कर्णाटकसङ्गीतज्ञः Mr. Chong Chiu Sen. Malaysia.
OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Monday, October 3, 2016
संस्कृतस्य वर्तमानचित्रं परिवर्तनमपेक्षते - चमू कृष्णशास्त्री।
संस्कृतं पारम्पर्यरीत्या प्रपठ्य नूतनसङ्केतान् उपयुज्य भाषायाः लोकव्यापनाय उत्साहमानः क्रियावान् पण्डितश्रेष्ठो भवति डो. जि गङ्गाधरन् नायर् महाशयः इति कृष्णशास्त्रिवर्येण उक्तम्। "अमानी मानदो मान्यः" इति भगवद्विशेषणानि तस्मिन्नपि अनुयुक्तमिति तेन प्रकीर्तितम्।
विश्वसंस्कृतप्रतिष्ठानस्य अमृतभारती विद्यापीठस्य च संयुक्ताभिमुख्ये प्रवृत्ते सप्ततिप्रणामसमारोहे प्रोफ.तुरवूर् विश्वम्भरः अध्यक्षपदमलंकृतवान्। श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य उपकुलपतिः डो. एम् सि दिलीप् कुमारः सुवर्णवस्त्रं धारयित्वा समादृतवान्। केसरी पत्रिकायाः भूतपूर्वमुख्यसम्पादकः एम् ए कृष्णः शुभाशंसां व्याहृतवान्।
Sunday, October 2, 2016
RN 17धीरसैनिकेभ्यः आदरसूचकं 'विज्ञाप्यचलनचित्रम्'।
नवदहली > भारतस्य धीरसैनिकेभ्यः आदरसूचकतया हीरो मोटोकोर्प् इति स्थापनेन निर्मितं विज्ञाप्यचलनचित्रं प्रचारं प्राप्नोति। हीरो मोटोकोर्प् संस्थायाः "हीरो सल्यूट्स् दि रियल् हीरोस्" इति विज्ञाप्यचलनचित्रम् अवतरणवैशिष्ट्येन समकालीनप्राधान्येन च प्रेक्षकहृदयानावर्जयति। भूतल-व्योम-नाविकसेनानाम् उद्योगस्थान् जनाः धीरतया अभिवादनं कृत्वा स्वीकुर्वन्ति इत्येव चलनचित्रस्य इतिवृत्तम्। स्वराष्ट्रं तथा राष्ट्रसंरक्षकान् सैनिकान् च प्रति भारतजनतायाः स्नेहादरौ चलनचित्रेऽस्मिन् व्यक्तौ भवतः।
RN18कावेरीजलविवादः- भूतपूर्वः प्रधानमन्त्री एच्.डि.देवगौडा उपवाससंग्रामम् आचरति।
बंगलुरु > कावेरी नदीजलतर्के परिहारतया उच्चतरन्यायालयेन कृते आदेशे प्रतिषेधं प्रकटय्य भूतपूर्वः प्रधानमन्त्री एच्.डि.देवगौडा अनिश्चितकालम् उपवाससंग्रामम् आचरति। कर्णाटकनियमसभायाः पुरतः एव समरः आरब्धः। उच्चतरन्यायालयादेशस्य प्रबलीकरणेन राज्यं कर्षकमरणानि अभिमुखीकुर्यात् इति सः सूचयति। तर्केऽस्मिन् परिहारमार्गान् आलोचयितुं कर्णाटकसर्वकारेण अद्य सर्वदलयोग: निश्चितः वर्तते।
RN19भारतेन सह ऐक्यदार्ढ्यं प्रख्याप्य मालिद्वीप् सार्क् मेलनात् प्रतिनिवृत्तिं न्यवेदयत्।
