सोपानम्-18 Niranjana J, Saraswati Vidyaniketan, Chengamanad.
OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Wednesday, November 2, 2016
नवदेहली >आकाशवाण्याः राजधानीवाहिनी-द्वारा ''संस्कृत-सौरभम्'' इति नाम कार्यक्रमस्य प्रक्षेपणं करिष्यते। नवम्बर-मासस्य पञ्चमदिने रात्रौ सार्धनववादने प्रक्षेपणं करिष्यते । कार्यक्रमः 666 आवृत्तौ श्रोतुं शक्यते। अस्मिन् कार्यक्रमे काव्य-पाठ: संस्कृत-पत्रकारितायाः वर्तमानां अवस्थाञ्च अधिकृत्य श्रोतुं शक्यते। डॉ. ऋषिराजपाठक:, संस्कृत-वाणी इति पाक्षिक-पत्रस्य मुख्यसम्पादिका श्रीमती लक्ष्मी शर्मा चात्र सहभागिनौ स्त:। वरिष्ठः वार्तावतारकः संस्कृतपत्रकारसंघस्य वरिष्ठ-सचिवः तथा सम्प्रतिवार्ता- नामिकया अन्तर्जालपत्रिकया अारब्धस्य अॉन्लाईन्- पत्रकारिता-पठनवर्गस्य निदेशकः इत्यादि-स्थानेषु विराजमानः डॉ. बलदेवानन्दसागरः कार्यक्रमस्य मुख्य-नियन्ता भविष्यति।
भारतसीमायां पाकिस्थानस्य शुक्तिकास्त्राक्रमणम् - अष्ट मरणानि।
जम्मु> भारत-पाक् नियन्त्रणरेखायां द्वयोः राष्ट्रयोः सैनिकैः परस्परं महत् शुक्तिकास्त्राक्रमणं कृतम्। किमपि प्रकोपनं विना पाकिस्थानेनैव आक्रमणम् आरब्धम्। अष्ट भारतग्रामीणाः मारिताः। भारतेन कृते प्रत्याक्रमणे द्वौ पाक् सैनिकौ मृतौ। नौषेरा प्रविश्यायामेव भारतस्य प्रत्याक्रमणं संवृत्तम्। जम्मु-काश्मीरमण्डले अनुवर्तमाने पाकिस्थानस्य आक्रमणे प्रदेशवासिनां व्यापादने च मुख्यमन्त्रिणी मेहबूब् मुफ्ती आशङ्कां दुःखं च प्रकाशितवती। Tuesday, November 1, 2016
तुलावर्षा समागता।
अनन्तपुरी> दक्षिणभारते तुलावर्षः इति कथ्यमानः उत्तरपूर्ववर्षाकालः समागत इति पर्यावरणनिरीक्षणकेन्द्रेण निगदितम्। गतदिने तमिल् नाट् आन्ध्राप्रदेशयोः तीरेषु वर्षामेघाः संप्राप्ता इति स्थिरीकृतम्। अयं वर्षः संतृप्तमानकेन लप्स्यते इति प्रतीक्षा वर्तते तथापि केरले सामान्येन न्यूनः स्यादिति पर्यावरणकेन्द्रस्य गणना। दक्षिण-पश्चिमकालवर्षः [मण्सूण्] राष्ट्रे साधारणमानकेन लब्धमासीत् तथापि केरले प्रतिशतं ३४ मानकस्य न्यूनता अभवत्। तुलावर्षस्य विषये अपि एषा स्थितिः अभविष्यत् तर्हि राज्यं रूक्षाम् अनावृष्टिं प्राप्स्यति।
केरळाय षष्ठिपूर्तिः।
कोच्ची > देवस्य स्वकीयं स्थानमिति प्रथामवाप्तं केरळराज्यम् अद्य षष्ठिपूर्तिः आघुष्यते। भारतस्य स्वतन्त्रता प्राप्त्यनन्तरं भाषाणाम् आधारेण राज्यपुनःसंघाटने प्रवृत्ते तिरुवितांकूर्-कोच्ची-मलबार् नामकाः तत्कालीनाः लघुदेशाः सम्भूय केरळम् इति नवीनं राज्यं प्रादुरभूत्। १९५६ नवम्बर् प्रथमे दिने आसीत् केरळस्य उदयः। मलयाळं मातृभाषया स्वीकृतम्।
Monday, October 31, 2016
