OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
marquee
Sunday, September 20, 2015
Saturday, September 19, 2015
एैक्यराष्ट्रसभा रक्षासमितिपरिष्करणं नियतसमये एव पूर्तीकुर्यात्- मोदी।
श्री बाड़्किमूनाय प्रेषिते पत्रे एव मोदिना अयं निर्देश: कृत:।समितौ भारताय अड़्गत्वदानाय इतो ऽपि विलम्बकरणं नैव उचितम्।वर्तमानकाललोकसमस्यापरिहरणाय स्थिराड़्गभूतस्य भारतस्य सहकरणं स्यात्।
सुषमा प्रकाशिता
मञ्जेरी - मलपुरं संस्कृत अकादमिक समिते: संस्कृतदिनाघोषे सुषमा नामिका पत्रिका प्रकाशिता । चतुष्पुटात्मिका एषा प्रति विद्यालयं वितीर्यते। डीडीई एव कार्यमेतत् निरवहत्।
सीमसुरक्षाबलैः सीमशुल्कविभागीयैः अधिकारिभिश्च सम्भूय अमृतसरक्षेत्रे २३ किलोग्राम हेरोइन–मादकौषधमधिगतम् ।
•पेशावराक्रमणे त्रिंशज्जनाः मृताः
•बालशिक्षैव देशान्नैर्धन्यं निर्मूलयेत्-मोदी
•भारत-लाओ-देशयोः सन्धियुगलम्
भूसमान: प्ळूट्टोग्रह:- स्तब्धाः वैज्ञानिकाः।
वाशिङ्टण् - वैज्ञानिकान् अद्भुत प्रपञ्चे निवेश्य NASAयाः न्यूहोरिसोण् नामकेन बाह्याकाश पेटकेन प्ळूट्टो ग्रहस्य नवीन चित्राणि गृहीतानि । भूमे: आर्टिक् ध्रुव प्रदेशसमानानि चित्राणि तानि । हिमखण्डेन परिवृताःशैलाः समतल प्रदेशा: च तेषु द्रष्टुं शक्यन्ते । १५०० किलोमीटट्टर विस्तृतानि व्यक्तानि चित्राणि तानि प्ळूटोग्रहस्य अन्तरीक्ष - उपरितल स्थितिं व्यक्ततया सूचयन्ति इति "नास" अवदत् ।जूलै १४ दिने पेटके विद्यमानाया वैड् अङ्गिल् राफ् चित्रग्राहि द्वारा ग्रहीतेषु चित्रेषु अतिशैत्येन खनीभूता: नैट्रजन् अन्तरीक्षस्थ हिम-मेघाः च सुव्यक्ततया द्रष्टुं शक्यन्ते । एते प्रतलात् १०० किलोमीट्टर् पर्यन्तं संव्याप्य प्रसृताः दृश्यते। तत्र प्रतिदिनम् अन्तरीक्ष स्थितिषु व्यत्ययं भवति इति सूचयति इत्यपि उह्यन्ते नासया।
पाकिस्तान व्योमनिलये भीकरवादि आक्रमणं-४३ मरणानि
पेषवारः-पाकिस्तानदेशे पेषवारसमीपे बादबेर् व्योमनिलये तालिबान् भीकरैः कृते आक्रमणे सैनिकैः भीकरैः च सहिताः ४३ जनाः निहताः।
ई.श्रीधरः यू.एन्. रक्षासमित्यड्गः
कोच्चि-दिल्ली मेट्रो रेल् कोर्परेषनस्य मुख्योपदेष्टा ई.श्रीधरः यू.एन्.उन्नताधिकारसमित्यड़कत्वेन निमन्त्रितः।
Friday, September 18, 2015
अनन्तपुरी - माध्यम प्रवर्तनस्य समग्रयोगदानाय केरलसर्वकारस्य स्वदेशाभिमानी-केसरि पुरस्कारः के एम् रोयी महोदयेन लब्धः।
भारतवंशजछात्रायाः वैट्हौस् पुरस्कारः
वाषिङ्टण्- स्वकीया सन्नद्धसंस्थाद्वारा अन्तर्जालसङ्केतमुपयुज्य सामूहिकशाक्तीकरणं कृतवती इत्यतः भारतवंशजायाः अमेरिकापुरस्कारः लब्धः।१५ वर्षीया श्वेताप्रभाकरः भवति पुरस्कारजेत्री।
Thursday, September 17, 2015
संस्कृतभाषापठनाय श्रीशङ्कराचार्य संस्कृतविश्वविद्यालये ओन्लैन् पाठनकार्यक्रमः ।
कालटी श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयेन संस्कृतभाषायाः प्रचाराय परिपोषणाय च नूतना काचित् पद्धतिः आविष्क्रियते यदनुसारेण ।अन्तर्जालद्वारा मुक्तरूपेण यः कोपि संस्कृतं पठितुं शक्यते। विश्वविद्यालयस्य उपकुलपतिः डा. एम् सि दिलीप् कुमारः वदति यद् आगामिनि जानुवरि मासे प्रारप्स्यमाणा पद्धतिरियं विश्वविद्यालयस्य संस्कृतप्रचारणप्रवर्त्तनानां मध्ये नूतनं पदक्षेपणं भवति.. संस्कृतप्रेमिणः सर्वेपि अस्य फलभोक्तारः स्युः इति विश्वविद्यालय्रआधिकारिणाम् आशयः
HC डेंगूरोगनिरोद्धुमुपायानां विषये परिपृष्टम्
समाजवादिपार्टीतिदलेन निर्वाचनाञ्कृते प्रत्याशिनां प्रथमासूची उद्घोषिता
चिलीभूकम्पे मृतकानां संख्या ८ सञ्जाता
•नेपाले नवसंविधानं प्रवृत्तम्
•देशे अल्पवृष्ट्या श्रावणकृषिः क्षीणा
•राजस्थाने खनिमन्त्रिणि भ्रष्टाचरणारोपः
•चिलीदेशे भूकम्पाघातः
•अद्य श्रीगणेशचतुर्थ्युत्सवःAIR Headlines
Wednesday, September 16, 2015
भारतश्रीलङ्कादेशाभ्याम् आतङ्कवादस्य विरोधे संयुक्तरूपेण प्रवर्तितुं निश्चयः कृतः. एतस्मिन् विषये उचिताः कार्यक्रमाः अधिकृत्य उभयोरपि राष्ट्रयोः प्रधानमन्त्रिणौ चर्चाम् अकुरुताम्.
बिहारराज्ये विधानसभायाः आगामिनिर्वाचनानां प्रथमचरणार्थं निर्वाचनायोगेन अद्य विज्ञप्तिः प्रस्तोष्यते.
अन्ताराष्ट्रियातङ्कवादिसङ्घस्य इस्लामिक् स्टेट् इत्यस्य प्रवर्त्तकाः इति आशङ्क्य् तिरुवनन्तपुरं कोषिक्कोट् विमानस्थानाभ्यां चत्वारः युवकाः आरक्षिबलैः निगृहीताः.
सानिया मिर्ज़ा मार्टिना हिङ्गिस् युग्मेन अमरिकीय ओपन् टेन्निस् क्रीडासु युग्मस्तरीयः पदकः विजितः.