नवदहली > नवम्बर् मासे पाकिस्थाने निश्चितात् सार्क् मेलनात् मालिद्वीप् राष्ट्रमपि प्रतिनिवृत्तिं न्यवेदयत्। तथा प्रतिनिवर्तितानां राष्ट्राणां संख्या ६ अभवत्। उरी भीकराक्रमणात्परं भारतेन सार्क् मेलनं बहिष्क्रियते इति प्रख्यापितमासीत्। ततः परं बंगलादेश्, अफ्गानिस्थान्, श्रीलङ्का, भूट्टान् च मेलनबहिष्करणं प्रख्यापितवन्तः आसन्। ५ राष्ट्राणां बहिष्करणेन सार्क् मेलनस्य समयपरिवर्तनं पाकिस्थानेन ह्यः प्रख्यापितमासीत्। मेलनस्य नूतनदिनाङ्कः पश्चात् विज्ञाप्यते इत्येव पाकिस्थानस्य प्रतिकरणम् ।
RN20संस्कृतभाषापण्डितस्य डॉ.जि.गङ्गाधरन् नायर् महोदयस्य सप्ततिसमारोहः अद्य आघुष्यते।
Dr. G Gangadharan Nair |
संस्कृतशास्त्रग्रन्थेषु तथा रष्यन् भाषायाञ्च अगाधपण्डितः भवति डा.जि गङ्गाधरन् नायर् महोदयः। १९७९ तमे वर्षे अस्य महोदयस्य नेतृत्वे एव विश्वसंस्कृतप्रतिष्ठानम् संस्कृत-सम्भाषणशिबिरकार्यक्रमः आरब्धः। एतैः शिबिरै: लक्षाधिकाः जनाः संस्कृतसम्भाषणसामर्थ्यम् आर्जितवन्तः सन्ति।
शताधिकानां गवेषणप्रबन्धानां तथा संस्कृतव्याकरणचरितं, संस्कृतप्रबोधनं, संस्कृतसन्दीपनी इत्येतेषां ग्रन्थानां कर्ता भवति गङ्गाधरन् नायर् महोदयः। तृपूणित्तुरा संस्कृतकलालये व्याकरणविभागाध्यक्षः आसीत् अयं महाभागः। अधुना गङ्गाधरन् नायर् महोदयः कालटी श्रीशङ्कराचार्यसंस्कृतविश्वविद्यालयस्य कार्यविचारसभाङ्ग: भवति। पोण्डिच्चेरी फ्रञ्च् शिक्षाकेन्द्रस्य प्रयुक्तिपुरुषः, अमृतभारती विद्यापीठस्य संस्थानाध्यक्षः, चिन्मया इन्टर्नाषनल् फौण्डेषन् - शोधसंस्थान् इति केन्द्रस्य निदेशकसमितेः अध्यक्षः, शारदागुरुकुलस्य कुलपति:, सम्प्रतिवार्तायाः रक्षाधिकारी इत्येवं बह्वीनां संस्कृतप्रचारणपद्धतीनां कार्यनिर्वाहकः भवति अयं भाषापण्डितः। अपि च आधुनिकसाङ्केतिकमाध्यमैः आभारतं तथा विदेशराष्ट्रेषु च बहुभ्यः जनेभ्यः संस्कृतशास्त्रग्रन्थानधिकृत्य शिक्षणं ददात्ययं महोदय:।
पद्धत्यानुकूल्यभोक्तॄणां संख्यां रूप्यकसंख्यां च विना नाप्यन्यो वृत्तान्तो बहिगमयिष्यतीति धनमन्त्रिणा अरुण् जय्ट्लि वर्येण उक्तम्।
विः१६५,२५० कोटिरूप्यकाणां व्याजधनम् प्रकाशितम्।
नवदिल्ली>
केन्द्रसर्वकारेण पूर्वस्मिन् आयव्ययपत्रके प्रख्यापितायाः
अलीकधनप्रकाशनपद्धत्याः आनुकूल्येन ६४,७२५ जनाः ६५,२५० कोटिरूप्यकाणाम्
अलीकधनानि प्रकाशितवन्तः। एतादृशधनस्य प्रतिशतं ४५ भागः सर्वकाराय