राष्ट्रिय-एकता-दिवस:
नवदेहली >अद्य देशस्य प्रथमगृहमन्त्रिणः सरदारवल्लभभाईपटेलस्य चतुर्दशोत्तरैकशततमीं जयंतीमुपलक्ष्य अशेषदेशेे राष्ट्रिय-एकता-दिवस: आमान्यते । ऐषमः 'राष्ट्रिय-एकता-दिवसावसरे ''भारतस्य एकीकरणम् '' विषयमधिकृत्य सांस्कृतिककार्यक्रमानामायोजनं भविष्यति | प्रधानमन्त्रिणा नरेन्द्रमोदिना,गृहमन्त्रिणा राजनाथ सिंहेन केन्द्रीयसूचनाप्रसारणमन्त्रिणा एम. वेंकैयानायडूना च नवदिल्लीस्थ पटेलचौकस्थाने सरदारवल्लभभाईपटेलस्य प्रतिमायां कुसुमश्रद्धाञ्जलयः समर्पिताः।
उपग्रहविक्षेपणे नूतनचरितं विरच्य इस्रो
नवदेहली > एकस्मिन् आकाशबाणे ८३ उपग्रहान् संस्थाप्य उपग्रह विक्षेपणे नूतनचरितं निर्मातुम् उद्युक्तः भवति ऐ.एस्.आर्.ओ संस्था। एतदर्थं नूतनी योजना आयोजिता इति अस्याः संस्थायाः नियन्ता राकेष् शशिभूषणः अवदत् ।
आगामि संवत्सरे क्रियमाणे प्रथमे विक्षेपणे एकाशीति (८१) वैदेशिकोपग्रहाः द्वौ भारतोपग्रहौ च भवन्ति। सप्तदशाधिक विंशतिशत तमे जनुवरिमासे विक्षेपणीया इत्येव लक्ष्यम् । अस्मिन् विक्षेपणे अधिकाः सूक्ष्मोपग्रहाः एव।
येशुदेवस्य समाधिस्थानम् अनावृतम्।
जरुसलेम् > येशुदेवस्येति विश्वास्यमानं समाधिस्थानं शताब्देभ्यः परम् अनुसन्धानार्थम् अनावृतम्। पुरातने जरुसलेमे पुनरुत्थृतदेवालये एव येशुदेवस्य अन्त्यविश्रान्तिस्थानं वर्तते। आतन्से विद्यमानः साङ्केतिक विश्वविद्यालयः नेषणल् जियोग्रफिक् सोसईटी इति संस्था च सम्भूय एव पर्यवेषणं कर्तुं निरचिनोत्।
षट्विंशत्यधिकत्रिशततमे क्रिस्त्वब्दे रोमासाम्राज्यस्य चक्रवर्तिनः कोण्स्टन्टयिन् इत्यस्य मात्रा समाधिस्थानं प्रथमं सन्दृश्यते स्म। अग्निबाधायां विशीर्णं स्थानं १८०८-१८१० काले पुनरुद्धृतम्।
येशुदेवं शायितमिति विचार्यमाणं प्रतलं शास्त्रीयपठनविधेयं करिष्यति।
Sunday, October 30, 2016
क्रिकट् - भारतस्य विजयः, परम्परा च।
विशाखपत्तनम्> न्यूसिलान्टं विरुद्ध्य पञ्चमी अन्तिमा च स्पर्धा भारतानुकूला। न्यूसिलान्टं विरुद्ध्य नवत्यधिकशतानां धावनाङ्कानाम् उज्वलविजयः। पञ्चस्पर्धानां परम्परा ३-२ रीत्या भारताय प्राप्ता। स्पर्धायाः प्रथमचरणे कन्दुकताडनं लब्धेन भारतदलेन २६९ धावनाङ्काः प्राप्ताः। तदनन्तरं विजेतुं २७० धावनाङ्कानां लक्ष्यं प्राप्तुं कन्दुकताडनम् आरब्धवन्तः किवीदलक्रीडकाः सर्वे केवलं ७९ धावनाङ्कैः बहिर्गतवन्तः। षड् पर्यासेषु अष्टादश धावनाङ्कान् दत्वा भारतस्य पादचक्रगेन्दकः - लेग् स्पिन्नर्-अमित् मिश्रः पञ्च द्वारकाणि पातयित्वा वरिष्ठक्रीडकपदं प्राप्तवान्।
Saturday, October 29, 2016
सोपानम् -17 Sivani Harikumar Saraswati Vidyaniketan, Chengamanad,Aluva.
