OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, July 15, 2016

कृष्णधनम् - लक्षत्रयाणाम् उपरि विनिमयः निवारणीयः इति SIT
नवदिल्ली > कृष्णधनस्य निर्व्यापनमुद्दिश्य नूतननिर्देशान् समर्प्य अन्वेषण सङ्घः। विनिमयाय लक्षत्रयम्, हस्ते स्थापनाय पञ्चदश लक्षम् च परिधौ भवतः। इदानीं जनाः धनं गृहेषु पालयन्ति इति भूतपूर्व - न्यायाधीशेन एन् .बि .षा महोदयेन उक्ततम्। एतदधिकृत्या सर्वोच्च न्यायालये  पठनपत्रम् समर्पितम् । अधिकं धनं स्वपार्श्वे पालयितुम् इच्छुः आयकर विभागतः अनुमतिः स्वीकरणीयः इत्यपि व्यवस्था स्वीकरणीया इत्यपि निर्देशः पठनपत्रे अस्ति।

दिल्ल्यां मोहल्ला स्वास्थ्यकेन्द्राणि लोके सर्वत्र चर्च्यन्ते। 
नवदिल्ली > अरविन्द् केज्रिवाल् सर्वकारेण दिल्याम् आरब्धानि मोहल्ला इति स्वास्थ्यसेवनकेन्द्राणि राजधानिनिवासिभ्यः बहुभ्यः  निष्किञ्चनविभागेभ्यः आश्वासप्रदानि भवन्ति। शताधिकानि केन्द्राणि दिल्ल्यां सर्वत्र प्रवर्तन्ते। निश्शुल्कप्राथमिकपरिशोधना तथा आधारचिकित्सा रसक्रियाशोधना  न्यूनतममूल्ये औषधानि च अत्र लभन्ते। एतादृशानि स्वास्थ्यकेन्द्राणि न केवलं भारते किन्तु लोके सर्वत्र प्रसिद्धिमाप्नुवन्ति। वाषिङ्टण् पोस्ट् , चिक्कागो ट्रिब्यूण् , एन् डि टि वि , इ पि डब्ल्यू इत्यादयः माध्यमाः एतां पद्धतिम् आशंसन्ते स्म।

केरळे महानगरेषु डीसल् त्रिचक्रिकाणां निरोधः। 
कोच्ची - केरळे तिरुवनन्तपुरं कोच्ची कोष़िक्कोट् महानगरेषु इतःपरं नवीनाभ्यः  डीसल् तैलत्रिचक्रिकाभ्यः अनुमतिः न दातव्येति राज्यस्य यन्त्रवाहनविभागः सर्वकारं प्रति निरदिशत्। वर्तमानाः डीसल् त्रिचक्रिकाः क्रमानुगतेन एल् पि जि , सि एन् जि  इन्धनं प्रति परिवर्तनं करणीयाः इति च निर्देशः कृतः।
  डीसल् यानानि अधिकतया धूमेन वायु मलिनीकरणकारणानि इत्यतः एवायं परिष्कृतिः इति गतागतायोगकेन टोमिन् जे तच्चङ्करिणा उक्तम्।

आभारतं गङ्गाजलं पत्रालयद्वारा। 
कोच्ची > भारतस्य दक्षिणान्तेषु केरळेषु अपि पवित्रं गङ्गाजलं पत्रालयद्वारा अद्य आरभ्य गृहं प्राप्नोति। राष्ट्रव्यापकेण चितैः ८०० पत्रालयैः गंगाजलवितरणाय केन्द्रसर्वकारस्य पद्धतिः भवत्येषा।  ऋषिकेशः गंगोत्री स्थानाभ्यां संभृतं गंगाजलमेव वितरति। २०० मि.लि. , ५००मि.लि. परिमाणेषु पलास्तिक कूप्येषु एव वितरणयोग्यं जलं प्राप्तमस्ति।