लप्स्यते। नीतिन्यायव्यवहारेभ्यः अलीकधनिकानां मोचनाय केन्द्रसर्वकारेण
जूण् प्रथमे दिनाङ्के आरब्धा इयं पद्धतिः सेप्तम्बर् ३० दिनाङ्के
पर्यवसिता।पद्धत्यानुकूल्यभोक्तॄणां संख्यां रूप्यकसंख्यां च विना नाप्यन्यो वृत्तान्तो बहिगमयिष्यतीति धनमन्त्रिणा अरुण् जय्ट्लि वर्येण उक्तम्।
रविः२जयललितायाः स्वास्थ्यमधिकृत्य अभ्यूहः।
चेन्नै>शारीरिकास्वास्थ्येन
अप्पोलो आतुरालयं प्रविष्टायाः तमिल् नाट् मूख्यमन्त्रिण्याः
जयललितावर्यायाः स्वास्थ्यविषयमधिकृत्य अभ्यूहः प्रचलति। तस्याः
चिकित्सार्थं लण्टन् देशतः रिच्चार्ड् जोण् बियाल् नामकः भिषग्वरः आतुरालयं
प्राप्त इति ए ऐ ए डि एम् के दलस्य वरिष्ठनेता पन्टुट्टी रामचन्द्रः
अवदत्। तथा च तमिल् नाट् राज्यपालः विद्यासागररावः अप्पोलो आतुरालयं
प्राप्य जयललितां संदृष्टवान्।Saturday, October 1, 2016
भारतस्य प्रतिक्रिया - भीकरकेन्द्रेषु आकस्मिकाक्रमणम्।
नवदिल्ली > उरि भीकराक्रमणस्य सप्ताहद्वयाभ्यन्तरे भारतेन शक्ता प्रतिक्रिया कृता। पाक् अधीनकाश्मीरे सप्त भीकरपरिशीलनकेन्द्राणि विनाश्य अष्टात्रिंशत् भीकरान् यमपुरीम् अनयत्।स्थलसेनायाः उत्तरकमान्ड् विभागस्य नेतृत्वे रात्रौ आसीत् अप्रतीक्षिताक्रमणस्य प्रारम्भः। २५०चतुरश्रकिलोमीटर् परिमिते विस्तृतौ एव भारतसैन्यस्य आक्रमणम्। द्वौ पाकिस्थानसैनिकावपि आक्रमणे हतौ।
अनन्तरं सर्वकारेण सर्वदलसम्मेलनं कृत्वा सैनिकव्यवहारमधिकृत्य विशदीकृतम्। सर्वाणि राज्यनैतिकदलानि आक्रमणे सहयोगं प्रादर्शयन् च।
बीहारे सम्पूर्णमदिरानिरोधः उच्चन्यायालयेन निरस्तः।
पाट्ना> बीहारराज्ये नितीष्कुमारसर्वकारेण एप्रिल्मासादारभ्य प्रवृत्तिपथमानीतः सम्पूर्णमद्यनिरोधः पाट्ना उच्चन्यायालयेन निरस्तः। मदिरायाः निर्माण-विपणन- उपभोगाः सम्पूर्णतया निरोद्धुम् आविष्कृतः नियम एव निरस्तः। पौराय यदिष्टं तद्भोक्तुं पातुं च स्वातन्त्र्यं निराकरोति अयं नियमः इति नीतिपीठस्य निरीक्षणम्। बीहारविधानसभानिर्वाचनकाले नितीष्कुमारेण दत्तेषु वाग्दानेषु अन्यतम अासीत् सम्पूर्णमदिरानिरोधः। अधिकारप्राप्त्यनन्तरम् अयमादेशः जनैः सामान्यजनैः स्वीकृतश्च। किन्तु मदिराव्यापारिणः, मद्यनिर्मातरः इत्यादयः सर्वकारादेशं विरुद्ध्य नीतिपीठम् उपगतवन्तः आसन्।
R15 बृहस्पतेः उपग्रहे जलसान्निध्यम्।
