OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।
Showing posts with label Sanskrit. Show all posts
Showing posts with label Sanskrit. Show all posts

Saturday, September 23, 2023

 उत्तराखण्ड संस्कृताकादमीद्वारा पाबौविकासखण्डे प्रतियोगिता।


-वार्ताहर:-कुलदीपमैन्दोला।कोटद्वार।

   उत्तराखण्डसंस्कृत-अकादमीद्वारा २६, २७ सेप्टेम्बर् दिनाङ्कयो: संस्कृतप्रतियोगितानाम् आयोजनं प्रतिविकासखण्डेषु क्रियते। कनिष्ठवर्गे ६ कक्षातः १० कक्षापर्यन्तं कनिष्ठवर्गस्य छात्राः तथा वरिष्ठवर्गे ११ कक्षातः स्नातकोत्तरस्तरपर्यन्तं छात्राः भागं ग्रहीतुं शक्नुवन्ति। संस्कृतनाटकं, संस्कृतनृत्यं, संस्कृतसमूहवाक्पटुता, संस्कृतविवादः, श्लोकोच्चारण़प्रतियोगिता उभयत्र वर्गेषु आयोज्यन्ते। पौडीजनपदस्य पाबौविकासखण्डे उत्तराखण्डसंस्कृत-अकादमीद्वारा २६-२७ सितम्बर्-दिनाङ्के खण्डस्तरीय-संस्कृत-छात्र-प्रतियोगिता अपि आयोजिता अस्ति । पाबौविकासखण्डस्य खण्डशिक्षाधिकारी श्री अमितचौहानस्य मार्गदर्शने खण्डसंयोजक: श्रीकांतदुदपुडी प्रतियोगितां सम्पादयिष्यति। मार्गदर्शक: खण्ड-शिक्षा-अधिकारी श्री अमितचौहान: आदिष्टवान् यत् प्रतियोगितासु सर्वविद्यालया: स्वसहभागितां उत्साहपूर्वकं सुनिश्चितं कुर्यात् च प्रथमद्वितीयतृतीयस्थानविजेतृभ्यः अकादमीद्वारा निर्धारितरूपेण साक्षात्पुरस्कारः प्रदत्तः भविष्यति।

Thursday, July 6, 2023

 गुरुपूर्णिमाया: शुभावसरे उज्जयिन्यां विशिष्टव्याख्यानं सञ्जातम् 

(डॉ.दिनेश चौबे)


बुद्धिदानेन गुरुः सन्तापहारक: सर्वार्थप्रकाशको गुरुः साक्षात् परमात्मरूपः - डा. बलदेवानन्दसागरः

गुरुः दोषान् दूरी करोति गुरुरेव ज्ञान-विनय संस्कार सदाचारादीनाम् आधानं करोति - डा. सी जी विजयकुमारः

 उज्जयिनीस्थःमहर्षिपाणिनि-संस्कृत-वैदिकविश्वविद्यालय:, मध्यप्रदेशसंस्कृतिविभागस्य त्रिवेणीपुरातत्त्वसंग्रहालय:, उज्जयिनी इत्यनयो: संयुक्ततत्तावधाने ज्ञानसंप्रेषणस्य आदर्शपद्धति: गुरु-शिष्यपरम्परा इति विषये विशिष्टव्याख्यानस्यमायोजितम् । 

