OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, September 25, 2015

रविवासरे सोमस्य आकार: 'गुरुः' भविष्यति।

"चन्दिर मातुल हे !तावक पद्मपुटे किमस्ति
नम्रमुखेन तिष्ठन् अम्बर कुम्भिराजोपरि किम्"।।

वाशिङ्टण् - चन्द्रबिंब स्य आकार: प्रकाशः च वर्धमानः सूप्पर् मूण्‌ प्रतिभासः रविवासरे रात्रौदृष्टुंशक्यते । ३३ वत्सरात्‌ पूर्वमासीत् एतादृश दृश्य विस्मयः। भूमी चन्द्रयोः स्थिति: तस्मिन् दिने नातिदूरे वर्तते। (भूमातुः चन्दिरमातुलयोः मिथः दर्शनम् )

 

 

 

स्वामी दयानन्दसरस्वती समाधिस्थः

नवदेहली - वेदान्तपण्डितः तथा आर्षविद्यागुरुकुलं स्थापकः स्वामी दयानन्दसरस्वती (85) समाधिस्थः जातः ।
उत्तराखण्डे ऋषीकेशे चिन्मयतपोवने बुधवासरे रात्रौ १० वादने आसीत् समाधि: । वृक्करोगबाधया बहुकालेभ्यः चिकित्सायाम् आसीत् । प्रधानमन्त्रिण: नरेन्द्रमोदीवर्यस्य गुरुः भवति दयानन्दसरस्वती । तमिलुनाड् राज्ये कुम्भकोणे मञ्चक्कुटि ग्रामे गोपालय्यर् बालाम्बाल् दम्पत्यो: पुत्रत्वेन 1930 आगस्त 15 दिनाङ्के जातोऽयं महात्मा । पूर्वाश्रमे नटराज इत्यासीत् नाम । 1962 तमे वर्षे स्वामिन: चिन्मयानन्दात् अयं सन्यासं स्वीकृतवान् । ततः चिन्मयानन्दस्वामिनः कार्यदर्शीरूपेण तथा "तपोवन प्रसाद "मासिकायाः सम्पादकत्‍वेन च कार्यं कृतवान्‌  । ब्रह्मसूत्रं , न्यायशास्त्रं , पाणिनीयव्याकरणम्‌ इत्यादिषु अगाध पाण्डित्यम् अस्य आसीत् ।1965 तमे चिन्मयानन्द स्वामिनः देहास्वास्थ्ये सति अयं "चिन्मय सान्दीपनी "इत्यस्य आचार्यस्थानम् ऊढवान् । ततः अमेरिकायां सैलोस् बर्ग् मध्ये तथा ऋशीकेशे आनक्कट्टी इत्यादिषु स्थानेषु वेदान्तपठनार्थम् आर्षविद्यागुरुकुलानि स्थापितवान्‌ । सप्तम्बर्‌ 11 दिनाङ्के उत्तराखण्डं प्राप्तः प्रधानमन्त्री गुरूं सन्दर्शितवान्‌ आसीत्। गुरोः देहवियोगः व्यक्तिगतं नष्टमिति श्रीमता मोदिना ट्विट्टर् मध्ये लिखितम्‌।

उत्तराखण्ड् संस्कृत अक्कादमी इत्यनया समायोजिता विविधाः संस्कृत प्रतियोगिताः

 

 हज्ज् अनुष्ठानमध्ये महान् दुरन्तः-७१७ मरणानि।

मिना-  हज्ज् अनुष्ठानमध्ये सञ्जाते महत्सम्मर्द्दे ८१७ हाजिनः मृताः।तेषु १३ भारतीयाः अन्तर्भूताः इति सूचना। ८०० परं व्रणिताः। सर्वसन्नाहेन रक्षाप्रवर्तनम् अारब्धमिति गृहमन्त्रालयेन सूचितम्। हज्ज् दुरन्ते मृतेषु  द्वौ केरलीयौ; तलश्शेरी निवासी अबूबक्कर् हाजी, कोषिक्कोट् निवासी अब्दुरह्मान् च।