वाषिङ्टण् - सौरयूथस्य बृहत्तमग्रहस्य बृहस्पतेः यूरोप्पाभिधेये उपग्रहे जलबाष्पगणानां सान्निध्यं दृष्टमिति 'नासा'! सौरयूथे जीवस्य नितराम् अनुकूलावस्था यूरोप्पायामिति शास्त्रज्ञानाम् अनुमानम्! नासासंस्थायाः ' दि हबिल् स्पेस्' दूरदर्शिन्या एव जलबाष्पकणाः दृष्टाः! एते बाष्पकणाः२०० कि.मी.यावत् उद्गम्य उपग्रहस्य उपरितलं प्रति वर्षन्तीति मन्यते! इदानीं यावज्जलसञ्याः भूसमुद्रेषु सन्ति ततो द्विगुणं जलम् उपग्रहसमुद्रेषु वर्तते! किन्तु एतत् अतिघनशैत्यसंयुतैः हिमफलकैः आवृतमस्ति! अतः एतान् बाष्पकणान् समाहर्तुं शक्यते चेत् हिमफलकानामधः विद्यमानस्य जलस्य सविशेषताः व्वच्छेत्तुं शक्यते इति गवेषकानां प्रत्याशा!Friday, September 30, 2016
नियन्त्रणरेखाम् अतिक्रम्य भारतस्य आक्रमणम्; ३८ भीकराः मृत्युमुपगताः।
डि जि एम् ओ रणवीरसिंहः वार्ता-सम्मेलने |
सूक्ष्मासूत्रणेन एव आसीत् सैन्यस्य प्रक्रिया। नियन्त्रणरेखायाः अन्तर्भागे किलोमीट्टर् त्रयं यावत् गत्वा आसीत् सैन्यस्य इयं प्रक्रिया। इमम् अधिकृत्य राष्ट्रपतिः प्रणाब् मुखर्जी, उपराष्ट्रपति: हामिद् अन्सारिः, भूतपूर्वप्रधानमन्त्री मनमोहनसिंहः, जम्मू-कश्मीरस्य मुख्यमन्त्री मेहबूबा मुफ्तिः प्रभृतयः ज्ञातवन्तः आसन्।
उद्योगमण्डलात् रूक्षगन्धः - छात्राः परिक्लान्ताः।
कोच्ची> केरळे एरणाकुलं जनपदे अम्पलमुकल् उद्योगमण्डले रूक्षगन्धव्यापनेन समीपस्थे अम्पलमुकल् सर्वकारीयविद्यालये छात्रसहितानाम् अनेकेषां शारीरिकास्वास्थ्यमजायत। त्रिंशत् छात्राः पञ्च अध्यापकाश्च आतुरालयं प्रवेशिताः। द्वौ छात्रौ अत्यासन्नविभागे स्तः।
ह्यः प्रभाते उपनववादने एव परिभ्रान्तजनका इयं दुर्घटना संवृत्ता। बि पि सि एल् कोच्ची रिफैनरी व्यवसायशालायाः फाक्ट् कोच्ची विभागस्य च मध्ये अयं विद्यालयः वर्तते। अन्तरिक्षे रूक्षगन्धे व्यापृते विद्यार्थिनः अवशाः बभूवुः। ततः ते आम्बुलन्सादिभिः वाहनैः तृप्पूणित्तुरायां आतुरालयं प्रवेशिताः।
Thursday, September 29, 2016
सविशेषपरिगणनापदं - भारतं पुनर्विचिन्तने।
नवदिल्ली>दशकद्वयं यावत् भारतं पाकिस्तानाय दीयमानं सविशेषपरिगणनाराष्ट्रम् इति स्थानम् उपसंहर्तुं पर्यालोचना आरब्धा। उरि भीकराक्रमणस्य पश्चात्तले पाकिस्तानं विरुध्य विभिन्नतलेषु नयतन्त्रपदक्षेपान् शक्तीकर्तुम् एवायं चिन्तनम्।१९९६तमे संवत्सरे विश्वव्यापारसंस्थायाः गाट् सन्धिं परिगण्य एव एम् एफ् एन् इति सविशेषस्थानं ददौ।भारतेन सह पाकिस्तानमपि गाट् सन्धौ हस्ताक्षरम् विदधात्।