Thursday, June 22, 2023

 टैटन् जलान्तर्वाहिनी यत्र तिरोभूता तत्रतः शब्दवीचयः। अन्वेषणम् अनुवर्तते।

    वाषिङ्टण्> टैट्टानिक् महानौकायाः अवशिष्टानि द्रष्टुम् अट्लान्टिक्समुद्रस्य अन्तर्भागे सञ्चारिभिः सह प्रस्थास्य अनन्तरम् तिरोभूतस्य टैटन् नाम जलान्तर्वाहिन्याः अन्वेषणम् अनुवर्तते। सन्दर्भेऽस्मिन् जलान्तर्भागे अवलोकनस्य भागतया उपयुक्तेन सोनार् उपकरणेन काचन शब्दवीचयः संगृहीताः इति प्रतिवेदनं बहिरागतम्। टैटन् यत्र अप्रत्यक्षीभूतः तस्मात् मण्डलात् एव शब्दवीचयः संगृहीताः इति बि बि सि वार्तामाध्यमेन आवेदितम्। रक्षाप्रवर्तनस्य भागतया कानडस्य पि३ विमानेन विन्यस्तेन सोनार् द्वारा एव शब्दवीचयः संगृहीताः इति अमेरिक्कस्य तीरसेनया आवेदितम्। एते अमेरिक्कस्य नाविकवैज्ञानिकाः सूक्ष्मविशकलनं कुर्वन्तः सन्ति। अष्टहोरापर्यन्तम् उपयोक्तुमेव प्राणवायुः तस्याम् अवशिष्यते इति सर्वेभ्यः भीतिजनकं भवति।

Monday, March 20, 2023

 वाक्सुधासत्रं २७,२८,२९ दिनाङ्केषु।

    आधुनिककाले संस्कृतम् संस्कृतानुवादस्य  प्राधान्यं च इति विषयमधिकृत्य प्रचाल्यमानं त्रिदिवसीयं सत्रं  मार्च् २७, २८, २९ दिनाङ्केषु भविष्यति। अमृत विश्वविद्यापीठस्य कोच्ची परिसरे एव कार्यक्रमः आयोक्ष्यते। भारतसर्वकारस्य भाषाविभागस्य आर्थिकसाहाय्येन  संस्कृतभारत्याः साह्येन तथा अमृतविश्वविद्यापीठस्य सांस्कृतिक- भारतीय - अध्ययनविभागेन  च सत्रमिदं प्रचलिष्यति। 

 संस्कृतभारत्याः पण्डितरत्नपुरस्कारः स्वप्रभानन्दस्वामिने, शर्माजी पुरस्कारः टि . सि. सजीवाय च समर्पयिष्यते

वार्ताहरः - डा. पि. के. शङ्करनारायणः

    ज्ञानेन तपसा सुव्यक्तेन मार्गदर्शनेन च सर्वेषां सज्जनानाम् आदरपात्रं भवति पूजनीयः स्वप्रभानन्दस्वामिपादः। अरुणापुरस्थस्य श्रीरामकृष्णाश्रमस्य अध्यक्षः श्रीरामकृष्णसंस्कृतमहाविद्यालयस्य प्राचार्यः च आसीत्, इदानीं तिरुवनन्तपुरस्थिते श्रीरामकृष्णाश्रमे वसन् संस्कृतसेवानिरतः अयं महात्मा। पूजनीयाय स्वामिपादाय अस्य संवंत्सरस्य पण्डितरत्नपुरस्कारं संस्कृतभारत्या दीयते। संस्कृतप्रचारकार्यनिरताय शिक्षकवर्याय सजीव‌् टी सी महाशयाय (गवण्मेन्ट् हयर् सेकेन्टरी स्कूल् एरुमप्पेट्टि) शर्माजीपुरस्कारः अपि दीयते। पुरस्कारसमर्पणम् एप्रिल् मासस्य ३० तमदिनाङ्के कोल्लं महानगरे सम्पत्स्यमाने संस्कृतभारत्याः राज्यवार्षिकसम्मेलने भविष्यति इति पुरस्कारसमित्यङ्गैः महामहोपाध्यायः डा. गङ्गाधरन् नायरः पण्डितरत्नं डा. पि. के. माधवः. डा. इ एन् ईश्वरः इत्येतैः उक्तम्।