Thursday, July 14, 2016

रियो ओलिम्पिक्स् - भारतस्य ४x४०० मीट्टर् वनिता रिले सङ्घाङ्गाः प्रख्यापिताः।

नवदिल्ली > रियो ओलिम्पिक्स् स्पर्धायाः कृते भारतस्य ४x४०० रिले गणेषु वनिता अङ्गानां नाम प्रख्यापितः। टिन्टु लूक्क, अनिल्डा तोमस्  , जिस्ना मात्यु प्रभृतयः गणे अन्तर्भवन्ति । अनु राघवः परित्यक्ता च।

48 बालकर्मकराः मोचिताः।
हैदराबाद् > मैलार देवप्पल्ली देशस्थ मधुरक  निर्माणशालातः अष्ट चत्वारिंशत् (४८) बालिका बालकाः मोचिताः। दुरित पूर्णायाम् आवास व्यवस्थायां पीडिताः एते आरक्षकैः बालरक्षासंस्थया च रक्षिताः। तत्रत्येषु एकचत्वारिंशत् बालिकाः सप्तदशबालकाः च आसन्I तमिळ् नाट् आन्ध्रदेशीयाः भवन्ति एते। निर्माणशाला स्वामिनं विरुद्ध्य दण्डव्यवहारः स्वीकृतःI

 अरुणाचले राज्यपालेन भ्रष्टः सर्वकारः न्यायालयेन प्रत्यानीतः।
नवदिल्ली >अरुणाचलप्रदेशे षण्मासेभ्यः पूर्वं कोण्ग्रस्दलसर्वकारं स्थानभ्रष्टं कृतं राज्यपालस्य क्रियाविधिः सर्वोच्चन्यायालयेन निरस्तीकृतः। नबां तुक्कीवर्यस्य पूर्वभूतःं सर्वकारः न्यायालयेन पुनरवरोधितः। 
     उत्तराखण्डविषयस्य अनुवर्ततया केन्द्रसर्वकारं तथा भाजपादलं प्रति च लब्धमानः प्रत्याघातः भवति एतत्।

त्रिपुरायां मृत्तैलं न लभते
अगर्तला >त्रिपुरायां डीसल् पेट्रोल् तैलानां दौर्लभ्यः। असम् त्रिपुर सीमायां राजवीथी-४४ भग्नः इत्यतः लोरियानानि नागच्छन्ति। २०दिनैः प्रतिसन्धिः अनुवर्तते।

Wednesday, July 13, 2016

दक्षिणचीनासमुद्रे चीनायाः अधिकारो नास्तीति यू एन् न्यायालयः। 
हेग् - दक्षिणचीनासमुद्रमधिकृत्य फिलिप्पैन्स् राष्ट्रं प्रति  सीमाविवादे चीनादेशस्य प्रत्याघातः। तर्कमण्डले चीनायाः अधिकारः नास्तीति ऐक्यराष्ट्रसभान्यायालयस्य प्रमुख विधिः।
    किन्तु हेगस्थान्ताराष्ट्रन्यायालयस्य अयं  विधिः न मान्यतेति प्रस्तुतसमुद्रमण्डलस्य अधिकारीवयमेव, एतस्मिन् विषये न कोऽपि संदेहः इत्येव चीनादेशस्य दृढवादः।
सोपानम्-07 News Reading By Vismaya V. Menon DD Sabha High School N.Paravur

तेरेसा मेय् ब्रिट्टनस्य प्रधानमन्त्रिणी।
लण्टन् - ब्रिट्टन् देशस्य नूतना प्रधानमन्त्रिणी इदानींतन गृहमन्त्रिणी तेरेसा मेय् भविष्यति। ५९ वयस्का सा अद्य अधिकृतिं प्राप्नोति।  स्थानभ्रष्टस्य डेविड् कामरूणस्य अनुगामिनीयं ब्रिट्टनस्य जनाधिपत्यचरित्रे द्वितीया वनिता प्रधानमन्त्री भवति।



