OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Monday, December 7, 2015
Sunday, December 6, 2015
दिल्ल्यां लष्कर् आक्रमणात् भीतिः- आरक्षकाः
आतङ्कवादे बालकानां नियुक्तिः।
विषिञ्ञंपद्धतेः शुभारम्भः।
अनन्तपुरी - केरलराज्ये अन्ताराष्ट्रमहानौकापत्तनाय विषिञ्ञंप्रदेशे समुद्रतीरे ह्यः शिलास्थापनमकरोत्। विषिञ्ञं पद्धतिः इत्याख्यायमानायाः अस्याः निर्माणम् अदानीसङ्घः इति निर्माणसंस्थया क्रियते।
विषिञ्ञं प्रदेशवासिनां कृते तीरसमृद्धिः इति ३५ कोटिरूप्यकाणां पद्धतिरपि अदानीसङ्घस्य अध्यक्षेण गौतम् अदानीवर्येण विज्ञापिता। यदि अवस्था अनुकूला स्यात्तर्हि सहस्रदिनाभ्यन्तरे पत्तनस्य निर्माण पूर्तीकरिष्यति इति तेनोक्तम्।
केरलस्य मुख्यमन्त्री उम्मन् चाण्टि महोदयः स्तम्भदीपं प्रज्वाल्य पद्धतेरस्य उद्घाटनं निरवहत्। केन्द्रमन्त्री नितिन् गड्करी महाशयः शिलास्थापनफलकस्य अनावरणं कृतवान्।
कार्यक्रमेस्मिन् के बाबू , पि जे जोसफः, वि के इब्राहिम् कुञ् ,के पी मोहन:, वि एस् शिवकुमारः इत्येते मन्त्रिणः जनप्रतिनिधयः अन्ये च भागभागित्वं कृतवन्तः।
Saturday, December 5, 2015
केरलेषु संस्कृतप्रशिक्षणस्य सञ्चालनाय
१०१ संख्याकानां समितिः ।
इटुक्की
- प्रशिक्षणस्य सुगमसंचालनाय 101 जनानां स्वागतसंघं रूपीकृत्य कार्याणि
कुर्वन्त: सन्ति। धनसमाहरणस्य उद्घाटनं श्री कुम्मनं राजशेखरमहोदयेन
कृतम्।प्रशिक्षणस्य प्रचरणाय दीपावली कुटुम्बसंगमे कुमारी सरस्वत्याः
संस्कृतपरिचयः इति कार्यक्रम: जात: । प्रशिक्षणपूर्वशिबिराणि स्थानत्रये
आयोजितमस्ति। जनपदे विद्यमान अद्ध्यापका: वैद्याः ,संस्कृतेन जीवनं
कुर्वन्तः इतरमेखलासु विद्यमानाः अपि स्वकीयं कार्यमिति मत्वा प्रशिक्षणस्य
साहाय्यं कुर्वन्तः सन्ति।
महाप्रलयः - चेन्नै नगरं पृथक्कृतं;
साहाय्यहस्ताः प्रसरन्ति।
चेन्नै
- तमिल्नाडुराज्ये संवृत्तायां घोरवृष्ट्यां राजधानी चेन्नैनगरेण सहितानि ५
जनपदानि जलोपप्लवे आमग्नानि।३०० अधिकं जनाः मृताः । विद्युच्छक्तिः
स्थगिता। जनजीवनं निश्चलमभूत्। राजमार्गेण सहिताः सर्वे वीथयः जले निमग्नाः
अभवन्। राजधानी चेन्नै नगरं पृथक्कृतमभवत्। राष्ट्रस्य विविधभागेभ्यः
साहाय्यानि लभन्ते। प्रधानमन्त्री नरेन्द्रमोदी प्रलयमण्डलं सन्दर्श्य
१०००कोटिरूप्यकाणां साहाय्यं प्रख्यापितवान्।
Friday, December 4, 2015