तथा च सिन्धुनदीजलसन्धिमपि निराकर्तुं भारतं विचिन्तयदस्ति। किन्तु नदीजलसन्धिनिरासः पाकिस्तानं प्रति युद्धप्रख्यापनमिति परिगणयेदिति पाकिस्तानवृत्तैः उक्तम्।
कावेरी - तमिळनाटु कृते ६००० क्यूसेक्स् परिमितं जलं दातव्यमिति सर्वोच्चन्यायालयः।
नवदिल्ली>तमिल् नाट् राज्याय शुक्रवासरपर्यन्तं प्रतिदिनं ६००० क्यूसेक्स् परिमितं कावेरीजलं दातव्यमिति कर्णाटकराज्यं प्रति सर्वोच्चन्यायालयः पुनरपि निरादिशत्। नीतिपीठस्य आदेशः कर्णाटकविधानसभया देयकद्वारा तरणं कृतः तथापि दिनत्रयं यावदपि जलं निर्गमयितुमेव निर्देशः।कावेरीविषये राजनैतिकपरिहाराय दिनद्वयाभ्यन्तरे राज्ययुगलस्य मुख्यमन्त्रिणोः मेलनम् आयोजयितुं केन्द्रसर्वकारं प्रति निरादिशत्।
Wednesday, September 28, 2016
सार्क् उच्चकोटिः भारतेन बहिष्क्रियते।
भीकरवादप्रोत्साहनपरः पाकिस्तानस्य पदक्षेपः भवति अस्य निश्चयस्य प्रेरणा इति तस्य राष्ट्रस्य नामोक्तिं विना विदेशमन्त्रालयेन स्पष्टीकृतम्। पाकिस्तानस्य उपरि आगोलप्रेरणाशाक्तीकरणमेव भारतेन लक्ष्यीक्रियते। सार्क् संस्थायां प्रमुखराष्ट्रं भवति भारतम्।
उन्नतकोटिं संप्राप्तुं अन्यानि कानिचन राष्ट्राण्यपि वैमुख्यं प्रकटितवन्तः सन्ति। बंग्लादेशः , भूट्टानः, अफ्गानिस्तानश्च अस्मिन् गणे सन्ति। नवम्बरस्य ९,१० दिनाङ्कयोरेव १९तमं सार्क् सम्मेलनं इस्लामबादे प्रचालनीयम्।
RN15 किं जोङ् उनस्य वधाय दक्षिणकोरियस्य पद्धतिः।
सोल् > उत्तरकोरियस्य स्वेच्छाधिपते: किं जोङ् उनस्य वधाय दक्षिणकोरिया पद्धतिं आविष्करोति इति सूचना। दक्षिणकोरियस्य प्रतिरोधसचिवेन एव विषयेऽस्मिन् विधानसभायां सूचना दत्ता। पद्धतेः पूर्तीकरणाय विशिष्टसेना अपि नियुक्ता इति तेन सूचितम्। शत्रुराज्यस्य आयुधसंविधानानि प्रधानकेन्द्राणि प्रधाननेतारं च हन्तुं पद्धतिः मार्गाः च सन्तीति प्रतिरोधसचिवः हान् मिन् कू विधानसभायाम् अवदत्। उत्तरकोरियेन वारद्वयं कृतम् आणवपरीक्षणमेव दक्षिणकोरियस्य नूतनासूत्रणं प्रति प्रधानं कारणम्।
RN13काश्मीरसमस्यायां विना प्रतिकरणं चैना।
