अनन्तपुरी - केरलेषु इदंप्रथमतया संस्कृतभाषया जनप्रतिनिधेः सत्यप्रतिज्ञा। गतदिने संवृत्तायां तद्देशजनप्रतिनिधीनां सत्यप्रतिज्ञास्वीकरणसमये तिरुवनन्तपुरं महानगरसभासामाजिकः भाजपादलस्य राज्यसमित्यङ्गः करमना अजितः संस्कृतभाषया सत्यवाक्यमुक्त्वा संस्कृतमातृसेवामकरोत्। अनन्तपुरी महानगरसभायाः चरित्रे इदंप्रथमतया एव संस्कृतवाक्यानि उद्घुष्टानि। संस्कृतश्रवणमात्रेण सश्रद्धं निश्शब्दं सभागृहम् अजित्वर्यस्य शपथस्यान्ते उच्चैर्हस्तघोषैः आदरं प्रदर्शितवत्। आदौ वरणाधिकारी तथा जनपदाधीशः बिजु प्रभाकरः सभायाः ज्येष्ठतमायै सामाजिकायै डो. विजयलक्ष्म्यै सत्यवाक्यम् उपादिशत्। तदनन्तरं विजयक्ष्मीवर्यायाः नेतृत्वे शिष्टाः९९ सामाजिकाः सत्यप्रतिज्ञां कृतवन्तः।
OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
marquee
Friday, November 13, 2015
अनन्तपुरी - केरलेषु इदंप्रथमतया संस्कृतभाषया जनप्रतिनिधेः सत्यप्रतिज्ञा। गतदिने संवृत्तायां तद्देशजनप्रतिनिधीनां सत्यप्रतिज्ञास्वीकरणसमये तिरुवनन्तपुरं महानगरसभासामाजिकः भाजपादलस्य राज्यसमित्यङ्गः करमना अजितः संस्कृतभाषया सत्यवाक्यमुक्त्वा संस्कृतमातृसेवामकरोत्। अनन्तपुरी महानगरसभायाः चरित्रे इदंप्रथमतया एव संस्कृतवाक्यानि उद्घुष्टानि। संस्कृतश्रवणमात्रेण सश्रद्धं निश्शब्दं सभागृहम् अजित्वर्यस्य शपथस्यान्ते उच्चैर्हस्तघोषैः आदरं प्रदर्शितवत्। आदौ वरणाधिकारी तथा जनपदाधीशः बिजु प्रभाकरः सभायाः ज्येष्ठतमायै सामाजिकायै डो. विजयलक्ष्म्यै सत्यवाक्यम् उपादिशत्। तदनन्तरं विजयक्ष्मीवर्यायाः नेतृत्वे शिष्टाः९९ सामाजिकाः सत्यप्रतिज्ञां कृतवन्तः।
अनन्तपुरी - एष्याभूखण्डस्य बृहत्तमः कौमारकलोत्सवः इति सुविख्यातः केरलच्छात्रोत्सवः (केरला स्कूल् कलोत्सवः) जनुवरिमासस्य १७ दिनाङ्कादारभ्य २३ दिनाङ्कपर्यन्तं तिरुवनन्तपुरं जनपदे प्रचलिष्यति इति केरलस्य शिक्षामन्त्री पि के अब्दुरब्ब् महोदयः विज्ञापितवान्। एरणाकुलं जनपदे इति पूर्वनिश्चिता आसीदियं कलामेला । किन्तु मेट्रो निर्माणेन अनुभूयमानां दुरवस्थां परिगणय्य एव मेलासञ्चालनाय अनन्तपुरी निश्चितेति शिक्षामन्त्रिणोक्तम्।
लण्टन् - भारतप्रधानमन्त्रिणे नरेन्द्रमोदिवर्याय उज्ज्वलं स्वीकरणम् । त्रिदिनसन्दर्शनाय ब्रिटन्देशं प्राप्तं प्रधानमन्त्रिणं कोमण् वेल्त् विदेशकार्यमन्त्री ह्यूगो स्वेर्, भारतवंशजा ब्रिटीश्मन्त्री प्रीति: पटेलः इत्यादयः स्वीकृतवन्तः ।
मोदिनः सन्दर्शनेन अतीव सन्तुष्ट: इति ब्रिटीश् प्रधानमन्त्री डेविड् कामरूण्वर्यः अवदत् । उभयोः राष्ट्रयोः मिथः सौहृदं दृढीकर्तुं मोदिनः सन्दर्शनं उपकरिष्यतीति कामरूण् स्पष्टीकृतवान् ।