Monday, March 13, 2023

 गीतामृतम् कार्यक्रम: सम्पन्नः।

 केरले इरिञ्जालक्कुटा चेम्मण्डग्रामे गीताशिक्षणकेन्द्राणां दिनद्वयस्य सङ्गमः प्राचलत्। गीतामृतं नाम कार्यक्रमेस्मिन् गीतासोपानद्वारा संस्कृतं पठन्तः शिक्षार्थिनः भागं स्वीकृतवन्तः । कार्यक्रमस्य उद्घाटनं विश्वसंस्कृतप्रतिष्ठानस्य पूर्वतन-प्रन्तीयोपाध्यक्षः अमृतभारती विद्यापीठस्य अध्यक्षः डा . एं . वि . नटेशः कृतवान् । संस्कृतभारत्याः प्रान्तियसम्पर्कप्रमुखः डा. पि के . शङ्करनारायणः अध्यक्ष : आसीत् । सेवानिवृत्त : संस्कृताध्यापक: अजितन् वार्यर् आशंसा भाषणं कृतवान्। प्रशिक्षणप्रमुखः पि आर् शशी स्वागतं तथा श्रीमती श्रीजा कावनाट् कृतज्ञतां च कृतवन्तौ ।

Friday, March 10, 2023

 संस्कृते समकालिकसाहित्यानां अनिवार्यता अस्ति-डो. जनार्दनहेग्डे।

वार्ताहरा - रमा टी के

 केन्द्रीयसंस्कृतविश्वविद्यालयस्य पुरनाट्टुकरस्थगुरुवायूर्-परिसरेण चेम्मण्टस्थ-शारदागुरुकुलेन च भारतशासनस्य शिक्षामन्त्रालयाधीनायाः भारतीयभाषासमित्याः च सहयोगेन   समकालीन -ज्ञान -  पाठ्यपुस्तकानां अनुवादः इति विषयम् अधिकृत्य समायोजिता त्रिदिवसीयकार्यशाला अद्य समारब्धा। केन्द्रीयसंस्कृतविश्वविद्यालयस्य निदेशकस्य प्रोफ. ललितकुमारसाहोः आध्यक्षे समारब्धायाः कार्यशालायाः  उद्घाटनं सम्भाषणसन्देशस्य सम्पादकेन विद्वान् जनार्दनहेग्डे महाभागेन कृतम्। संस्कृते अपि समकालिकसाहित्यानां अनिवार्यता अस्ति। तदर्थम्

Sunday, January 29, 2023

 भारतस्य औद्योगिकी भाषा संस्कृतभाषा भवितव्या इति पूर्वतनमुख्यन्यायाधीशः।

  नाग्पूरम्> संस्कृतभाषा भारतस्य राजभाषारूपेण प्रख्यापनीया इति सर्वोच्चन्यायालयस्य पूर्वतनमुख्यन्यायाधीशेन एस् बोब्डेवर्येण प्रोक्तम्। न्यायालयेषु आहत्य संस्कृतभाषा राजभाषारूपेण ख्यापितव्यम् इति तेन ज्ञापितम्। विषयमिदं भारतसंविधानसभापतिना बि आर् अम्बेद्कर् वर्येणापि सूचितमासीत् इति तेन उक्तम्। १९४२ संवत्सरादारभ्य माध्यमप्रतिवेदनेषु विषयमिदं प्रतिपादितमस्ति इत्यपि तेन निगदितम्।

Thursday, January 26, 2023

 अन्तर्विद्यालयीया श्लोकोच्चारण-प्रतियोगिता।

क्वला-लम्बूरम्> संस्कृतभाषायाः सुप्रचाराय क्वला-लम्बूरस्थेन इन्ट्यन् इन्टर् नाषणल् विद्यालयेन अन्तर्विद्यालयीया श्लोकोच्चारण-प्रतियोगिता सामायोक्ष्यते। अन्तर्जालमाध्यमेन भवति प्रतियोगिता। २०२३ फेब्रुवरी मासस्य ९ दिनाङ्के भवति स्पर्धा। समयः - अपराह्ने १२:३० वादने (मलेष्यस्य समयः) भविष्यति (भारतस्य समयानुसारं प्रातः १०:०० वादने)

 ६,७ कक्ष्यातः एकः छात्रः। ८,९ कक्ष्यातः एकः छात्रः इति प्रकारेण एकस्मात् विद्यालयात् भागं स्वीकर्तुं शक्यते।

