प्रस्तुतमन्दिरे १० - ५० मध्ये वयस्कानां नारीणां प्रवेशनं दर्शनं च बहुकालैः निषिद्धमस्ति। धर्मानुष्ठानानि विश्वासान् च अनुवर्तितुं शासनसंविधानस्य २५ ,२६ अनुच्छेदाभ्यां निश्चितम्। तुल्यतानिर्णयप्रकारः १४तम अनुच्छेदः आचारनिषेधाय न पर्याप्तो भवति इति सर्वकारस्य सत्यवाङ्मूले विशदीक्रियते।
OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
marquee
Sunday, February 7, 2016
प्रस्तुतमन्दिरे १० - ५० मध्ये वयस्कानां नारीणां प्रवेशनं दर्शनं च बहुकालैः निषिद्धमस्ति। धर्मानुष्ठानानि विश्वासान् च अनुवर्तितुं शासनसंविधानस्य २५ ,२६ अनुच्छेदाभ्यां निश्चितम्। तुल्यतानिर्णयप्रकारः १४तम अनुच्छेदः आचारनिषेधाय न पर्याप्तो भवति इति सर्वकारस्य सत्यवाङ्मूले विशदीक्रियते।
Saturday, February 6, 2016
Thursday, February 4, 2016
बहिर्पतितः यात्रिकः मृतः।
Wednesday, February 3, 2016
Tuesday, February 2, 2016
आयुर्वेदशास्त्रस्य शक्तिः कियती अस्तीति चिन्तनीयं भवेत्' - प्रधानमन्त्री।
कोष़िक्कोट् (केरळम् )> 'आयुर्वेदशास्त्रस्य शक्तिः कियत् अस्तीति चिन्तनीयं भवेत्' इति प्रधानमन्त्री नरेन्द्रमोदिवर्यः। आयुर्वेदः जीवशास्त्रं भवति। ह्यस्तनानां नानाविधानाम् आरोग्यसमस्यानां परिहारः आयुर्वेदे अस्तीति मोदिवर्यः अवदत्। कोष़िक्कोट्देशे स्वप्ननगर्यां आगोल -आयुर्वेद सम्मेलने विषन् कोण्केव् इति पद्धत्याः उद्घाटनं कृत्वा भाषमाणः आसीत् प्रधानमन्त्री।
आयुर्वेदशास्रं सर्म्पूणतया प्रयोगं कर्तुं वयम् श्रद्धालवः न भवेम। भारतसर्वकारेण आयुर्वेदस्य अपि च पारम्बर्यचिकित्सा सम्प्रदायस्य च प्रधान्यं तथैव प्रचारं यथायोग्यं करिष्ये। भारतेषु योगाशास्त्राय आयुर्वेदशास्त्राय च महत्वपूर्णं स्थानमस्ति। इदानीं आधुनिकी चिकित्साविधीनां कृते अधिकं धनं आवश्यकं औषधानां तु पार्श्वफलं च अनेन कारणेन पारम्पर्य चिकित्सा सम्प्रदायेषु विदग्धाः बद्धश्रद्धाः अभवन्। अन्येषां राष्ट्राणां अवस्थां संज्ञात्वा भारते आयुर्वेदशास्त्राय महत् प्रधान्यं दद्मः।
आयुर्वेदशास्त्रस्य प्रसूति गृहम् (हब्) इव केरलराज्यः वर्तते इति मोदिवर्यः अवदत्। यथा वयम् आत्मानं पश्यामः तथा अन्येषां जीविनां च मनसि निधाय पालनीयः इति अष्टाड़्गहृदयस्य वाक्यम् उक्त्वा एव प्रधानमन्त्री नरेन्द्रमोदिवर्यः तस्य भाषणं समापितवान् ।
केन्द्र आयुष् विभागमन्त्री श्रीपद् यशोनायिक् च प्रधानमन्त्रिणम् अनुगच्छति।
Monday, February 1, 2016
Sunday, January 31, 2016
भारते प्रथमतया एव सर्वकारीय विद्यालयेषु छात्राणां कृते मध्याह्नभोजनादधिकतया प्रभातभक्षणमपि दीयते। यदा विद्यालयेषु मध्याह्नभोजनं दातुमारब्धं तदा छात्राणाम् उपस्थितिसड़्ख्या वर्धिता आसीत्। प्रभातभक्षणमपि ददाति चेत् उपस्थिति सड़्ख्या इतोऽप्यधिकं वर्धयितुं शक्यते इति तेषां प्रतीक्षा । अनया पद्धत्या छात्राणां आरोग्यं पठनसामर्थ्यं च वर्धयितुं शक्यते। प्रतिदिनं सार्धदशवादने प्रभातभक्षणं, सार्धैकवादने मध्यह्नभोजनं च दातव्यमिति सर्वकारस्य विज्ञापने सूचितमस्ति।