ब्रिटीश् पार्लिमेन्ट् संयुक्तसम्मेलनं प्रधानमन्त्री नरेन्द्र मोदी सम्बोधयिष्यति । जनप्रतिनिधिसभायाः प्रभुसभायाः च संयुक्तसम्मेलने अपि स: भागं ग्रहीष्यति । मोदि वर्यस्य बहुमानार्थं एलिसबत् महाराज्ञी मध्याह्नभूरिभोजनस्य व्यवस्थां कृतवती । तस्य इङल्ण्डसन्दर्शनम् शनिवासरे समाप्तिम्' एष्यति । ततः स: G40 सम्मेलने भागं ग्रहीतुं तुर्कीं गमिष्यति।
Thursday, November 12, 2015
नवदिल्ली - ६ पङ्क्तियुक्तम् उपरितरणपथं(Flyover) निर्मातुं २४७ कोटिरूप्यकाणाम् अनुज्ञा दीयते, १४२
कोटिरूप्यकैः पद्धतेः पूर्तीकरणं सम्भवति ! भ्रष्टाचारसम्पन्ने अस्मिन् राष्ट्रे भ्रष्टाचारविरुद्धमुद्रावाक्यैः सन्देशैश्च अघिकारं प्राप्तवता दिल्लीमुख्यमन्त्रिणा अरविन्द केज्रिवाल् महोदयेन इयं मान्त्रिकप्रक्रिया सञ्चालिता।
२०१३ तमे वर्षे षीलादीक्षित् सर्वकारेण उत्तरदिल्याम् आसाद्पुर- प्रेमबारीप्रदेशयोः मध्ये १.६ कि.मी. दैर्घ्येन उपरितरणमार्गनिर्माणाय २४७ कोटिरूप्यकाणाम् अनुमतिः दत्ता निर्माणमारभत च। किन्तु केज्रिवाल् वर्यस्य अधिकारप्राप्त्यनन्तरं केवलं १४२ कोटिरूप्यकाणां व्ययेन वीथीनिर्माणं पूर्तीकृत्य गतदिने उद्घाटनमपि कृतम्।
पाट्ना - बीहारराज्यस्य मुख्यमन्त्रिरूपेण नितीष् कुमार् वर्यस्य स्थनारोहणं नवं- २० तमे दिनाङ्के भविष्यति। पाट्नायां
गान्धीमैतान् मध्ये एव सत्यप्रतिज्ञाक्रियाः आयोजयिष्यन्ते। जे डि यू दलात् १५, आर् जे डी तः१६, कोण्ग्रस् दलात् ६ च सामाजिकाः सचिवपदे भविष्यन्ति।
गोयङ्क एक्सलनस् वार्तामाध्यमपुरस्कारेण बिजु परवत्तः सम्मानितः।
विदेशचार्टर्विमानसेवनानि इतःपरं भारतात् अपि आरब्धुं शक्यते।
नवदेहली - व्योमयानमण्डले विदेशनिक्षेपे उदारीकृते विदेशचार्टर्विमानसेवनानि भारतात् आरब्धुं साध्यता जाता । अस्मिन् मण्डले अधुना चतुस्सप्ततिप्रतिशतम् एव विदेशनिक्षेपाय अनुमति: विद्यते। तत् इतःपरं शतप्रतिशतं कर्तुमेव निश्चयः। नूतनव्योमयाननये आगते वाणिज्यविनोदसञ्चारमण्डलानामपि गुणकरं भविष्यति ।
Wednesday, November 11, 2015
मुम्बई - अन्ताराष्ट्रीयक्रिकट् समित्याः(ICC)अध्यक्षस्थानात् एन्.श्रीनिवासः निष्कासितः। तत्स्थाने शशाङ्क् मनोहरः नियमितः। ICC मध्ये भारतीयक्रिकट्नियन्त्रणमण्डलस्य (BCCI) प्रतिनिधिरूपेण शशाङ्कमनोहरः संस्थायाः वार्षिकसम्मेलने चितः इत्यतः श्रीनिवासस्य स्थानचलनं सञ्जातम्।
माणिः अपराधं न कृतवानिति मुख्यमन्त्री।
केरलस्य मुख्यमन्त्री उम्मन् चाण्डी वर्यः। माणेः परित्यागपत्रं स्वीकृत्य तिरूवनन्तपुरे माध्यमप्रवर्तकैः साकं भाषमाण : आसीत् मुख्यमन्त्री । उच्चन्यायालयस्य आदेशे कुत्रचित् परामृष्टः इति विहाय माणेः उपरि कोऽपि अपराधः आरोपितः नास्तीति तेन उक्तम् । उन्नतं राजनैतिकमूल्यं मनसि निधाय एव माणिना स्थानत्यागः कृतः । अयं तस्य स्वीयः निश्चयः इत्येव मुख्यमन्त्री अवदत् । स्थानं त्यक्तुं कुतश्चिदपि सम्मर्दः नासीत् । तादृश्य : वार्ता: अतथ्याः इत्यपि तेनोक्तम् ।