वि.एम्.सि.नम्पूतिरिप्पाट् निर्यातः।

पालक्काट्- प्रमुखःआयुर्वेदाचार्यः,विषवैद्यः,तथा प्रशस्तः बालचिकित्सकः कुण्टळश्शेरि वळ्ळूर् मनयिल् वि.एम् .सि. नम्पूतिरिप्पाट् दिवंगत गतः। अन्तिमश्वासपर्यन्तं दंष्ट्रचिकित्सोपासकः अयं विषचिकित्सायै प्रतिफलं न स्वीकृतवान् । कुलधर्ममनुसृत्य वेदाध्यनं कृत्वा संस्कृतभाषायां पाण्डित्यमवाप्य आयुर्वेदं पठितवान्। रैक्वऋषिपुरस्कारः, केरलीय आयुर्वेदसमाज-पुरस्करः इत्यादिभिः  समादृतः आसीत्।

Thursday, September 24, 2015

मंगलयानं दौत्यमनुवर्तिष्यते

बङ्गलुरु -बहिराकाशगवेषणे भारतस्य अभिमानतारकं मंगलयानं बहुकालं प्रवर्तननिरतं भविष्यति इति गवेषकाः। कुजग्रहस्य भ्रमणपथे मंगलयानपेटकं वर्षमेकं पूर्तीकुर्वत् अस्ति। इतःपरं ३५किलो. इन्धनमव-शिष्यते इति आह्लादं प्रददाति।


 मोदी अयर्लान्डदेशं प्राप्तः

h
छात्राः संस्कृतगीतानि गायन्ति 

h
डब्लिन्- भारतप्रधानमन्त्रिणः नरेन्द्रमोदिनः द्विराष्ट्रसन्दर्शनं प्रारब्धम्।ह्यः सः अयर्लान्डं प्राप्तः।तत्रस्थः आरोग्यमन्त्री लियो वराद्करः डब्लिन् विमानपत्तने मोदिनं परम्परागतरीत्या स्वीकृतवान् उभयराष्ट्रसंबऩ्धिनः बहवः विषयाः चर्चीकृताः । परस्परं सम्मानितवन्तौ च।मोदी तु ऐरिष् क्रिकट्दलस्य मोदी इत्यालिखितेन दलवस्त्रेण सम्मानितः।

तद्देशनिर्वाचनं नवम्बर मासे

कोच्ची- केरलराज्ये तद्देशस्थापनेषु निर्वाचनं नवम्बरमासस्य द्वितीयवारा- भ्यन्तरे पूर्तीकरिष्यति इति राज्यनिर्वाचनकम्मीषन् इत्यनेन उच्चन्यायालये सत्यवाङ्मूलं प्रदत्तम्। ओक्टोबर् १० दिनाङ्कात्पूर्वं विज्ञापनंभविष्यति। फलप्रख्यापनं नवंबर.१५ तमे दिनाङ्के करिष्यति।


'अमृतकीर्ति' पुरस्कारेण मुतुकुलं श्रीधरकविराजः सम्मानितः।

कोच्चि - २०१५ वर्षस्य अमृतकीर्ति पुरस्कारेण संस्कृतपण्डितः मुतुकुळं श्रीधरः सम्मानितः।
संस्कृत भाषायै क्रियमाणं समस्तं योगदानम् पुरस्कृत्य एव अयम् आदर:। 123456 स्प्यकाणि सरस्वत्याः शिल्पं , प्रशस्तिपत्रं च पुरस्कारे अन्तर्भूतानि

 
   भारतीयविचारकेन्द्रस्य निदेशक: पि. परमेश्वरः, श्री शङ्कराचार्य विश्वविद्यालय स्य भूतपूर्व उप कुलपति : डा. एन्‌ पि उण्णि:, कवि: पि नारायणक्कुरुप्प् , डा. शङ्‌कर् अभयङ्कर् , प्रतिभा राय्, स्वामी अमृतस्वरूपानन्द:, स्वामी तुरीयानन्द: इत्यादयः  विद्वांस: मिलित्वा पुरस्कारनिर्णयमकुर्वन् ।