बीजिङ् > काश्मीरसमस्याविषये चैनायाः सहयोगः पाकिस्थानाय वर्तते इति पाकिस्थानस्य माध्यमै: गतदिने सूचितमासीत्। किन्तु इमां वार्तां प्रति चैनायाः पक्षतः व्यक्तं प्रतिकरणं नैव लब्धम्। काश्मीरसमस्या भारत पाकिस्थानाभ्यां चर्चया परिहरणीया इत्येव चैनाया: विदेशकार्यवक्त्रा सूचितम्। काश्मीरविषये भारत पाकिस्थानयो: मध्ये युद्धः सञ्जातः चेत् चैना पाकिस्थानाय सम्पूर्णसहयोगं दास्यतीत्यैव पाक् माध्यमैः सूचितमासीत्। किन्तु माध्यमानां परामर्शोऽयम् अस्माभि: न ज्ञायते इत्येव चैनाया: विदेशकार्यवक्त्रा गेङ् षुवाङ् ह्यः अवदत्।
RN14५०० तमा निकषस्पर्धा-भारतविजय:१९७ धावनाङ्कै:।
कान्पूर् > भारतस्य ५०० तमनिकषस्पर्धायां भारतं १९७ धावनाङ्कैः न्यूसिलाण्टं पराजयत्। ४३४ धावनाङ्काः इति लक्ष्यं प्रति क्रीडामारब्धस्य न्यूसिलान्टस्य सर्वेऽपि क्रीडकाः २३६ धावनाङ्केषु बहिर्गताः। भारताय अश्विनः ६ घटकग्रन्थीः प्राप्तवान्। न्यूसिलान्ट् क्रीडकेषु ८० धावनाङ्कान् प्राप्तवान् लूक् रोञ्जी एव उन्नतः। स्पर्धायाः उत्तमक्रीडकाय पुरस्कारः भारतस्य रवीन्द्रजडेजया प्राप्तः। तथा च भारतं निकषस्पर्धापरम्परायां १-० इत्यनुपाते अग्रे वर्तते।Tuesday, September 27, 2016
RN 10पारीस् उभयपक्षनिर्णय: गान्धिजयन्त्याम्।
कोष़िक्कोट् (केरलम्) >
आगोलतापननियन्त्रणात्मकः पारीस् सन्धिः महात्मागान्धिनः जन्मदिने ओक्टोबर्
द्वितीयदिने साक्षात्क्रियते इति प्रधानमन्त्री नरेन्द्रमोदी। भाजपा दलस्य
देशीयनिर्वाहकाधिवेशने एव प्रधानमन्त्रिणः इदं प्रख्यापनम्।
प्रकृतिविभवानाम् अमितोपयोगः अस्मान् नाशमुखमेव नयति, भौमतापस्य २ एककात्
वर्धनं प्रतिरोद्धुमेव विश्वराष्ट्राणां अधुनातनचिन्ता, २ एककात् उपरि
भौमतापवर्धनं भारतस्य समुद्रतीरप्रदेशान् प्रतिकूलतया बाधते-
प्रधानमन्त्रिणा सूचितम्। अतः विना विलम्बं भारत-पारीस् सन्धिः
गान्धिजयन्तीदिने एव साक्षात्क्रियते इति मोदी अवदत्।
RN11'मिका' परीक्षणं विजयप्रदम्।
नवदहली > प्रतिरोधमण्डलस्य प्रबलीकरणाय 'मिका' अपि। आकाशात् विक्षेपणयोग्य: दीर्घदूरक्षेपणायुध: 'मिका' भारतेन परीक्षितः। परीक्षणमिदं विजयप्रदम् आसीदिति प्रतिरोधमन्त्रालयेन सूचितम्। क्षेपणायुध: लक्ष्यस्थानं प्राप्य कृत्यनिर्वहणमकरोत् इत्यपि मन्त्रालयः विशदयति। मिराष्-२००० विमानादेव मिका क्षेपणायुध: परीक्षित:। राफेल् युद्धविमानादपि अस्य परीक्षणं साध्यमिति मन्त्रालयः सूचयति।
RN12उरी भीकराक्रमणम् - एकः सैनिकोऽपि मृतः।