1975 तः ऎक्यजनाधिपत्यसख्यस्य अविभाज्यघटकं भवति केरला कोण्ग्रस्। ततः आरभ्यऎक्यजनाधिपत्यसख्यस्य शक्तिस्रोतः भवति सः इत्यपि उम्मन् चाण्डिवर्यः अवदत् । के .एम् माणिः सभायां ज्येष्ठ: एव। तस्य सेवनं सर्वकाराय सम्पदेव । निरपराधतां प्रकाश्य सः शीघ्रं प्रत्यागच्छतु इत्यपि तेनोक्तम् ।
Tuesday, November 10, 2015
Clik here For Crackers
शुभ दीपावली । सर्वे भवान्तु सुखिनः
Shubhah Deepavalihi.. Sarve bhavantu sukhinah
Andariki Deepawali shubakankshalu
Anaivarukum iniya Dheebavali nal valhthukkal.
Deepavali naal vazhthagal.
Ellavarkkum santhoshavum ahlathavum niranja Deepavali ashamsakal
എല്ലാവര്ക്കും സന്തോഷവും ആഹ്ലാദവും നിറഞ്ഞ ദീപാവലി ആശംസകള്.
Nikulu Materegla deepavali parbada shubhashya!
Ninga eelariku santosha Deepavali.
DeepavaLi habbada hardika shubhashayagaLu.
ದೀಪಾವಳಿ ಹಬ್ನದ ಹಾರ್ದಿಕ ಶುಭಾಶಯಗಳು
ಮೋಜಿನದೀಪಾವಳಿ ಹಬ್ಬದ ಹಾರ್ಧಿಕ ಶುಭಾಶಯಗಳು
तुन्का सग्गाठंकयी दीपावली ची हार्दिक शुभेच्छा ।
Twitter antu asile pura lokaku amgel kadechan Deepavali parbeche shubhashay.
तुम्हा सर्वाना सुखी अणि आनंददायी अश्या दिवाळीच्या हार्दिक शुभेच्छा Tumha sarvana, sukhi ani aanandmayi asha ya Diwlicha hardik shubbhecha.
Apun ke taraf se sabko ekdum jhakas happy wala Diwali ki badhai.
Diwali ni hardik shubechao ne nutan varshabhinandan.
Diwali na divas par tamne ane tamara sahu pariwar jan ne diwali ni subhecha pathvu chu.
Nava varsh na raam raam/ jai shri krishna
Aanke madi ke di Diwali ji lakh lakh vadhaiyu
Tawankhey , tawanje gharawaran and dostan khey dil sa dyari ju wadayu.
Washen Diwali Shomara Murad Bath.
Deepawali ki Ram Ram.
Ram Ram sa Diwali ra jualda karu sa,aapne or aapre sagla pariwar ne diwali ra raविविध भाषासुmasama karu sa.
थे लोंगा ने दिवाली की हार्दिक शुभकामनाएं.
Tumne ani tumara samasta parivaar ne Deewali nu shubbheccha.
Aap re or aap re ghar walo ne mari tharaf su diwali ki gani gani shubha kamnaye.
Thane Diwalli ki bhot bhot badhaiaan mahri aur soon.
Tanne diwalli ki bhat bhot badhai mahri aur choon.
Raaur ke shubh Deepavali.
त्वानूं सब नूं दिवाली दी लख लख बधाइयाँ।
Twahnu Diwali diyan lakh-2 badhaiyan!!
Tohi chuv Diwali hunz hath hath Mubarak
Diwali’ us pet tohi saarni mubarak. Lassun te Pahlun.
आप सभी को खुशियों और उल्लास से भरी दिवाली की शुभ-कामनाएं !
Aap Sab ko prasannata evam anand se paripoorn Diwali ki shubhkaamnaayein!
