OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।
Showing posts with label world. Show all posts
Showing posts with label world. Show all posts

Sunday, June 25, 2023

 ईजिप्तस्य परमोन्नतादरः 'ओडर् ओफ् द नैल् ' नरेन्द्रमोदिना स्वीकृतः।

      नवदिल्ली> ईजिप्तस्य परमोन्नतादरः "ओडर् ओफ् द नैल्" पुरस्कारः ईजिप्तस्य अध्यक्षेण अब्दुल् फत्ताह् एल् सि सि वर्येण नरेन्द्रमोदिने समर्पितः। मोदिनः ईजिप्त् सन्दर्शनवेलायामेव राष्ट्राध्यक्षेण विशिष्टातिथये आदरः समर्पितः। अब्दुल् फत्ताह् एल् सि सि वर्यस्य विशेष-निमन्त्रणानुसारमासीत् भारतस्य प्रधानमन्त्रिणः ईजिप्त् सन्दर्शनम्। Link to video 

https://twitter.com/AmitShah/status/1672905724425568258?t=b7fMm6MAGqVcog6glRyhnw&s=19

Thursday, June 22, 2023

 टैटन् जलान्तर्वाहिनी यत्र तिरोभूता तत्रतः शब्दवीचयः। अन्वेषणम् अनुवर्तते।

    वाषिङ्टण्> टैट्टानिक् महानौकायाः अवशिष्टानि द्रष्टुम् अट्लान्टिक्समुद्रस्य अन्तर्भागे सञ्चारिभिः सह प्रस्थास्य अनन्तरम् तिरोभूतस्य टैटन् नाम जलान्तर्वाहिन्याः अन्वेषणम् अनुवर्तते। सन्दर्भेऽस्मिन् जलान्तर्भागे अवलोकनस्य भागतया उपयुक्तेन सोनार् उपकरणेन काचन शब्दवीचयः संगृहीताः इति प्रतिवेदनं बहिरागतम्। टैटन् यत्र अप्रत्यक्षीभूतः तस्मात् मण्डलात् एव शब्दवीचयः संगृहीताः इति बि बि सि वार्तामाध्यमेन आवेदितम्। रक्षाप्रवर्तनस्य भागतया कानडस्य पि३ विमानेन विन्यस्तेन सोनार् द्वारा एव शब्दवीचयः संगृहीताः इति अमेरिक्कस्य तीरसेनया आवेदितम्। एते अमेरिक्कस्य नाविकवैज्ञानिकाः सूक्ष्मविशकलनं कुर्वन्तः सन्ति। अष्टहोरापर्यन्तम् उपयोक्तुमेव प्राणवायुः तस्याम् अवशिष्यते इति सर्वेभ्यः भीतिजनकं भवति।

Monday, June 19, 2023

 नूतनजाति भीमसरटः संदृष्टः। इङ्लण्ट् राष्ट्रस्य तीरप्रदेशे वासः।

    वैज्ञानिकैः नूतनजाति भीमसरटः संदृष्टः। पूर्वकाले इड्लण्ट् राष्ट्रस्य तीरप्रदेशे कृतवासः जीविविभागः भवति अयम्। ऐल् ओफ् वैट्टू नाम द्वीपे आसीत् अस्य वासस्थानम्। ऐल् ओफ् वैट्ट् द्वीपे १४२ संवत्सराभ्यन्तरे आर्मेर्ट् विभागे अन्तर्भूतानां भीमसरटाणां मध्ये प्रथमतया प्रत्यभिज्ञातः भवति अयम्।

Wednesday, May 3, 2023

 कृत्रिमबुद्धिः मानवतायाः उपरि तर्जनम्-

 ए. ऐ 'धर्मपिता' जेफ्री हिण्टनः गूगलम् त्यक्तवान्।

- राणिमोल् एन् एस् 

 न्यूयोर्कः> कृत्रिमबुद्धेः धर्मपिता इति प्रसिद्धः जेफ्री हिण्टनः गूगलं त्यक्तवान्। ए. ऐ. तन्त्रज्ञानं मानवतायाः कृते त्रासः भवेत् इत्यतः सोमवासरे स: गूगिलतः परित्यागं ज्ञापितवान्।७५ वर्षीयः स: कृत्रिमबुद्धिं विरुद्ध्य कृत्रिमबुद्ध्या सह कृतेषु विषयेषु खेदं प्रकटितवान् । '' कृत्रिमबुद्धिं विरुद्ध्य स्वतन्त्रतया कार्य: कर्तव्य: इति अग्रिमः लक्ष्यः। मम अभिलाषः गूगलेन सह न सम्भवति। कृत्रिमबुद्धिः अत्यन्तं भयङ्करं भवति। ज्ञायते यत् स: सम्प्रति मनुष्यम् अपेक्षया अधिकं बुद्धिमान् नास्ति, परन्तु भविष्ये स्थितिः परिवर्तिता भवेत् इति" इति सोSवदत्। तेन इदमपि उक्तं यत् कृत्रिमबुद्धेः दुष्प्रभावानधिकृत्य जनान् ज्ञापयेत् इति । 

   २०१२ तमे वर्षे हिण्टनः छात्रद्वयेन सह एकम् अल्गोरितम् (algorithm) निर्मितवान् यत् कृत्रिमबुद्धेः उपयोगेन छायाचित्रं सामान्यतथ्यं च ज्ञातुं शक्नोति। चाट् ,GPT इत्याद्याः नूतनकृत्रिमबुद्धय: हिण्टनस्य अनुसन्धानस्य फलान्येव।