महाराष्ट्रायाम् अतिवृष्टिः -  सर्वनाशः; ४ मरणानि।
 नासिक् > उत्तरमहाराष्ट्रायां नासिक् नन्दूर् बार् जनपदयोः  त्रिदिनं यावत् अनुसूतमानया अतिवृष्ट्यागृहभग्नेन च चत्वारः जनाः मृताः। १७९ भवनानि भग्नानि। उपशतं धेनुमृगादयः जलप्रवाहे विनष्टाः।

 श्रीजेषः भारतहोक्कीनायकः।
नवदिल्ली> रियो ओलिम्पिक्स् महामहे भारतस्य होक्कीदलं केरलीयतारः पि आर् श्रीजेषः नेष्यति। ओलिम्पिक्स् होक्कीदलं नीयमानः प्रथमः केरलीयः इति बहुमतिरपि श्रीजेषेण करस्थीकृता। २०१४ तमे वर्षे इञ्चियोण् एष्यन् कायिकमेलायां सुवर्णपदकं सम्पादयित्वावा एव भारतम् ओलिम्पिक्स् योग्यतां प्राप्तम्। तदा पाकिस्तानं श्रीजेषस्य प्रभावे पराजित्य सुवर्णं प्राप्तम्। समीपकाले लण्टने सम्पन्ने चाम्प्यन्स् चषकस्पर्धासु भारतं प्रति जितचषकम् आनीतवानसौ । ऐदंप्राथम्येन अन्तिमचरणं प्राप्तं भारतं रजतपदकं स्वायत्तीकृतवच्च।

Tuesday, July 12, 2016

प्रधानमन्त्री केनियायां; सप्त सन्धयः हस्ताक्षरीकृताः।
 नेय्रोबी> भारतप्रधानमन्त्री नरेन्द्रमोदी स्वस्य आफ्रिकन् पर्यटनवेलायां केनियां प्राप्य ७ सम्मतपत्राणि अंगीकृतानि। प्रतिरोधः, व्यवसायः, नयतन्त्रं भवननयविकसनम् इत्यादिविषयेषु हस्ताक्षराणि कृतानि।विदेशसन्दर्शनं परिसमाप्य मोदिवर्यः अद्य भारतं प्रत्यागच्छति।

Monday, July 11, 2016

भारतटान्सानियाभ्यां सन्धिपंचकं कृतम्।
 दारेस्सलां> प्रधानमन्त्रिणः नरेन्द्रमोदिनः टान्सानियासन्दर्शनवेलायां राष्ट्रद्वयेन  पंच सन्धिपत्राणि हस्ताक्षरीकृतानि। जलवितरणं, जलविभवप्रबन्धः विकासश्च, कर्मपरिशीलनं, नयतन्त्रं, उद्योगविकासः इत्येतेषु विषयेषु एव सहकरणं कांक्षितम्।

वार्तामुक्तकानि
 यूरो चषकः फ्रान्स् दलं पराजित्य पोर्चुगल् दलेन करस्थीकृतः।
 सुडान् देशे सैनिकानां विमतभटानां च मिथः संघर्षे272 जनाः हताः।
 केरलतः अप्रत्यक्षेषु नवदशजनेषु केचन ऐ एस् शिबिरं प्राप्तवन्तः इति केन्द्ररहस्यान्वेषणसंस्थया स्थिरीकृतम्।

Sunday, July 10, 2016

केचित् केरळीयाः ऐ एस् प्रविष्टा इति सन्देहः - केन्द्र संस्थया अन्वेषणम् आरब्धम्। 
 कासरगोड् > कासरगोड् पालक्काट् प्रदेशाभ्याम् अप्रत्यक्षाः षोडश युवजनाः इस्लामिक स्टेट् (ऐ एस्) इति भीकरसंघटनायां अंगत्वं प्राप्ताः इति सूचना लब्धा। अतः भारतस्य अन्ताराष्ट्र गुप्तचरविभागेन - रो - अन्वेषणम् आरब्धम्। कासरगोड् जनपदात् १२ पालक्काट्तः ४ च युवकाः मासैकात् पूर्वं दुरूहसन्दर्भे अप्रत्यक्षाः आसन्। धार्मिककार्यार्थमित्युक्त्वा जूण् पञ्चमे दिने स्वगृहं त्यक्तवतां केषाञ्चन बन्धुजनैः लब्धः दूरवाणीसन्देशः अफ्गानिस्तानादागत इति प्रत्यभिज्ञातम्। किञ्च एतेषु द्वाभ्यां गतदिने लब्धे वाट्स् आप् सन्देशे ऐ एस् संस्थायाः आशयाः दृष्टाः। तदनन्तरम् अप्रत्यक्षानां बान्धवाः मिलित्वा याचिकां समर्पितवन्तः। 