  आगामिनि  रविवासरे आधुष्यमाणे मातुः अमृतानन्दमय्या: जन्मदिनोत्सवे पुरस्कारसमर्पणं भविष्यति।
   संस्कृतभाषायै अर्पितमनस्क: अयं कावि:संस्कृत भाषातः कैरल्यां अनेकान्  ग्रन्थान् विवर्तनमकरोत्
श्रीनारायणचरितामृतम्, श्रीविद्याधिराजचरितामृतम् , पञ्चमहाकाव्यानि च अनुवाचक हृदयेषु एवं चिरप्रिष्ठिताः ।
१९७६ तमे वर्षे नवभारतं नाम प्रथमग्रन्थः प्रकाशितः
अनन्तरं विद्याधिराजविजयं, नायकाभरणं, अश्रुपूजा, धर्मस्थलीयं च प्रकाशितेषु ग्रन्थेषु प्रसिद्धाःजाताः।

प्रधानमंत्री पञ्चदिवसीयामेरिकायात्रर्थं न्यूयार्कनगरं सम्प्राप्तः
यदि गृहे शौचालयं नास्ति तर्हि निर्वाचनेषु प्रत्याशित्वं नैव – नित्यायोगः

Wednesday, September 23, 2015

नियन्त्रणरेखायाः समीपे अपि अतङ्किन:  परिशीलनाङ्कणम्

नव दिल्ली-
 १७ संख्याकेषु केन्द्रेषु ११५० संख्याका: आतङ्किनः पाकिस्थानेषु पाकधिनिवेशकाश्मीरेषु च परिशीलनं कुर्वन्ति इति भारतसेनाया: मतम्  ।
नियन्त्रणरेखायाः समीपे २३ केन्द्रेषु  अवसरं प्रतिपाल्य तिष्ठन्ति ३२५ भीकरा: इति वदति भारत सैन्यनायक: लफ्. जन.सतीष् दुव। भारतीय बौद्धिकदलानां वाचमनुसृत्य १००० - ११५० भीकरा: तत्र परिशीलनं कुर्वन्त:सन्ति ।
एते नियन्त्रणरेखाया: समीपे २५ विक्षेपणतलानि निर्मितवन्तः । भारतम् आक्रमितुम् उद्युक्ताः भूत्वा ३१५-३२५ आतङ्किनः तिष्ठन्ति। किन्तु भारतीय सैनिकैः सुरक्षाम् अवर्धयत् । अधुनापि आतङ्किनाम् आगमनं वर्धन्ते ।

हज्ज् अनुष्ठानानि आरब्धानि।

मक्का - इस्लाम विश्वासिनां
पुण्यक्षेत्रे अनुष्ठानकर्माणि
आरब्धानि।सर्वे मिनां गच्छन्ति।अरफासंगमं अद्य 
भवति।


 

विद्यालयेषु शनिवासरे विरामः

अनन्तपुरी- केरलेषु विद्यालयेषु सर्वकारेण शनिवासरे विरामः प्रख्यापितः।अस्य स्थाने अक्टोबर् ३ शनिवारे प्रवृत्तिदिनं भविष्यति। विरामदिनानाम् आधिक्येन यथासमयम्  अध्ययनं न समाप्यते केरलेषु ।

स्लीप्पर् चिटिकानिरोधनंप्रतिनिवृत्तम्।
नव दिली - रेल्यात्रिकानां कृते दिने स्लीप्पर् चिटिकालाभाय प्रति निस्थाने counter मध्ये यत् सौकर्यमासीत् तत् पुनः- स्थापयितुं निश्चितम्। यात्रिकाणां महत्प्रतिषेधानन्तरमेव ईदृशः निर्णयः।

अन्ते नवमे दिने पुनर्जन्म .......