Deepavali ki dilli mubarakhbaad app sab khavateen o hazrat ko.
Raurake Diwali ke badhayi ho.
शुभ दिपावली को पावन अवसरमा हार्दिक मंगलमय शुभकामना
Aahan sabgote ke mithilawasi ke or sa Diwali ke hardik subhkamna.
Sakalkeyi Diwali)priti o antarik subhecha. Asha kori, ei Dibas apnar jibone Anando niye ashe
दीपावली’र हार्दिक शुभेच्छा जौनाइसु आपुना’र लौक
Deepawali Ni Khirbkhe Aani Hamjauma Odehe Khasauma Rilahadu.
Apana sabhinku subha abong anandamaya DIPAVALI ra hardhik subha kamala
Deepawali fericite.
Deseamos feliz Deepavali.
ديوالي سعيد جداً
diwali Ya saeed jidan
Vous souhaite un joyeux Deepavali
Herzlichen Glueckwunsch zum Diwali
Wishing you all in advance, a very happy and fun filled Diwali. Happy Deepawali.
कोच्ची- मदिराविक्रयणलकुचविषये केरलवित्तमन्त्रिणं के एम् माणिं विरुद्ध्य भ्रष्टाचारविरुद्धन्यायालयस्य आदेशः
उच्चन्यायालयेनापि साधुः इति कृतः। पुनरन्वेषणं करणीयमिति उच्चन्यायालयेनापि निर्दिष्टम्। मदिराव्यापारिणां सकाशात् स्वीकृताविहितधनस्य विषये माणिं विरुद्ध्य नीतिपीठः रूक्षविमर्शमपि कृतवान्। केरलाकोण्ग्रस्(एम्),कोण्ग्रस्(ऐ),यू डि एफ् इत्येषाम् उन्नताधिकारसमितिः अद्य अनन्तपुर्यां सम्मिलति। बहवः दलनेतारः माणिवर्यस्य त्यागपत्रम् अभ्ययाचन्त। अतः अद्य एव स्थानत्यागाय अवकाशः अस्ति।
॥ सुवचने ॥
Monday, November 9, 2015
पाट्ना - बीहार् राज्यस्य नियमसभानिर्वाचने प्रवचनानि अप्रसक्तानि कृत्वा जे डि यू, आर् जे डि, कोण्ग्रस् महासख्यस्य अत्युज्वलविजयः। २४३ मण्डलेषु १७८संख्याकानि प्राप्य विशालसख्यः जनहितं प्रकाशितवान्। भाजपासख्येन केवलं ५८ आसन्दाः प्राप्ताः इति मोदीप्रभावस्य प्रत्याघातः सूचितः।
बीहार् - प्राप्ता आसन्दाः
महासख्यः -१७८ जे डि यु -७१ आर् जे डि -८० कोण्ग्रस् - २७ ------------०------------- |
एन् डि ए सख्यः -५८
भा ज पा -५३ एल् जे पि -०२ आर् एल् एस् पि -०२ एछ् ए एम् -०१ ---------------०------------ |
अन्ये ७ आहत्य स्थानानि -२७३ |
भाजपासंसदीयसमित्याः उपवेशनमद्य नवदिल्ल्याम्।
म्यामारदेशे गतदिने निर्वाचनं सम्पन्नम्।
Sunday, November 8, 2015
जम्मू - कश्मीरस्य विकसनाय केन्द्र सर्वकारः ८०,००० कोटि रूप्यकाणि दास्यति इति उद्घोषः । मौलिकसौकर्यविकसनं स्वास्थ्यमण्डलविकसनम् इत्यादयः बृहत्यः विकसनपद्धत्यः एव प्रधानमन्त्रिणा नरेन्द्रमोदिवर्येण उद्घोषितम् ।
Saturday, November 7, 2015
नवदिल्ली - बालीदेशे गृहीतं अधोलोकनेतारं छोटाराजं सि बि ऐ संघः दिल्लीं प्रापयत्।इन्डोनेष्यातः भारतीयव्योमसेनायाः गल्फ् स्ट्रीम् ३ इति विमाने दिल्लीं आनीतं तं सि बि ऐ आस्थानं नीत्वा ततः किमपि अज्ञातकेन्द्रं प्रति स प्रेषितः। छोटाराजस्य आनयनकारणेन मुम्बैय्यां दिल्ल्यां च अतीव जाग्रता विज्ञापिता।