 पञ्जीकरणाय अस्मिन् नुदतु - https://forms.gle/GtdQXjchnBybmnAaA

नियमावलिः अधः -

Sunday, June 30, 2019

इयम् आकाशवाणी सम्प्रतिवार्ताः श्रूयन्तां .... इति वार्ताः ।


 नवदिल्ली> संस्कृतवार्ताप्रसारणमारभ्य अद्य ४५ तमः संवत्सराः। अकाशवाणीद्वारा संस्कृतवार्ताप्रसारणं सामारभ्य ४५ संवत्सराः अतीताः। सामान्य-जनानां मनसि संस्कृतभाषां प्रति आदरः, संस्कृतभाषायाः माधुर्यं, लालित्यम् इत्यादयः च आकाशवाण्याः वार्ताप्रसारणेन उपलब्धाः इति वदामः।  संस्कृतं नाम भाषा अस्ति। तां श्रवणेन अवगन्धुं शक्यते इत्यादि भावना जनहृदयेषु प्रसृता वर्तते।
१९७५ जूण् मासस्य ३० तमे दिनाङ्के आसीत् प्रथम-संस्कृतवार्ता-प्रसारणम्। 

Sunday, May 7, 2017

भारते सर्वत्र संस्कृतप्रचरणान्दोलनस्य कालः ।
पि आर् नाथः संस्कृतप्रशिक्षण-शिबिरस्य उद्घाटनं करोति।
मलप्पुरम् > आभारतं प्रचलति संस्कृतान्दोलनम्। प्रमुखेषु वार्तामाध्यमेषु संस्कृत संबन्धिन्यः वार्ताः नागच्छन्ति चेदपि वार्ताप्रकाशने वार्तामाध्यमाः श्रद्धालवः एव। संस्कृतस्य प्राधान्यम् अस्मिन् अन्तर्जालयुगेsपि अस्ति इति जनानां संस्कृताभिमुख्यं निदर्शनमेव।
भारतस्य विविधेषु प्रदेशेषु संस्कृतभारत्याः प्रयत्नेन संस्कृतशिक्षा प्रचलति। सर्वकारस्य साह्यं विना संस्कृतभारत्या: कृता:प्रयत्ना: श्लाघनीया:।
मलप्पुरदेशे आरब्धे संस्कृतशिक्षक-प्रशिक्षण-सत्रे ४१ शिक्षार्थिनः भागं स्वीकृतवन्तः।  सत्रस्य उद्‌घाटनं साहित्यनिपुणेन पि आर् नाथन् वर्येण कृतम्। स्वागतभाषणं नारायणन् अटितिरिप्पाट् वर्यः अकरोत्‌ । पार्वतीनम्बीशन् समारोहस्य अध्यक्षा आसीत्। मेय् मासस्य षोडशदिनाङ्के सत्रं सम्पूर्णं भविष्यति।

Wednesday, April 26, 2017

संस्कृतं आर्षभारतस्य आत्मा भवति - पि. पि. श्रीधरनुणिः
कोष़िक्कोट्> आत्मा नास्ति चेत् जडः भवति । अतः भारतस्य आत्मनः संकृतस्य संरक्षणं अद्य अस्माकं कर्तव्यमेव । इयंभाषा  भाषाणांमाता , श्रेष्ठा च भवति । अतः अस्माकं संस्कारस्य पुनरानयनायनं संस्कृतेन कर्तुं शक्यते । तदर्थं विश्वसंस्कृतप्रतिष्ठानेन कृतानि कार्याणि अभिनन्दार्हाणि । " इति कविना पि. पि. श्रीधरनुणि महाशयेन उक्तम्। विश्वसंस्कृतप्रतिष्ठानस्य कोष़िक्कोट् जनपदसम्मेलनस्य प्रतिनिधिसभायाः उद्‌घाटनं कृत्वा महोदयः भाषमाणः आसीत् सः।