"आनन्दामृतं संस्कृतं पठनशिल्पशाला"

कोच्ची >एरणाकुलं जनपदे वलयन्चिरङ्गर प्रौढतम विद्यालये  प्रचलित एकदिनसंस्कृतपठनशिल्पशाला छात्राणां आनन्दामृतसंस्कृत शिल्पशाला आसन्। छात्राणां
आनन्दवर्धनं, ज्ञानवर्धनं, संस्कारवर्धनं च संस्कृत-पठनशिल्पशाला आसन् । अस्य विद्यालयस्य "संस्कृतसभा"-समायोजितं इयं शिल्पशाला। विद्यालयस्य संस्कृत अद्यापिके सौम्या, नव्यादेवी च नेतृत्वं  कृतवत्यौ संस्कृत-अध्यापकौ राजेष् कुमारः, हरिवास:, अध्यापिके निषा एम् के, श्रीमोल्  च कक्ष्या चालितवन्तः। पञ्चमिकक्ष्यादारभ्य दशमिकक्ष्यापर्यन्तं पठन्ति अष्ठोत्तरशतं (१०८)छात्रा: उपस्थिता:। शिल्पशालाया: उद्घाटनं अस्य विद्यालयात् विरमिता पूर्वसंस्कृतअद्यापिका वसन्तकुमारी अकरोत्। अध्यक्षपदवि अस्य विद्यालयस्य प्रधान अध्यापकः श्री आनन्दकुमारेण अलंकृतः। संस्कृत अध्यापिकया सौम्यया धन्यवाद समर्पणं कृता। सायं चतुर्वादने कक्ष्या समाप्ता।

सर्वकारविद्यालयानाम् अवस्थाम् उन्नीतुम् आयव्ययपत्रके सहस्रकोटिरूप्यकाणि। 
अनन्तपुरी > केरळेषु सर्वकारविद्यालयानां पदवीम् उत्कृष्टं कर्तुं सहस्रकोटि रूप्यकाणि आयव्ययपत्रे समर्पितानि। तन्त्रसाङ्केतिके उत्कृष्टतां प्रापयितुं पञ्चशतकोटि रूप्यकाणि च अर्पितानि। छात्राणां कृते गणवेषं सौविध्येन दास्यति। प्रतिविधानसभामण्डलम् एकैकं विद्यालयम् अन्ताराष्ट्रपदवीं प्रापयिष्यति इति च पत्रके विभावनं करोति।

प्रथमम् आयव्ययपत्रकं जनकीयम्। 
 अनन्तपुरी > केरळस्य वित्तमन्त्रिणा डो. तोमस् ऐसक्केन विधानसभायाम् अवतारितं प्रथमम् आयव्ययपत्रं जनकीयं वर्तते। निर्वाचनवाग्दानानां सर्वकारस्य राजनैतिकसमीपननां च प्रामुख्यं कल्पयित्वा एव डो. ऐसक्कः आयव्ययपत्रम् अवतारितवान्।
विपणीतः भूरिशः धनं समाहृत्य आधारसौविध्यविकसनं सुस्थिरार्थिकाभिवृद्धिश्च अस्यायव्ययपत्रकस्य मुख्यौ  विकसनलक्ष्यौ। एतदर्थं विंशतिसहस्ररूप्यकाणां मान्द्यविरुद्धपद्धतिः प्रख्यापिता।

