट्सेक्रटरी पदे नियुक्तः भविष्यति। रष्यायाः राष्ट्रपतेः व्लाटिमिर् पुटिनस्य मित्रभावेन वर्तितस्य टिलेर्सनस्य नियुक्ति निर्देशेन डोणाल्ड् ट्रम्पः विवादस्य अग्नेः ज्वालनंकृतवान्। अधिकार-श्रेण्यां द्वितीयं स्थानंभवति सेक्रटरी पदम्। राष्ट्रपतेः निर्वाचन-समये ट्रम्पम् अनुकूल्य रष्यायाः निलीन प्रयत्नः आसीत् इति दुरारोपणम् अधुनापि शक्तया तिष्ठन् अस्ति। किन्तु वस्तुतया टिलेर्सः जेब्बुष् नामकाय अनुकूलतया तिष्ठन् आसीत् इति हास्यमुद्पादयति।
केरलाब्लास्टेर्स् अन्तिमपादे।
नवदिल्ली> ऐ एस् एल् पादकन्दुकस्पर्धायाम् अत्लटिको डि कोल्कत्तां विरुध्य केरला ब्लास्टेर्स् अन्तिमस्पर्धां करिष्यति। नवदिल्ल्यां सम्पन्ने उपान्त्यस्पर्धायाः द्वितीयपादे दिल्ली डैनामोस् दलं शरव्यप्रक्षेपद्वारा [Shoot out ] ३-० इति लक्ष्यकन्दुकविन्यासेन पराजित्य एव ब्लास्टेर्स् दलम् अन्तिमपादं प्राविशत्। रविवासरे कोच्ची मध्ये अन्तिमस्पर्धा भविष्यति।
आगामि संवत्सरे नीट् परीक्षा प्रादेशिक भाषासु अपि ।
नवदिल्ली > आङ्गल-हिन्दीभाषाभ्यां विना षट्सु प्रादेशिकभाषासु अपि आगामिसंवत्सरादारभ्य देशीयसाङ्केतिकविज्ञानप्रवेशपरीक्षा [नीट्] चालयिष्यतीति केन्द्रमन्त्रिणा प्रकाश् जावदेक्करेण उक्तम्। इदानीम् आङ्गल- हिन्दीभाषयोः परीक्षा प्रचाल्यते।प्रादेशिकभाषासु अपि परीक्षा चालनीया इति राज्यसर्वकाराणां निवेदनमनुसृत्यैव अयं निर्णयः इति सूच्यते। तमिळ् तेलुगु मराठी असमीस् बङ्गाल गुजराती इत्येतासु भाषास्वपि परीक्षा भविष्यन्ति।
दिव्याङ्गानां सार्वत्रिक-परिचयपत्रम् – प्रधानमन्त्री।
नवदिल्ली>
भारतेदेशे २.७ कोटिजना: दिव्याङ्गजना: सन्ति। दिव्याङ्गेभ्यः सर्वेभ्यः
विविधानि प्रयोजनानि प्राप्तुं ऐदम्प्राथम्येन सार्वत्रिक परिचयपत्रं
दातुं सर्वकारेण निर्णय: स्वीकृत:। आगामि जनवरि मासे प्रधानमन्त्रिणा
नरेन्द्रमोदिना अयं कार्यक्रम: प्रारप्स्यते। परिचय पत्रे अस्मिन् अष्टादश
सङ्ख्या: भवन्ति। सङ्ख्यायां जन्मदिनाङ्क:, राज्य:, जनपद:,
वैकल्याङ्गानुसारेण सङ्केत-सङ्ख्या च अन्तर्भवन्ति । प्रतिशतं चत्वारिंशत्
संख्यातः (४०%) न्यूनं वैकल्यं भवति चेत् श्वेतवर्णपत्रं, चत्वारिंशत्
संख्यातः अघिकं वैकल्यं भवति चेत् पीतवर्णपत्रं, अशीत्यधिकं (८०%) भवति
चेत् धूम्रवर्णपत्रं च यच्छति । आधार-पत्रस्य आधारेण एव इमानि पत्राणि