Monday, April 24, 2017

संस्कृतभाषापठने वर्तमानकालीना सुविधा न निषिद्धव्या - संस्कृताध्यापक फेडरेषन्।
तृश्शिवपेरूर्>केरळे वर्तमानकालीनायां शैक्षिकप्रणाल्यां मलयालभाषाशिक्षणं ओर्डिनन्स् द्वारा अवश्यंकारिते सन्दर्भे प्रथमभाषारूपेण संस्कृतम् अरबी उर्दु भाषाशिक्षणं कर्तुं छात्राणां वर्तमानकालीना  सुविधा अनुवर्तनीया इति केरळस्य संस्कृताध्यापकानां संघटनया संस्कृताध्यापक फेडरेषन् संस्थया अभियाचितम्।
   कैरळीशिक्षणं समूलं तिरस्कुर्वन्तः आङ्गलमाध्यमविद्यालयान् उद्दिश्य सर्वकारेण विज्ञापितम् आदेशम् उपयुज्य कैश्चन न्यूनपक्षभाषाः विरुध्य प्रकाशिताः प्रस्तावाः न आशास्याः अपि तु भाषाप्रेमिषु छात्रेषु अस्वस्थजनकाश्च  इति संस्थायाः राज्यस्तरीयसमित्या निर्णीता।
       कैरळीमाध्यमेनैव चरित्र शास्र गणित विषयान् अध्यापनं कुर्वत्सु ओरियन्टल् विद्यालयेषु नूतनादेशमनुसृत्य संस्कृतभाषापठनं तिरस्क्रियमाणं प्रवर्तनम् उपेक्षणीयमिति च समित्या निर्दिष्टम्।
    राज्याध्यक्षस्य वेणु चोव्वल्लूर् वर्यस्य आध्यक्ष्ये आयोजितं सम्मेलनं संस्थायाः सचिवप्रमुखेन पि जि अजित्प्रसादेन समुद्घाटितम्। सङ्घटना धुरन्धराः पद्मनाभः गुरुवायूर्, सुरेशः, रविकुमारः, मधुसूदनः, जयदेवः इत्येते भाषणं कृतवन्तः। राज्यसचिवः सि पि सनल् चन्द्रः स्वागतं अजयकुमारः कृतज्ञतां च प्रकाशितवन्तौ।

Saturday, September 24, 2016

संस्कृतविश्वविद्यालयानां महाविद्यालयानां च मूल्याङ्कनं भविष्यति 
 संस्कृतभाषाया: विकासार्थं एन.गोपालस्वामिकम्मीशनस्य निदेशः परिगण्यते 
 बेंगलूरु> बेंगलूरुनगरे राष्ट्रियमूल्यांकनप्रत्यायनपरिषदः सभागारे संस्कृतविश्वविद्यालयानां महाविद्यालयानां च मूल्यांकनार्थंसमितेः उपवेशनं प्रचलति। उपवेशनं कम्मीशनस्य प्रस्तावानुसारेण भवति।  समितिरियं संस्कृतसंस्थानां विविधपक्षान् परिशील्य नियमानां निर्माणं करिष्यति। संस्कृतसंस्थानां मूल्यांकनार्थं सर्वेपि नियमाः संस्कृतभाषायामेव स्युः इति परिषदः निदेशकः प्रो. धीरेन्द्रप्रतापसिंहः न्यवेदयत्। समितौ प्रो.हरेकृष्णशतपथी (उपाध्यक्षः ) श्रीनिवासवरखेडी, रमाकान्तपाण्डेयः विरूपाक्षजड्डीपालश्च सन्ति। इयं समितिः मासत्रये नियमान् निर्माय परिषदे समर्पयिष्यति। संस्कृतभाषाया: विकासार्थं मानवसंसाधनविकासमन्त्रालयेन निर्मिता भवति एन.गोपालस्वामिकम्मीशन्।

Tuesday, September 20, 2016

ऋग्वेदग्रन्थे संस्पृश्य ब्रिटीष्‌ सामाजिकस्य सत्यप्रतिज्ञा।
  ब्रिटण् > १६७ वर्षाणां पुरातनत्वम् अनुमीयन्तं संस्कृतग्रन्थं हौस् ओफ्‌ लोर्ड्स् कृते समर्प्य भारतवंशजः युवसामाजिकः। ब्रिटणस्य विधानसभायां युवसामाजिकः जितेष् किषोर् कुमार् एव व्यत्यस्तशैल्यां सत्यप्रतिज्ञाम् अकरोत्। माक्स् मुल्लर् महोदयेन १७४९ तमे वर्षे सम्पादितं संस्कृतभाषायां लिखितं ऋग्वेदग्रन्थं संस्पर्श्य आसीत् जितेष् किषोर् कुमारस्य सत्यप्रतिज्ञा ।
 