नवदिल्ली - विमुक्तभटानां कृते भारतीयसर्वकारेण सेप्तम्बरमासे अंगीकृतायाः एकस्याः श्रेण्याः कृते एकं समानं रीतिः स्वीक्रियमाणा इत्यपि पद्धत्याः विज्ञापनं दीपावलेः प्राक् भविष्यतीति केन्द्ररक्षासचिवः मनोहर परीक्कर् वर्यः उक्तवान्।किन्तु मन्त्रिणः प्रस्तावना न विश्वसनीया इति समरान्दोलनं कुर्वतां विमुक्तभटानां नेता मेजर् जनरल् सद्भीरसिंहः अवदत्।अतः पुरस्काराणां प्रत्यर्पणमिति नूतनसमर रीतिः आविष्कृता इत्यपि तेनोक्तम्।
कोषिक्कोट् - भारते विध्वंसकप्रवर्तनाय चैना म्यान्मर् द्वारा बहूनि साहाय्यानि तीव्रवादसंघटनेभ्यः ददतः इति गृहीतस्य बोडोतीव्रवादिनायकस्य डिङ्कस्य उक्तिः।कोषिक्कोटे कक्कोटीतः गृहीतः बोडोतीव्रवादिनेता लिबियोण् बसुमतारी इत्याख्यः डिङ्कः अन्वेषकाणां पुरतः एवम् अपराधाङ्गीकारोक्तिं कृतवान्।
असम् , नागालान्ट् मणिप्पूर् इत्यादिषु राज्येषु प्रवर्तमानानां संघटनेभ्यः भारतसैन्यं प्रति युद्धं कर्तुं अभ्यासः आयुधश्रेणयश्च प्रातिवेशिकराष्ट्रेभ्यः लभन्ते। कार्बैन् मषिन् गण् इन्सास् सीरीस् गण् ए के ४७ ,ए के ८७. .. इत्यदीनि नालिकाशस्त्राणि चीनादेशे निर्मीय आनेतुं मध्यस्थाः बहवः सन्ति। एतादृशेषु आयुधेषु शिक्षणं संसिद्ध्य भारतसैन्यं प्रति प्रयुक्तवानिति डिङ्कः स्वस्य उक्तौ स्पष्टीकृतवान्। डिङ्कम् असमराज्यं नेतुं चिराग् जनपदात् सप्तारक्षका: अद्य कोषिक्कोट् प्राप्स्यन्ति।
Friday, November 6, 2015
तद्देशीयनिर्वाचनम् - निर्वाचनयन्त्रदोषमधिकृत्य विशेषान्वेषणम्।
मलप्पुरम् - मलप्पुरे मतदानयन्त्राणां सम्भूय जातं दोषम् अधिकृत्य विशेष: सङ्घः अन्वेषणं करिष्यतीति गृहमन्त्री रमेश् चेन्नित्तला अवदत् । निर्वाचन कम्मीषणस्य सकाशात् लब्धे सति सपदि तदधिकृत्य विज्ञप्तिः भविष्यति । अयं विषय: गौरवयुक्तः इत्यपि तेन स्पष्टीकृतम् । जनपदे यन्त्रदोषकारणेन स्थगितनिर्वाचनेषु त्रयोदश पञ्चायतेषु सप्तविंशतिषु मतदानकेन्द्रेषु पुनर्निर्वाचनं कारणीयम् इति जनपदाधिकारिणा भास्करवर्येण राज्यनिर्वाचनकम्मीषन् प्रति सूचितम्। निर्वाचनस्थगनम् अधिकृत्य विविध राजनैतिकदलैः प्रतिषेधाः कृताः आसन् । यन्त्रदोषेण सप्तत्यधिकद्विशतेषु (२७०) केन्द्रेषु निर्वाचनं स्थगितमासीत् । यन्त्रेषु निर्यासादीनां स्थापनेन दोष: कारितः इति अवलोकितमासीत् । मुस्लीमलीग् शक्तिकेन्द्रेषु एव एतत् दृष्टम् . I
तृश्शूरे यन्त्रदोषेण स्थगितनिर्वाचनेषु अष्टस्थानेषु शुक्रवासरे पुनर्निर्वाचनं भविष्यति । कुन्नत्तङ्ङाडि , दक्षिण एरव् , पूतनक्करा , वेल्लार्कुलं, अन्नमनडा , कय्पमङ्गलं एङ्ङडियूर् , चेलक्करा , इत्यादि स्थानेषु एव पुनर्निर्वाचनं भविष्यति ।