षिंला - अतिवृष्टौ यन्त्रदोषे च सति अनवरतं कृतं रक्षाप्रवर्तनं सफलम् । हिमाचलप्रदेशे सुरङ्गनिर्माणे अन्तर्बद्धौ मणिरामः सतीश तोमर: च नवमे दिने बहिर्लोकं दृष्टवन्तौ ।
शारीरिकास्वास्थ्यम्  अस्ति चेदपि तौ सम्भाषणं  कुरुतः । एतयोः सहप्रवर्तकस्य हृदयरामस्य कृते अन्वेषणं प्रचलति इदानीमपि ।

सप्तम्बर् १२ दिनाङ्के एव हिमालयन् कण्स्ट्रक्षन् कम्पनी कार्यकर्तार: एते त्रयः विलासपुरे किरातपुर - नेरचौक मार्गे निर्माणं कुर्वतः मार्गस्य सुरङ्गे अन्तर्बद्धाः । देशीयदुरन्तप्रतिरोधसेनायाः नेतृत्वे रक्षाप्रवर्तनम् आरब्धम् 1.2 मीटर् व्यासे 47 मीटर् गहने खनित्वा एव रक्षाप्रवर्तकाः सुरङ्गं प्राप्तवन्तः । तदभ्यन्तरे यन्त्रस्य प्रवर्तनमपि स्थगितम्। यन्त्रदोषं परिहृत्य पुनरपि खननम्। तथापि द्वयो: जीवः पुनर्प्राप्तः इति सर्वेषाम्‌  आनन्दः ।                                  लेखिका -सुजा हरिदासः

Tuesday, September 22, 2015

 प्रधानमन्त्रिणः अयरलन्ट् पर्यटनम्
नव दिल्ली - सप्तम्बर् २३दिनांके प्रधानमन्त्री अयरलन्ट् सन्दर्शनार्थं गमिष्यति। पूर्वतन प्रधानमन्त्रिणा  श्रीमता जवाहर्लाल् नेह्रू महोदयेन १९५६वर्षे अयरलनट् सन्दर्शितम्। तत: परमिदानीमेव भारतप्रधानमन्त्रिणः सन्दर्शनम्।

  वर्त्ता प्रसारः प्रारभ्यते।  

कोच्ची - प्रारंभादेव समूहमध्ये तरड़्गमुत्पादयितुं जनम् T V संस्कृतभाषायां वार्त्ताविष्कारः अर्कुवन्।  चलचित्रनायकेन महता मोहनलाल वर्येण वार्त्तायाः वाचनं विधाय प्रसारणस्य उद्धाटनं विहितमासीत्। अक्टूबर्  मासस्य द्वितीय दिनाड़्कतः प्रतिदिनं  सायं पञ्चवादने जनसन्निधौ साक्षात्करिष्यति। देशीय वार्त्तावाचनाय प्रवाचकः श्री नितीष् गोपी, श्री शरत् मित्रन् ,श्रीहरिकृष्णन् ,

 मूल्यं मनुष्यात् अपि 

कोलम्बो-   केवलं त्रिंशत् रूप्यकाणां प्राप्तये युवक: स्वपत्नीं द्विवर्षीयशिशुं च समुद्रे प्राक्षिपत्। अनन्तरं स:  गेहमागत्य पत्न्या सम्पादितं धनं स्वीकृत्य गतवान् परं जना: तं गृहीतवन्त:। पत्नी रक्षां प्राप। शिशुः न लब्धः
 

•केन्द्रेण चिकित्सापर्यटनकल्याणसमिती रचयिष्यते


*
कुमारी अश्वती विजयन् , कुमारी अश्वती गोपिनाथ् , कुमारि आर्यालक्षी,  कुमारि निवेदिता सत्यन् प्रभृतयः सन्ति।  वार्त्तादलस्य नियन्त्रकः श्री सुधीष् ओ एस् भवति। सः अनन्तपुर्यां संस्कृतकलालयस्य ज्योतिषविभागस्य सहाचार्यः वर्त्तते । संस्कृतजगति केरलीयानां संरम्भोऽयं विजयमुपगच्छदिति संस्कृतकुतुकिनामाशंसनानि।

 

 पाप्पा-कास्ट्रो मेलनमभवत्  

हवान- क्यूबा सन्दर्शनपध्ये फ्रान्सिस् पापा फिडळकास्ट्रोः भवनं गतवान्।धर्मं ,समकालिक-
विषयान् चाधिकृत्य चर्चा
अभवत्।

 

•मोहनभागवतः नारक्षणविरोधी-राष्ट्रियस्वयंसेवकसंघः
•दिल्ल्यां केन्द्रीयचिकित्सालयेषु डेंगूरोगिभ्यः अतिरिक्तशय्याः



