OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
marquee
Tuesday, December 29, 2015
Sunday, December 27, 2015
विश्वसंस्कृतप्रतिष्ठानस्य रक्षाधिकारी तथा अन्तर्देशीय संस्कृत कण्सल्टन्ट पण्डितरत्नं डो.जी. गङ्गाधरन् नायर् महोदयः श्री.टी. के. सन्तोष्कुमाराय पुरस्कारं ददाति। १०००१ रूप्यकाणि प्रशस्तिफलकम् च अस्मिन् पुरस्कारे अन्तर्भवति । पुरस्कार: संस्कृत अद्यापक फ़ेटरेशन् संस्थाया: लब्धः अङ्गीकारमिति मन्ये इति संतोष् वर्यः प्रत्यवदत् ।
संस्कृतस्य कृते निस्वार्थ सेवनम् कृतवानयं इति गङ्गाधर महाभागेन उक्तम् ।
Saturday, December 26, 2015
सप्तम देशीय श्रीशङ्करनृत्तसंगीतोत्सवस्य अद्य शुभारम्भः ।
कालटी - केरलस्य अद्वतभूमिः कालटी तावत् अद्य आरभ्य पञ्च दिनं यावत् लोकप्रशस्तानां नृत्तसंगीतकलाकाराणां वैभवेन सम्पन्ना भविष्यति।
कालटी श्रीशङ्करनृत्तविद्यालयस्य नेतृत्वे आयोज्यमानः सप्तमः नृत्तोत्सवः डिसं.२६ - ३० पर्यन्तं श्रीशङ्करनाट्यमण्डपस्य समीपे सविशेषरीत्या कृतायां २२५० चतुरश्रपादमितायां नृत्तवेदिकायां प्रचलिष्यति।
२६तमदिनाङ्के सायं ५.४०वादने प्रसिद्धः कथक् नर्तकः अषिं बन्धु भट्टाचार्यः,(कोल्कत्ता) कथक् नृत्तमवतारयति। २७ - सायं श्री रञ्जित् श्रीमति विज्ना (चेन्नै)इत्येताभ्याम् अवतार्यमाणं भरतनाट्यम् , २८ - सरिता मिश्रायाः (बङ्गलूरु)ओडीसी ,२९ -डो. द्रौपदी प्रवीण् ,डो . पद्मिनिकृष्णन् (केरलं) इत्येतयोः भरतनाट्यं-कुच्चिप्पुटी फ्यूषन्नृत्तं ,जयप्रभा मेनोन् (नवदिल्ली) महाभागाया: मोहिनियाट्टं , कलारत्नं दीपिका रड्डि (हैदराबाद्) वर्यायाः कुच्चिप्पुटी च भविष्यन्ति।समापनदिने - ३० -सायं कलाश्री सुनन्दा नायर् (मुंबई) महाभागया अवतार्यमाणं मोहिनियाट्टं च भविष्यति।
Prashikshana Shibiram
*
|
कुमारमङ्गले प्रवर्तमाने शिक्षकप्रशिक्षणशिबिरे ह्यः परीक्षा आसीत् । परीक्षा कीदृशी भविष्यति इति भिया आगतानां शिक्षार्थिनां पुरतः विविधाभिः भाषाक्रीडाभि: आगत्य शिक्षकाः तान् आश्चर्यचकितान् कृतवन्तः । | |
प्रशिक्षणे वररुचिगणः सरण्यां सरस्वतीगणः च प्रथमं स्थानं प्राप्तवन्तौ। प्रत्येकगणेन निर्मितानां भित्तिपत्रिकाणां प्रकाशनमपि जातम्। राष्ट्रियस्वयंसेवकसङ्घस्य सङ्घचालक : नारायनन् महोदयः आशंसाभाषणं कृतवान्। | ||
हैदराबाद् - भारतस्य अमूल्यसंस्कृतेः परम्परायाः च स्रोतः भवति वेदाः इति भारतस्य राष्ट्रपतिना प्रणाब् मुखर्जिना उक्तः। आन्ध्रराज्ये तिरुमलै तिरुप्पति देवस्थाने आयोजिते वेदपाठशालायाः उद्घाटनसन्दर्भे भाषमाणः आसीत् सः।
Friday, December 25, 2015
Akshaya Thrithiya Kanakadhara
The yajnam is held in remembrance of the legend that there was a rain of golden gooseberries when Sri Sankaracharya recited slokas after seeing the plight of a Brahmin lady living in abject poverty. The lady was upset as she could only provide gooseberries as alms to Sri Sankaracharya when he visited her house. Seeing her plight, Sri Sankaracharya was moved and he recited slokas addressing Lakshmi Devi. It is believed that golden gooseberries fell when Sri Sankaracharya completed the 19th sloka. The chief priest of the ceremony will be the senior-most member of Swarnathu Mana. Sri Sankaracharya is believed to have recited the 19 slokas while visiting this house.