श्रीनगर् > उरी सैनिककेन्द्राक्रमणे व्रणितेषु सैनिकेषु एकोऽपि मृतः। तथा भीकराक्रमणेन वीरमृत्युं प्राप्तानां सैनिकानां संख्या १९ अभवत्। ओडीषा नुवपाडा स्वदेशी पिताबस् मज्हि (३० वयः) एव मृतः। २००८ तमे वर्षे एव मज्हि बि एस् एफ् मध्ये राष्ट्रसुरक्षायै भागभाक् अभवत्।
PS1अखिलभारतीय-आयुर्विज्ञानसंस्थानस्य (AIMS) हीरकजंयत्युत्सवः आमानित:
नवदिल्ली>नवदिल्लीस्थे अखिलभारतीयायुर्विज्ञानसंस्थानस्य हीरकजयंती समारोहावसरे केन्द्रीय-स्वास्थ्य-परिवार-कल्याणमंत्री जे पी नड्डा प्रत्यपादयत् यत् विगतषष्टिवर्षेषु अनेन संस्थानेन गुणवत्तायुक्त-स्वास्थ्यसेवासु महत्वपूर्णयोगदानं विहितम्। संस्थानेन सर्वदैव शिक्षाक्षेत्रे उच्चतममानकाः प्रतिष्ठापिताः। संस्थानस्य ९ केन्द्राणि ५२ शिक्षणविभागा: अष्टशताधिक-शिक्षकान् समेत्य दससहस्राधिक-कार्मिकाश्च परिश्रमेण स्वास्थ्यक्षेत्रे योगदानं प्रयच्छन्ति । चिकित्साक्षेत्रे शोधप्रकाशनेषु जगतः शीर्षचिकित्सासंस्थानेषु अखिलभारतीयायुर्विज्ञानसंस्थानस्य तृतीयस्थानं विद्यते ।Monday, September 26, 2016
उरि भीकराक्रमणं न विस्मर्तव्यं , न क्षन्तव्यम् - प्रधानमन्त्री।
कोष़िक्कोट् > उरि भीकराक्रमणविषये शक्तया भाषया पाकिस्तानं प्रति भारतस्य अनुशासनम्। अष्टादशधीरभटानां व्यापादनं भारतेन न विस्मर्तव्यं तथा न क्षन्तव्यम्। यथासमयं प्रत्युत्तरं दातुं भारतं शक्तं भवति। सैनिकानां बलिदानं न व्यर्थं भवेत्। आतङ्कवादस्य निर्गमनं कुर्वतः पाकिस्तानस्य पुरतः भारतं भीरुत्वं न प्रदर्शयिष्यतीति भारतप्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्।भाजपादलस्य देशीय परिषदः सम्मेलनं कोष़िक्कोट् सागरतीरे उद्घाटनं कुर्वन् भाषमाणः आसीत् मोदिवर्यः। उरि घटनानन्तरम् अस्मिन् विषये सार्वजनीनवेदिकायां प्रधानमन्त्रिणः प्रथमं प्रतिकरणमासीदिदम्।
५००-तमा निकषस्पर्धा-भारतं विजयतीरे।
कान्पूर् > ५००-तमनिकषस्पर्धायां भारतं विजयतीरं प्राप्नोति। स्पर्धायां भारतस्य विजयाय ६ द्वारकाण्येव अपेक्षितानि। निकषस्पर्धायाः चतुर्थदिने न्यूसिलाण्ट् ९३-४ इति भवति। ४३४ इति बृहद्विजयलक्ष्यं प्राप्तुं वल्लनमारब्धस्य न्यूसिलाण्टस्य प्रमुखाः क्रीडकाः बहिर्गताः इत्येतत् भारतप्रतीक्षां वर्धयति। भारताय अश्विनेन ३ द्वारकाणि प्राप्तानि। पूर्वं भारतेन द्वितीयमिन्निङ्स् ३७७-५ इति पर्यवसितम्। भारतस्य कृते विजयः, पूजारा, रोहित् शर्मा, जडेजा च अर्धशतकं प्राप्तवन्तः।
Subscribe to:
Posts (Atom)