संस्कृतेन जन्मदिनामाशंसयन्- आप्पिल् संस्थायाः CEO

नव देहली >आप्पिलस्य स्वामी टिम् कुक्कः नरेन्द्रमोदिनः जन्मदिने संस्कृतेन शुभाशयाः प्रेषिताः। संस्कृतभाषा लोकभाषायाः गुरुस्थाने पुनरागच्छति इति वदन्ति संस्कृतप्रेमिणः। नरेन्द्रमोदिनः जन्मदिने टिट्वर् द्वारा आसीत् टिम् कुक्कस्य  आशंसा प्रकाशनम्। 'वसुधैव कुटुम्बकम्' (भवतु आवयोः) इति उक्त्वा सः मोदिनं मुदितवान् । नरेन्द्रमोदिनः सप्तषष्टितमं जन्मदिनमासीदिमम्। राष्ट्रान्तरात् सन्देशप्रलयाः आसन् अस्माकं प्रधानमन्त्रिणे।

Wednesday, August 31, 2016

रियोनगरस्य संस्कृतलोकः
रियो>ब्रसीलस्य रियो डि जनिरो ओलिम्पिक्स् महोत्सवेन श्रद्धेयम् अभवत् । किन्तु तत्र संस्कृतभाषायाः लोकमपि वर्तते। आस्मिन् लोके राज्ञी इव विराजमाना संस्कृत-शिक्षिका अस्ति ब्रसील् देशीया 'ग्लोरिया'। नवदशे वयसि भारतम् आगत्य स्वामी दयानन्दसरस्वत्याः शिष्या अभवत् सा। एतस्याः महोदयायाः नाम ग्लोरिया अरियेर इति। एकषष्टिवयस्का  एषा संस्कृतं पठित्वा ब्रसील देशस्य विभिन्नेषु भागेषु इदानीं संस्कृतं पाठयति च। पञ्च त्रिंशत् ग्रन्थानां रचयित्री भवति। संस्कृतभाषातः पोर्चुगीस् भाषायां प्रतिकृतानुवादानि ते। अष्ट संख्यकाः उपनिषदः इतः पर्यन्तं तया अनूदिताः। भगवद् गीतायाः पोर्चुगीस् भाष्यः एव अस्याः आधुनिकः ग्रन्थः । पातञ्जलं योगसूत्रम् अस्मिन् संवत्सरे प्रकाशयिष्यते।
अस्याः महोदयायाः विद्यामन्दिरं नाम विद्यापीठे सहस्रपरिमिताः छात्राः पठन्ति। तस्मिन् वयोवृद्धाः च सन्ति। १९८४ तमे कलाशालायां पठिता आसीत् सा। तस्मिन् समये आसीत् दयानन्द सरस्वत्याः अमेरिका सन्दर्शनम्। स्वामिनः प्रभाषणात् प्रभाविता सा भारतसंस्कृतिमधिकृत्य पठितुमारब्धवती। वर्ष पञ्चकेन स्वामिनः शिष्या भूत्वा संस्कृतं पठितवती। इदानीं ब्रसील् देशे बहवः शिष्याः सन्ति तस्यै। कोप्पकबाना नाम देशे भवति अस्याः संस्कृतविद्या मन्दिरम्।