Thursday, March 16, 2023

 चीनेषु त्रिसंवत्सराणि यावत् दीर्घितानां नियन्त्रणानां परिसमाप्तिः। सन्दर्शकानां कृते चीनेन सीमा उद्घाटिता।

  कोविड्रोगप्रसरणहेतुना चीनेन त्रिसंवत्सराणि यावत् स्थगितानि प्रवेशानुमतिपत्राणि पुनर्दातुं निश्चितानि। प्रवेशानुमतिपत्रं विना गन्तव्येषु प्रदेशेषु पूर्ववत् प्रवेशं कर्तुं शक्यते । कोविड्रोगव्यापनहेतुना चीनेषु दापितानि अतिनियन्त्रणानि पूर्णतया निर्वर्तनार्थं सूचना भवति एषः प्रक्रमः इति निर्णयः अस्ति। त्रिसंवत्सराणि यावत् चीनेन विदेशीयानां पुरतः कवाटः कीलितः आसीत् ।

Friday, March 10, 2023

 जीर्णफलस्य दुर्गन्धेन कक्ष्यायां छात्राः मुग्धाः। इराने विषवातकप्रयोगः।

   इरानस्य राजधान्याः टेहरानस्य दक्षिणभागे वर्तमानस्य खूं नगरस्य मध्ये विराजमानस्य नूर् प्रैद्योगिकी विद्यालायस्य छात्राः मुग्धाः भूत्वा पतितवत्यः।  छात्राः प्रथमतया विस्फोटकशब्दः श्रुतवत्यः। अनन्तरं जीर्णफलस्य दुर्गन्धः सर्वत्र व्याप्तः। छात्राः मोहेन वमनेन श्वासस्तगनेन च अधः पतितवत्यः। नूर् विद्यालयस्य १८ छात्राः अस्वास्थ्यकारणेन आतुरालयं प्रविष्टाः। राष्ट्रस्य विविधेषु बालिकाविद्यालयेषु एवं विषवातकप्रयोगाः अभूवन्। एवं १२०० बालिकाः विषवातकप्रयोगेन क्लिष्टाः अभवन्।  राष्ट्रस्य बालिकाः उद्दिश्य कृतः नीचप्रयोगः भवति अयम् इति प्रतिवेदनमस्ति। 

   समीचीनतया शिरोवस्त्रधारणं न कृतम् इत्युक्त्वा आरक्षकैः संगृहीता नारी कारागारे मृता इत्यनेन आराष्ट्रं वनितानां प्रतिषेधः प्रचलन् अस्ति। मानवाधिकारप्रवर्तकाः अयं विषवातकप्रकरणस्य शिरोवस्त्रप्रकरणेन सह सम्बद्धः अस्ति इति वदन्ति।

Tuesday, July 7, 2020

डोवल्-वाङ् यि चर्चा फलं प्राप्नोति - सीमायाः चीनस्य प्रतिनिवर्तनम्।
      नवदहली> चीनभारतयोः मध्ये सीमाविषये सञ्जातस्य तर्कस्य परिहारः भारतस्य देशीयोपदेष्टा अजित् डोवल् महाभागः चीनराष्ट्रस्य विदेशकार्यमन्त्रिणा वाङ्यि महोदयेन कृतया चर्चया जायमानः दृश्यते। शुभसूचकत्वेन सीमायाः तर्कभूमेः चीनस्य सैनिकसङ्‌घः प्रतिनिर्वतः इति वृत्तान्तः माध्यमलोकेन प्रकाशितः वर्तते। चीनस्य सैनिकसङ्‌घः तर्कभूमेः कि.मि द्वयं यावत् प्रतिनिवर्तः इति वृत्तान्तः आगतः वर्तते।डोवल्-वाङ्यि महोदययोः मध्ये संवृत्ता चर्चा घण्टाद्वयं यावत् अभवत्। चर्चेयं सौहृदात्मिका आसीत्, भाविकालेऽपि द्वयोरपि राष्ट्रयोः सीमनि नियन्त्रणरेखायां एतादृशप्रतिसन्धेः नियन्त्रणाय चर्चायां निर्णयः स्वीकृतः वर्तते - माध्यमलोकः अवलोकयति।

Tuesday, April 3, 2018

कोमण् वेल्त् क्रीडायाः समारम्भः बुधवासरे। शुभप्रतीक्षया भारतसङ्घः।
        गोल्ड् कोस्ट्> एकविंशति (२१)तम कोमण् वेल्त् क्रीडायाः समारम्भः बुधवासरे ओस्ट्रेलिया राष्ट्रस्य गोल्ड् कोस्ट् नगरे भविष्यति।  उद्घाटन-समारोहानन्तरं गुरुवासरे भविष्यति स्पर्धायाः समारम्भः। एप्रिल् मासस्य पञ्चदश (१५) दिनानि यावत् अनुवर्तन्ते क्रीडाः। कायिकस्पर्धाः एप्रिल् मासस्य अष्टमदिनाङ्कात्  समारप्स्यते। १९५ पुरुषाः १०५ स्त्रियः च भारतस्य विजयम् अभिलष्य क्रीडाङ्कणे अवतरिष्यन्ति।
       बाट्मिन्टण् क्रीडायां पि वि सिन्धु, सैना नेवाल्,  किदम्बी श्रीकान्त्, मल्लयुद्धे साक्षी मालिक् , कायिकक्रीडायां नीरज् चोप्र, वि नीन, नयन जयिंस्। मुष्टिथुद्धे मेरिकोम्,  विकास् कृष्ण, गोलिका प्रहारे जितु राय् नामकेषु एतेषु क्रीडकेषु   एव भारतस्य प्रतीक्षा