Monday, September 21, 2015

 राज्य स्तरीय संस्कृत प्रतियोगिता
उत्तराखंडे उत्तराखंड संस्कृत अकादमयाः प्रयोजने राज्यस्तरीय संस्कृत प्रतियोगितायाः आयोजनमं प्रचलति। संपूर्णे उत्तराखंडे अधुना खंडस्तरीय जनपदस्तरीय च प्रतिस्पर्धाः प्रचलन्ति।अन्ते राज्यस्तरीय प्रतियोगीतायाः आयोजनमं भविष्यति। प्रतियोगितायां विद्यालयस्तरियाः महाविद्यालयस्तरियाः च छात्राः प्रतिभागं कुर्वन्ति।तत्र संस्कृत गीत-नाटक- नृत्य-भाषणादिनां प्रतिस्पर्धा भवति।पुरस्काररूपेण लक्षाधिक रूप्यकाणि सन्ति।

जगमोहन् डाल्मिया दिवङ्गतः
 
नव दिल्ली -    भारतीय क्रिकेट् सञ्चालकसमितेः अध्यक्षः जग् मोहन् डाल्मिया दिवङ्गतः । हृदयाघातकारणादेव अस्य मृत्युः अभवत् ।कलकत्ता नगरे अद्य सायं सः मृत्युवशगः अभूत् ।


  गायिका राधिकातिलकः दिवङ्गता
Image result for radhika thilakकोच्चि - प्रशस्ता  गायिका राधिकातिलकः दिवङ्गता। एरणाकुले कस्मिंश्चित् आतुरालये आसीत् अन्त्यम् । 45 वयः आसीत् । ज्वरबाधया केभ्यश्चित् दिनेभ्यः चिकित्सायाम् आसीत् । अणुबाधया एव मरणम् अभवत्। सार्धैकवर्षतः सा अर्बुदरोगबाधिता आसीत् ।
ललितसङ्गीतमण्डले कोकिलस्वरमिव केरलजनानां मनस्सु चिरप्रतिष्ठिता सा । अनन्तरं कैरलीचलच्चित्ररङ्गे कानिचन अतिमोहनानि गीतानि अपि तया प्रदत्तानि । षष्ठ्यधिकानि चलच्चित्रगीतानि तया गीतानि। येशुदासः, एम्.जि.श्रीकुमारः, जि . वेणुगोपाल: इत्यादिभिः सह विविधासु  वेदिकासु सा गीतवती ।
मायामञ्जलिल् ...(ओट्टयाल् पट्टालं) देवसङ्गीतं...(गुरु) एन्टे उल्लुडुक्कुं.., निन्टेकण्णिल् .... ( दीपस्तम्भं महाश्चर्यम्‌) मञ्ञक्किलियुटे (कन्मदं) इत्यादीनि गीतानि श्रद्धेयानि । आकाशवाण्यां दूरदर्शने च ललित गीतानि गायति स्म। तत्र ए ग्रेड् आर्टिस्ट् आसीत् । दूरदर्शनादि विविधवाहिनीषु अवतारिका अपि आसीत् ।

भर्ता सुरेश: पुत्री देविका । गायिका सुजाता , गायकौ  पि. जयचन्द्रः, जि.वेणुगोपालः च अस्याः बान्धवाः।
तस्यै संस्कृतलोकस्य श्रद्धाञ्जलयः

Sunday, September 20, 2015

इन्दिरागान्धी विमान पत्तनस्य राष्ट्रपितु: नाम्ना  पुनर्नामकरणम्

नव दिल्ली
इन्दिरागान्धी  राष्ट्रान्तर विमानपत्तनस्य नाम परिवर्तयितुमालोच्यते मोदी सर्वकारेण । राष्ट्रपितुः महात्मागान्धिनः नाम तदर्थं परिगण्यते । पालं नाम्ना प्रथितोfयं पत्तनं प्रथमम् ।  १९८६ वर्षे इन्दिरा गान्धि इति नाम्ना पुनःपरिवर्तितमासीत् । चण्डिगड्, कोच्चि, डराडूण् , उदयपुर विमानपत्तनानां नामानि अपि परिवर्तयिष्यन्ते।