एष्यानेट् द्वारा संप्रेषितया "कण्णाटी" इति परम्परया शतशानां निरालम्बानां जीवितदुःखानि सामान्यजनानां सर्वकारस्य च श्रद्धामानीय परिहारं कृतवानासीत्।
त्रिंशदधिकवर्षेभ्यः माध्यमलोके सम्पूर्णसान्निध्यमासीत्। इन्ड्यन् एक्स्प्रस् मातृभूमी स्टेट्स्मान् बि बि सि इत्यादिषु बहुषु माध्यमेषु स्वस्य व्यक्तिमुद्रां पातयामास।
Friday, January 29, 2016
पुस्तकोत्सवस्य उद्घाटनाय आगतः षरीफ् इस्मायिलः भारतस्य विपणनप्रकोष्टस्य सन्दर्शनवेलायामेव भारतसंविधानस्य अरबिभाषानुवादसमर्पणम् ।
मेलबण्
> विविध मण्डलेषु कृतानां प्रवर्तनानाम् आधारेण तृभ्यः भारतीयवंशजेभ्यः
आस्त्रेलियायाः बहुमतिः। तैः फिसिक्स्, एञ्चिनीयरिङ्, मेडिसिन्, मण्डलेषु
कृतप्रयत्नानि परिगणयन् एव पुरस्काराः दीयन्ते। अस्य वर्षस्य (2016)
आस्त्रेलियादिनाघोषवेलायां पुरस्काराः प्रख्यापिताः। एते आस्त्रेलियन् नाषनल्
यूनिवेर्सिट्टीतः एमिनन्ट् प्रोफसर् चेन्नुपति जगदीशः, न्यू सौत्त्
वेयिल्सतः नेत्र वैद्यः जय् चन्द्रः, मेलबनतः दन्तविदग्धः सजीव् कोशीः च
भवन्ति। फिसिक्स्, एञ्चिनीयरिड़् |
-
|
नानो टेक्नोलजि आदि मण्डलेषु कृताय उत्तमप्रवर्तनाय, पुनः अक्कादमिक् गवेषणं, ग्रन्थरचना, देशीय अन्ताराष्ट्रस्तशास्त्रोपदेशक स्थानेषु कृतप्रयत्नानि च आधारीकृत्य जगदीशमहोदयाय पुरस्कारस्य अर्हता अभवत्। सपादशताब्दवर्षस्य प्रवर्तनसामर्थ्यमस्ति महोदयस्य। 1985 वर्षादारभ्य नेत्रचिकित्सारंगे अन्ताराष्ट्रतले प्रसिद्धः भवति जयचन्द्रः। दन्तचिकित्सा मण्डलेषु कृतेषु श्रेष्ठप्रवर्वतनानि परिगण्य एव कोशीमहोदस्य पुरस्कारप्राप्तिः। |
कोच्चि > कोच्ची नगरेण सह 20 नूतन स्मार्ट सिट्टीनां पट्टिका केन्द्र सर्वकारेण प्रख्यापिता। केन्द्रनगर विकसन विभागस्य मन्त्रिणा वेड़्कय्य नायिडुमहाभागेन पट्टिका प्रसिद्धीकृता। भुवनेश्वर्, पूने, जय्पूर्, सूरत्, कोच्चि, अहम्मदाबाद्, जबलपूर, विशाखपट्टणं, षोलापूर्, देवड़्करे, इन्डोर्, न्यू दिल्ली, कोयम्पत्तूर्, काक्किनट, बेलागवी, उदैपूर्, गुवहाती, चेन्नै, लुधियाना, भोपाल, आदीनां नगराणां नामानि पट्टिकायाम् अन्तर्भूतानिऽभवन्।
संयुक्त प्रवर्तनेन स्मार्ट् सिट्टि पद्धतिः प्रवृत्तिपथमानेतुं शक्यतेति वेड़्कय्य नायिटुना उक्तम् । ५०,८०२ कोटिः रुप्यकाणि पञ्चवर्षीय पद्धत्यर्थं व्ययीकरिष्यति इति सः अवदत् ।प्रथम स्मार्ट सिट्टि पद्धत्याः स्पर्धायां ९७ नगराणि आसीत्। तेषु नगरेषु पञ्च नगाराणि चिनोति स्म। तानि नगराणि राजधानि च। प्राथमिकसौकर्याणां विकासः , जलम् , विद्युत् , मालिन्यनिर्मार्जनम् , गतागतम् , ई- गवेणनडस् , इन्टरनेट् कणक्टिविटि च स्मार्ट् सिट्याः सविशेषताः भवन्ति। आगामिनि वर्षे ४० नगराणि योजयित्वा शतं स्मार्ट सिट्ट्याः रूपीकरणार्थं पद्धतिः आविष्करोति इति प्रधानमन्त्रिणा नरेन्द्रमोदिवर्येण उक्तम्।