Monday, July 25, 2016

बहरिन् मध्ये संस्कृत-आन्दोलनम् 
शिबिर-गणेषु एकम्
बहरिन् > गतसप्तहे बहरिन् मध्ये आयोजिते संस्कृत-संभाषण-शिबिरे आहत्य पञ्चसप्तत्यधिकाः छात्राः अभवन्।  एकैकस्मिन् गणे पञ्चविंशति छात्रान् सन्निवेश्य गणत्रयेषु शिबिरं चालितवन्तः।  एतत् सर्वम् अधुनाधुनकाले अपि संस्कृतं जीवति परं विहरति सर्वत्र इति दृष्टुं शक्नुमः इति दुबाईतः आगतः संस्कृत-सेवाव्रती सुब्रह्मण्यमहोदयः अवदत्। संस्कृत-भारत्या तत्र संभाषण शिबिरम् आयोजितम्।


साक्कीर् नायिकम् अधिकृत्य अन्वेषणावेदनम् आगामी सप्ताहे।
मुम्बई > इस्लामपण्डितं साक्कीर् नायिकं विरुध्य आरोपणानि अधिकृत्य  मुम्बई आरक्षकदलस्य सविशेषविभागः आगामी सप्ताहे आवेदनपत्रं समर्पयिष्यति। प्रस्तुतावेदनस्य आधारे  तं विरुद्ध्य व्यवहारसंबन्धः निर्णयः भविष्यति।
    बांग्लादेशस्य धाक्कायां भीकराक्रमणविषये गृहीतेष्वेकः साक्किर् नायिक्कस्य प्रभाषणेनैव  स्वयम् ऐ एस् प्रति आकृष्ट इति उक्तमासीत्। तदनुसृत्य साक्किर् नायिकं तथा इस्लामिक् रिसर्च् फौण्टेषन् इति संस्थां च विरुघ्य अन्वेषणाय मुख्यमन्त्री देवेन्द्र फड्नविसः आदेशं दत्तवान्।
   किन्तु केरलानाम् आरक्षकसंघस्य साहाय्येन महाराष्ट्र भीकरविरुद्धसंघः साक्किरस्य द्वौ अनुयायिनौ नविमुम्बईतः कल्याण् तः च गृहीतौ। एताभ्यां लभ्यमानानां प्रमाणानाम् आधारे एव आवेदनपत्रं सज्जीकुर्यादिति वरिष्ठेन आरक्षकोद्योगस्थेन व्यक्तीकृतम्।

Saturday, July 23, 2016

 संस्कृतस्य उत्कृष्ट सेवायै उत्तरप्रदेशस्य संस्कृतविद्वासः पुरस्कृताः।
 विश्वभारतीपुरस्कारः अभिराजराजेन्द्र-मिश्राय
लख्नौ > उत्तरप्रदेशस्य माननीयमुख्यमन्त्रिणा श्रीमता अखिलेशयादवेन तमे 23 जुलाई 2016 तमे दिनांके स्वकीये आवासे आयोजिते विद्वत्सम्मानसमारोहे संस्कृतविद्वासः पुरस्कृताः। उत्तर-प्रदेश-संस्कृत-संस्थान लखनऊ द्वारा 2015 वर्षस्य पुरस्कारेषु एकसहस्राधिक पंचलक्षात्मकः (5,10000 रूप्यकात्मकः) विश्वभारतीपुरस्कारः शिमलावास्तव्याय प्रोफ. अभिराजराजेन्द्र-मिश्राय प्रदत्तः। वाल्मीकिपुरस्कारः प्रयागवास्तव्याय प्रोफ. रहसविहारी द्विवेदिने प्रोफ. राधेश्याम चतुर्वेदिने च व्यास पुरस्कारः प्रदत्तः। प्रत्येकस्यराशिः एकसहस्राधिकद्विलक्षात्मकः (2,10000 रूप्यकात्मकः) भवति।
 इमे सर्वे पुरस्काराः संस्कृतस्य उत्कृष्ट सेवायै प्रदत्ताः वर्तन्ते।
अस्मिन्नेव दिने सायं 05 वादनवेलायां उत्तर-प्रदेश-संस्कृत-संस्थानपरिसरे विशेष- विविधपुरस्कारभाजां विदुषां कृते ग्रन्थलेखनक्षेत्रे पुरस्काराः प्रदत्ताः। संस्थाने आयोजितास्य पुरस्कारसमारोहस्य आध्यक्ष्यं संस्थानस्य अध्यक्षा डॉ. साधना मिश्रा कृतवती मुख्यातिथित्वं च प्रोफ. अभिराजराजेन्द्र मिश्रेण निव्यूढ़म्। प्रोफ. मीरा द्विवेदी, प्रोफ. वागीश शर्मा दिनकर,प्रोफ. जर्नादन प्रसाद पाण्डेय ‘‘मणि’’प्रोफ. बनमाली विश्वालः एते विद्वांसः विशिष्टपुरस्कारेण सत्कृताः। डा. प्रणव शर्मा च विशेषविशिष्ट पुरस्कारेण सभाजितः।
ग्रन्थलेखनक्षेत्रे सम्मानितानां विदुषां सूचिः
 पं. सत्यनारायण शास्त्री नामित पुरस्कार (बाणभट्ट)
 डॉ. राम नारायण द्विवेदी नामित पुरस्कार (पाणिनी/सायण)
वेद पण्डित पुरस्कारः प्रत्येकस्मै   सम्मानराशिः 5,1000 रूप्यकाणि।
1 श्री विवेक कुमार शर्मा 2 श्री दुर्गा प्रसाद गौतम 3 श्री वेद प्रकाश चतुर्वेदी 4 श्री रविन्द्र शर्मा वेद 5 श्री सर्वेश कुमार मिश्रा 6 श्री ज्योति स्वरूप तिवारी 7 श्री नितिन कुमार पाण्डेय 8 श्री विवेक पाठक 9 श्री तोयराज उपाध्याय 10 श्री श्याम शंकर द्विवेदी च समादृताः।