काश्मीरे अक्रमः - ११ मरणानि। 
श्रीनगरम् >भीकरसंस्थायाः हिस्बुल् मुजाहीन् इत्यस्यायाः नेता सुरक्षासेनया हतः इत्यस्यां घटनायां प्रतिषिध्य काश्मीरे सम्पन्ने सञ्चलने अक्रमद्वारा ११जनाः हताः। त्रयः आरक्षकाः अप्रत्यक्षाः। षट्विंशत्यधिकशतजनाः व्रणिताः। तेषु९६ सैनिकाः भवन्ति।
  अनन्तनाग् जनपदे बडूरायां  गतशुक्रवासरे एव सामाजिकमाध्यमद्वारा भीकरसंस्थां प्रति युवकान् नियुज्यमानः बुर्हान् मुसाफिर् वानि नामकः भीकरनेता सुरक्षासेनया हतः। तत एव जनाः वीथिं प्राप्य अक्रमं कृतवन्तः।
  काश्मीरे अरक्षितावस्था जाता। अमर्नाथयात्रा स्थगिता। रेल् गतागतं च स्तम्भितम्।

Saturday, July 9, 2016

भिन्ननलिङ्ग विभागेभ्यः मेट्रो रेल़् मध्ये उद्योगः ।
    कोच्ची > भिन्नलिङ्‌गविभागेभ्यः कोच्चीमेट्रो मध्ये उद्योगं दातुं उन्नताधिकारिभिः निश्चितः । कोच्ची मेट्रो रेयिल् अध्यक्षः एलियास् जोर्ज कोच्ची नगरपरिधेः आरक्षकाधिकारिणा एं पि दिनेशेन कृतायां चर्चायामेव निर्णयः स्वीकृत: । निर्णयोऽयं प्रवृत्तिपथमागतः चेत् भिन्नलिङ्गविभागेभ्यः सर्वकारोद्योगं दीयमानः प्रथमं सर्वकारस्थापनं भविष्यति के.एं. आर्.एल् Iकोच्ची आरक्षकाधिकारिणः एव अयमाशयः। कोच्ची मेट्रो पद्धत्यां परिपालनशुचीकरणादिकं कर्तुं कुटुम्बश्रीविभागाः परिगणनायामासन्।

 शबरिमलायां स्त्रीप्रवेशनम् - न्यायाधिपस्थानं पुनःसंघटितम्‌
Image result for sabarimala नवदहली > शबरिमलायां स्त्रीणां प्रवेशसम्बन्धतया समर्पितं निवेदनं परिगण्यमानं उच्चतरन्यायालयस्य न्यायाधिपस्थानं पुनःसंघटितम्। न्यायाधिपौ कुर्यन् जोसफ्, गोपाल गौडा च परिवर्तितौ। तयोः स्थाने न्यायाधिपा भानुमती , सि. नागप्पः च नियमितौ वर्तेते। न्यायाधिप: दीपक् मिश्रः एव अध्यक्षः। निवेदनमधिकृत्य अन्तिमवादश्रवणं जायमानेऽस्मिन् अवसरे कृतं पुनः संघाटनं विधिप्रख्यापनं विलम्बं करिष्यतीति विदग्धाः अभिप्रयन्ति।

Friday, July 8, 2016

यूरो २०१६ - पोर्चुगल् अन्तिमक्रीडायै।
                  लियोण्> यूरो २०१६ अनुक्रमस्य प्रथमसेमिफैनल् मध्ये पोर्चुगल् दलेन २-० इत्यनुपाते वेल्स् दलं  पराजितम् । पोर्चुगलाय नेता क्रिस्ट्यानो रोणाल्डो उत्तमं प्रकटनम् प्रादर्शयत्। स्पर्ध्यां रोणाल्डो एकवारं लक्ष्यं प्रापयत्, अपरस्मै लक्ष्याय सहक्रीडकं नानिम् अवसरं दत्तवान् च। वेल्स् दलस्य प्रमुखः गरात् बेयिल् मत्सरेऽस्मिन् पराजयः आसीत्। रविवासरस्य अन्तिमक्रीडायां पोर्चुगल्,  जर्मनी-फ्रान्स् मत्सरविजयिना सह क्रीडिष्यति।