भारतसैनिकानां कृते छात्राणां दीपावलि सन्देशा:।
नवदिल्लि > सीमायां सैनिकानां कृते दीपावलि सन्देशा: प्रेषणीयाः इति सन्देश् टु सोल्जियेल़स् नाम्ना वीडियोसन्देशेन भारतस्य प्रधानमन्त्री नरेन्द्रमोदि महोदय: आह्वानम् अकरोत् । एकैकः सन्देशः सैनिकानाम् आत्मबलं संवर्धयति इति प्रधानमन्त्री असूचयत् । मै गवण्मेन्ट डोट् इन् , आकाशवाणि , दूरदर्शन् आदि माध्यमा:,
सोष्यलमीडिया: च एतस्य कृते उपयोक्तव्याः इति स: निरदिशत्। राष्ट्रस्य कृते आत्मन: सुखम् उत्सवादय: च परित्यज्य समर्पित चेतसां सैनिकानामपि दीपावल्यादि पर्वणि भागभाक् कारयितुमासीदयं निर्देशः। निर्देशानुसारं राष्ट्रस्य विभिन्न राज्येभ्यः विद्यालय-छात्राः कलाशाला छात्राः च दीपावली पर्वणः शुभाशयाः सैनिकान् प्रति प्रेषितवन्तः।
भीकराक्रमणम् - कश्चित् सैनिकः वीरमृत्युं गतः।
श्रीनगरं> सैन्य भीकरसंघर्षस्य शमनं नास्ति। ह्यः कुपवारा जनपदे भीकरैः सह संघट्टने एकः सैनिको हतः। नियन्त्रणरेखासमीपे विरूपीकृत्य एव मृतदेहः दृष्ट इति सैनिकवक्तृभिः उक्तम्। सैन्येन कृते प्रत्याक्रमणे एको भीकरः हतः, अन्ये पाक् अधीनकाश्मीरं प्रति पलायितवन्तः। भीकराक्रमणं पाक्सैन्यस्य साहाय्येन आसीदिति भारतसैनिकैः निगदितम्। तथा च अनन्तनागजनपदे कश्चन विद्यालयः अज्ञातैः अग्निसात्कृतः। काश्मीरे संघर्षारम्भानन्तरं विध्वसीकृतानां विद्यालयानां संख्या २० अभवत्।
क्रिकट् - अद्य पञ्चमाङ्कः, अन्तिमाङ्कः।
विशाखपत्तनम् > अद्यतनस्य पञ्चमं एकदिनं यथा भारताय अभिमानयुद्धः भवति तथा न्यूसिलान्टाय चरित्ररचनायाः सन्दर्भः। इदानीं एकैकमपि दलं स्पर्धाद्वयं विजित्य समस्थितौ सति परम्परायाः विधिनिर्णय एव विशाखपत्तने सम्पद्यमाने पञ्चमेऽस्मिन् एकदिने भविष्यति। भारत-न्यूसिलाम्ट् दलयोः नायकयोः विषये अपि एषा स्पर्धा निर्णयाधारभूता भवति। किवीनायकः केय्न् विल्यंसणः भारते एकदिनपरम्परां स्वायत्तीकुर्वन् प्रथमः न्यूसिलान्ट् नायक इति प्रथा परिपालनीया अस्ति। भारतनायकः थोणिस्तु निषकस्पर्धापरम्परां निश्शेषं निश्शेषं स्वायत्तीकृतस्य विराट्कोलिनः पुरतः मुखसंरक्षणाय सुवर्णावसरः।
पाकिस्तानं प्रति शक्त्या प्रतिराद्धुं निर्देशः। काश्मीरदेशे अतीव जाग्रता ।