केरलेषु संस्कृतभाषापाठने पुरोगतिः -
संस्कृताध्यापक-फ़ेडरेशनस्य साफ़ल्य:
अनन्तपुरी- केरलसर्वकारेण वर्षद्वयाद्पूर्वमेव बहुविध सम्मर्द्देन प्रथमकक्ष्यादारभ्य संस्कृतपाठनमारब्द्ध। किन्तु पुस्तकनिर्माणे कालविलम्बः अभवत। 'केरल-संस्कृत-अध्यापक-फ़ेडरेशन्' नाम अध्यापक दलेन समर: आरब्ध: च, अन्ते पुस्तकमपि आगतम्। अधुनापि फ़ेटरेशन् द्वारा कृतः संमर्द्दस्य अन्ते एव प्राथमिकस्तरे अपि परीक्षा सञ्चालनाय निदेशः आगतः ,GO www.kstfedu.org मध्ये लभते। संस्कृताध्यापक-फ़ेडरेशनस्य साफ़ल्य:
टि एस् ठाक्कुरः भारतस्य मुख्यन्यायाधिपः।
नवदिल्ली - भारतस्य ४३ तम मुख्यन्यायाधिपस्थाने नियुक्तः तिरात् सिंह् ठाक्कुरः गतदिने सत्यप्रतिज्ञां कृतवान्। राष्ट्रपतिभवने संवृत्ते कार्यक्रमे राष्ट्रपतिः प्रणब् मुखर्जीवर्यः प्रतिज्ञावाक्यानि उपादिशत्। ६३ वयस्कः न्या.ठक्कुरः ईश्वरनाम्नि सत्यप्रतिज्ञाम् अकरोत्। प्रधानमन्त्री नरेन्द्रमोदी राज्यसभायाः उपाध्यायक्षः श्री हमीद् अन्सारी, श्रीमन्तः राजनाथसिंहः ,सुषमा स्वराजः,अरुणजय्टिली इत्यादयः केन्द्रमन्त्रिणः दिल्लीमुख्यमन्त्री अरविन्दकेज्रीवाल्वर्यः भाजपा नेता एल् के अद्वानीवर्यः इत्यादयः बहवः प्रमुखाः अस्मिन् कार्यक्रमे सन्निहिताः आसन्।
Thursday, December 3, 2015
चीनाराज्यस्योपरि शत्रुतया न दृष्टा-
व्योमसेना मेधावि- अरूप राह।
न्यूदिल्ली -चीना-भारतराज्ययोः परस्पर सहवर्तर्तित्वं राज्ययोः अधिकविकास स्यात् इति व्योमसेना मेधाविनः प्रतिवचनं। द्वयोः राज्ययोः तात्पर्याणि तु समाना च। चैनराज्येभ्यः सह युद्धं अभिप्राय भेदः सीमा तर्कादीनां परिहारादयः प्राप्तव्यानि। सैनिकतले साम्पत्तिकस्थरे च सहवर्तित्वं चेत् औन्नत्यं भविष्यति इति च सः उक्तवान् ।
चेन्नै नगरे अतिवृष्टिः ,197 जनाः मृताः
चेन्नै - विमानपत्तनस्य धावनपथे जलोपप्लवः, रविवासर पर्यन्तं भिधानम्। अस्मिन् शताब्दस्य महतीवृष्टि: इत्यभिधया उक्तः वृष्ट्या आनगरं प्रलयेन आप्लावितः। जनानां जीवन: स्थंभितः।सहस्राधिकान् दुर्घटनायाः वैपुल्यं ज्ञात्वा अन्यत्र प्रेषिताः विद्युत् बन्ध: प्रातः पुन:स्थापितः। जङ्गमदूरवाण्यः अधुनापि प्रवर्तनरहिताः। वारद्वयं यावत् वृष्ट्या मृतानां सङ्ख्या 197 अभवत्। मुख्यमन्त्रिणा जयललितया प्रलयबाधितप्रदेशेषु व्योमनिरीक्षणं क्रियते।