यच्छन्ति।
संस्कृत-भाषायाः रक्षाकर्तृत्वं जर्मनी राष्ट्राय भविष्यति।
बेर्लिन्>यद्यपि भारतीयैः त्यक्तं तथापि जर्मन् राष्ट्रे संस्कृतस्य अतीव स्वीकारः। विना विलम्बमेव भाषायाः अस्याःरक्षाकर्तृत्वं जर्मनी राष्ट्रे एव भविष्यतीति भाषाशात्रज्ञानां मतम्। जर्मनी राष्ट्रे चतुर्दश सर्वकारेतर विश्वविद्यालयेषु संस्कृतं पाठयति। पाठ्यक्रमेषु छात्राणां सम्मर्दाधिक्येन हेय्डलबर्ग् विश्वविद्यालयस्य स्वौत् एषिया संस्थया स्विट्सर्लण्ड् इट्टली किमधिकं भारते अपि संभाषणसंस्कृतपाठनाय विद्यालयाः आवश्यकाः इति दशा संजाता।
भारतीय उपभूखण्डस्य संस्कृतिः पैतृकं भाषा इत्यादीन् पाठयतस्य इण्डोलजी इति पाठ्यक्रमस्य जर्मनी राष्ट्रे अतीव स्वीकारः वर्तते। पञ्चदशवर्षात् पूर्वं अस्याः संस्थायाः आरंभे यद्यपि वर्षद्वयाभ्यन्तरे बन्धनाय निर्णीतः तथापि इदानीं यूरोप्यन् राष्ट्रेषु अपि पाठ्यक्रमाणां व्यापनमावश्कमिति विश्वविद्यालयस्य प्रो.डो.अलक्स् मैक्लक्स् वदति। संस्कृतभाषां धर्मेण तथा राजनैतिकविचिन्तनैः सह योजनं विवेकशून्यं तथा अस्याः समृद्धं पैतृकं गणनीयमित्यपि सः अभिप्रैति।Wednesday, December 14, 2016
वेनस्वेलराष्ट्रे आपि धनपत्रस्य निर्मूल्यीकरणम् - अतिमूल्यधनपत्रं प्रतिनिवर्तितम्।
कराक्कस् > वेनस्वेलराष्ट्रस्य सामूहिकाशयस्य प्रवक्ता इति सुज्ञातः राष्ट्रपतिः भवति निकोलास् मडुरो। तेन महोदयेनापि स्वस्य राष्ट्रस्य अतिमूल्यधनपत्रं शतं बोलीवर् निर्मूल्यीकृतम् । अलीकधन-सञ्चयने उत्सुकानं दण्डनमुद्दिश्य एवायं निशिदादेशः इति राष्ट्रपतिना उक्तम्। निर्मूल्यीकृतानां धनपत्राणां द्विशत गुणितं मूल्ययुक्तं नाणकानि धनपत्राणि च विलम्बं विना वितीर्यन्ते इति च मडुरो महोदयेन उक्तम्। अन्ताराष्ट्रमुल्य-निर्णये शतं बोलिवर् इत्यस्य त्रीणि यू एस् सेन्टस्य अधः एवमूल्यम् । राष्ट्रपतेः दूरदर्शन-कार्यक्रमे आसीत् अस्याः प्रख्यापनम्। राष्ट्रस्य आर्थिक समस्या परिहाराय एव अयं मार्गः स्वीकृतवान् इति च तेनोक्तम्।
वर्धा प्रचंडवातेन हतानां संख्या अष्टादश अभवत्।
चन्नै> मृतानां कुटुम्बाय लक्षचतुष्टयं दस्यते इति तमिळ् नाटुमुख्यमन्त्रिणा ओ पनिर् सेल्वेन उक्तम्। वर्धा प्रचंडवातस्य ताण्डवेन अष्टादश जनाः इतःपर्यन्तं मृताः।
Subscribe to:
Posts (Atom)