नवदेहली> पाकिस्तानं प्रति शक्त्या प्रतिरोद्धुकामा भारतसेना। गृहकार्य सचिवः राज्नाथसिंहः सीमारक्षासेना मुख्येन सह वार्तालापः अकरोत्।सीमाप्रदेशे पाकिस्तानः तीव्रं षेलाक्रमणम् अनस्यूततया चालयति।काश्मीरदेशे अतीव जाग्रता निर्देशः प्रदत्तः। पाक् सैनिकानां आक्रमणान्तरे भीकराणां दुरागमनश्रमं भारतेन निरुद्धम्।
ह्यः सायं पञ्चवादने आरब्धं प्रकोपनं इदानीमपि प्रचलति। प्रातः चतुर्विंशति सीमारक्षाकेन्द्रान् प्रति पाक् गोलकाक्रमणं अजायतेति प्रस्तावः। सीमादेशात् जनानां दूरानयनं कृतम्। द्विशतमीटर् दूरं यावत् अतीव जाग्रता निर्देशश्च अददात्।
तदानीमेव गोलकाक्रमणसमयः नैरन्तर्येण उल्लंघ्य पाक्किस्थाने कृतेन षेलाक्रमणेन काश्मीरस्य आर् एस् पुरा क्षेत्रे सीमारक्षाभटः एकः अवधत्।षट् ग्रामीणाः क्षतबाधिताः। मेन्दर मद्ध्ये अपि समानरीत्या आक्रमणम् अजायत। एकः अम्रियत।
Friday, October 28, 2016
सैनिकानां कृते दीपावलि सन्देशा:
नवदिल्लि > सीमायां सैनिकानां कृते दीपावलि सन्देशा: प्रेषयिष्यति इति सन्देश् ट्टु सोल्जियेल़स् नाम्ना वीडियोसन्देशेन भारतस्य प्रधानसचिव: नरेन्द्रमोदि महोदय: आह्वानम् अकरोत् । एकैकः सन्देशः सैनिकानाम् आत्मबलं संवर्धयति इति प्रधानसचिव: सूचयति । मै गवण्मेन्ट डोट् इन , आकाशवाणि , दूरदर्शन् आदि माध्यमा:, सोष्यलमीडिया: च एतस्य कृते उपयोक्तव्याः इति स: अवदत्। राष्ट्रस्य कृते आत्मन: सुखम् उत्सवादय: च परित्यक्त्वा समर्पित चेतसां सैनिकानामपि दीपावल्यादि पर्वणि भागभाक् कारयितुमुद्दिश्य भवत्ययं निर्देश:।
अद्य प्रथमं देशीय आयुर्वेददिनम्।
कोच्ची>आयुर्वेदाचार्यस्य धन्वन्तरिदेवस्य जन्मदिनमस्त्यद्य। इदं दिनम् अस्मात्संवत्सरादारभ्य देशीय अायुर्वददिनत्वेन आचरितुं केन्द्रसर्वकारेण निश्चितम्।
आयुर्वेदस्य प्रचारं प्रयोगं च संवर्धयितुमेव प्रतिसंवत्सरं धन्वन्तरिजयन्तिम् आयुर्वेददिनत्वेन आचर्यमाणस्य लक्ष्यम्। मधुमेहनियन्त्रणाय आयुर्वेद इत्यस्ति अस्य संवत्सरस्य सन्देशः।Thursday, October 27, 2016
चक्रवातः आन्ध्रातीरं प्रति ।
पेदपरिमि >वंगान्तस्समुद्रस्य उपरि सञ्जातः न्यूनमर्दः चक्रवातेन रूपान्तरं प्राप्य आन्ध्रातीरं सञ्चरति। क्यान्ट् इति कृतनामधेयः अयं चक्रवातः गुरुवासरे आन्ध्रातीरं प्राप्स्यतीति सूचना।आन्ध्राप्रदेशः, वंगदेशः, ओडीषा इत्येतेषु राज्येषु महती वृष्टिः भविष्यति। चक्रवातः प्रतिहोरं ८० कि मी. वेगं प्राप्स्यतीति पर्यावरणनिरीक्षणसंस्थया सूचितम्।
Subscribe to:
Posts (Atom)