Wednesday, December 2, 2015
सुरक्षितात्रा - राष्ट्राणां पट्टिकातः
भारतं न त्यक्तवन्तः - रष्या
मोस्को - सुरक्षितयात्रायुतराष्ट्राणां पट्टिकातः भारतं न त्यक्तवन्तः इति रष्या । भारतं गोवां च सुरक्षितविनोदसञ्चारकेन्द्राणां पट्टिकातः त्यक्तवन्तः इति वृत्तान्तानां आधारेण एव रष्या विशदीकरणं दत्तवन्तः ।
संस्कृतविश्वविद्यालस्य कीर्तिः अपाकर्तुं केचन प्रयतन्ते- उपकुलपति: ।
कोच्ची - कालटि श्री शङ्कराचार्य विश्वविद्यालयस्य अपकीर्तये विश्वविद्यालयस्य अन्तः बहिः च केचन प्रयत्नं कुर्वन्ति इति उपकुलपति: डा. एम् सि दिलीप् कुमारः अवदत् । अत्र विद्यमाना: अध्येतार: ७०℅ अपि निर्धना: छात्रा: I एतेषां छात्रवृत्तिः विलम्बेन एव लभते। एम् फिल् पि एच् डि नेट्ट् परीक्षासु विश्वविद्यालयस्य 90% छात्रा: अपि उत्तीर्णतां प्राप्नोतिI गतवर्षस्य उत्तम विश्वविद्यालयाय दीयमानः गवर्णेर्स् कप् पुरस्कारे चतुर्थस्थानं प्राप्तं इत्येतत् श्रद्धेयः अंशः भवति ।
मार्गी सती दिवंगता।
चेरुतुरुत्ती - प्रसिद्धा कूटीयाट्टं तथा नङ्यार्कूत्त् कलाकारी मार्गी सती (50) अनन्तपुर्याम् आर् सि सि आतुरालये दिवंगता।अर्बुदरोगबाधिता आसीत्।
कूटियाट्टं,नङ्यार्कूत्त् इत्यनयोः कलारूपयोः प्रचारका सा ऐक्यराष्ट्रसभायाः आस्थानमन्दिरे तथा बहुषु विदेशराष्ट्रेषु च स्वस्य प्रतिभां प्रदर्श्य आस्वादकानां मुक्तकण्ठप्रशां प्राप्तवती। श्रीरामचरितम् इति नङ्यार्कूत्त् सतीवर्यायाः योगदानत्वेन विराजते।
Tuesday, December 1, 2015
वनसंरक्षणमुद्दिश्य पथसञ्चलनम्
कोच्ची- वातावरणव्यत्ययस्य प्रत्याघातान् प्रतिरोद्धुं वनानि संरक्षणीयानि इति सन्देशं उद्घोषयन् 'पीप्पिल्स् क्लैमत्स् 'नाम दलः पथसञ्चलनमकरोत्। केरलेषु अतिरप्पिल्ली वनमण्डलेषु आयोजिते पथसञ्चलने 1500 संख्यकाः परिस्थितिप्रवर्तकाः आगताः। प्रमुखः परिस्थितिप्रवर्तकः शङ्कर शर्म, डो. वि.एस्.विजयः सि .आर.नीलकण्ठ: प्रोफ़.सीताराम: आदय: 70 संख्यकाः विविधपरिस्थितिदलानां नेतारः अत्र मिलिताः। वनानि परिस्थितिं च नाशयन्तीं योजनां कर्तुं न शक्यते सर्वकारेण । वयं तत् रोध्तुं सन्नद्धाः इति सि .आर.नीलकण्ठ: अवदत्। शिला खननाय सर्वकारेण अनुज्ञा दीयते चेत् तां प्रतिरोद्धुं शक्ताः वयम् इति च सः अवदत्।
Monday, November 30, 2015
भारतीय मेट्रो रेल् पद्धतीनां कृते जापान् ५,४७९ कोटि रूप्यकाणि ऋणम् दास्यति |