Wednesday, June 1, 2016

विशेषवार्ता
नाम- तनिष्कः, वयः- ११, स्नातक बिरुदत्रयम्।

कोच्ची > आदि शङ्करस्य केरळ देशात् ११ वयस्क: तनिष्कः नाम बालकः स्नातकबिरुदेन अलङ्कृतः। तस्मै स्नातक बिरुदत्रयं सन्ति। अष्टादशे वयसि वैद्य -बिरुदमार्जयितुमेव इदानीम् एतस्य प्रयत्नः।

केरळात् अमेरिक्कायाः कालिफोर्णियायां साक्रमेन्टा देशे वासं कुर्वन्नयं बलकः तस्य पिता बिजो एब्रहां तत्र सोफ्ट् वेर् एन्जिनियर् माता ताजि एब्रहां तत्र पशुवैद्यं करोति।

तस्मै कार्टूण् चलन चित्रं , वीडियो गयीं च रोचते, तथापि पठनेषु बद्धश्रद्धः च। सप्तमे वयसि विद्यालयपठनं समाप्य कला शालापठनमारारब्धवान् । गणिते, वैज्ञानिके, वैदेशिकभाषासु च बिरुदत्रयम् सम्पादितवान्। अमेरिक्कायाः विश्वविद्यालयतः बिरुद मार्जितः लघुवयस्कः इत्यनेन ओबामावर्येण तनुष्कः सम्मानितः आसीत्‌।


Wednesday, May 18, 2016

संस्कृत-बालसाहित्यम् विकसति- राष्ट्रिय -संगोष्ठी सेप्तंबर् मासे।
कोल्कत्त >  संस्कृत-बाल-साहित्यस्य विकासमुद्दिश्य संस्कृत-बाल-साहित्य-परिषदा सेप्तंबर् मासस्य नवमेदिने राष्ट्रिय संगोष्ठी आयोजयिष्यते। अस्य कार्यक्रमस्य मुख्य आयोजकः पुतुचेरी अरबिन्दो फौण्डेषन् संस्था एव। नवदिल्यां विद्यमाने अरबिन्दो आश्रमे सङ्गोष्ठी प्रचलिष्यति। कर्यक्रमे भागं कर्तुं पञ्चीकरणं करणीयम् इति अरबिन्दो फौण्डेषनस्य निदेशकेन सम्पदानन्द मिश्र महोदयेन उक्तम्। विशद विवरणाय  http://samskritabalasahityaparishad.org इति। अन्तर्जालपुटे प्रविश्यताम्।