-
|
नवदिल्ली -चेन्नै मेट्रो रेल् पद्धत्याः कृते १,०६९ कोटि रूप्यकाणि तथा अहम्मदाबाद् मेट्रो रेल् पद्धत्याः कृते ४,४१० कोटि रूप्यकाणि जापान् लोण् दास्यति इति केन्द्र धनकार्यमन्त्रालयेन सूचितम् |
'वै फ़ै'विद्यायाः 100 गुणित वेगवान् लै-फ़ै
परीक्षणम् विजयं प्राप्तः
नवदिल्ली- भाविनि कालः LED प्रकाशकन्दः अन्तर्जालं संप्रेषयतुमुपकरिष्यति। 'वै-फ़ै'विद्यायाः स्थाने दृश्य प्रकाशस्य सहायेन दत्त(Data) सन्निवेशं कर्तुं लै-फ़ै ( Li-fi ) संविधानेन आरब्धः।
वै-फ़ै'विद्यायाः शतगुणितवेगवान् अयं निमिषाभ्यन्तरेण 1जिगाबैत् वेगेन
(1Gbps ) दत्तस्य सन्निवेशः सुसाध्यं करोति । सामान्य LED कन्दमिव
प्रकाशस्रोतः अन्तर्जाल-संबन्धः प्रकाशसंवेदकः च अस्मिन् सौकर्याय
पर्याप्तः। एस्तोनियायाः राजधान्यां टालिन् नाम नगरे 'वेल्मिन्नि
'(Velmenni) नाम संस्थया कार्यालयस्य अन्तर्भागे परीक्षणमकरोत्
'दृश्यप्रकाश संप्रेक्षणं ' ( VLC ) रङ्गेषु पुरोगमनम् इदानीम् साध्यम्
इति अनया संस्थया उक्तम् (Velmenni Jugnu )। नवदिल्यां भवति संस्थायाः अद्यतनकार्यालयः।
Sunday, November 29, 2015
Saturday, November 28, 2015
नीतिसंहितापरिवर्तनं न करिष्यति - प्रधानमन्त्री
नवदिल्ली - भारतस्य नीतिसंहितायाः परिवर्तनमधिकृत्य याकापि चिन्ता न वर्तत इति प्रधानमन्त्री नरेन्द्रमोदिवर्यः। तादृशी चिन्ता आत्महत्यापरा इति च सः अवदत्। भूरिपक्षस्य शासनात् समवायो भवति जनाधिपत्यस्य शक्तिःइति लोकसभायां संवृत्तायाः चर्चायाः प्रतिवचने मोदिवर्यः उक्तवान्। भारतसंविधानस्य आधारतत्त्वानि संरक्षिष्यति इति अभिमतम् ऐककण्ठ्येन उत्तीर्णम्।
बासमतीधान्यस्य स्थानं प्रयासं क्रियते
भोपाल:- मुख्यमंत्री श्री शिवराजसिंहचौहान:
उक्तवान् यत् मध्यप्रदेशे उत्पादितं भूयमानं बासमती धान्यम् उत्तरप्रदेशम्,
पंजाबम्, उत्तराखण्डम् आदय: प्रदेशेषु भूयमानं धान्यस्य समानं बासमती
धान्यस्य स्थानं प्रदानस्य प्रयासं क्रियते। एतस्मै एपीडाया: समक्षं
मध्यप्रदेशस्य पक्षं सुदृढ़तया स्थाप्यते। श्री चौहान: शाहगंजे अन्त्योदयं
मेलापके उपस्थित: जन: समुदायं संबोधयन् आसीत्। स: उक्तवान् यत् प्रदेशे
उत्पादितं भूयमानं धान्यं बासमती स्थानं मिलिते सति कृषकान् आर्थिकं लाभं
मिलिष्यति। -mpinfo
Subscribe to:
Posts (Atom)