OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।
Showing posts with label कौतुक वार्ताः. Show all posts
Showing posts with label कौतुक वार्ताः. Show all posts

Wednesday, April 19, 2023

 एतौ पक्षिविशेषौ स्पृशति चेत् मरणं भविष्यति। न्यूगिनियायां विषमयखगविशेषौ सन्दृष्टौ।

   गृहे वयं मनोहरवर्णयुक्तान् प्रियङ्करान् पक्षिविशेषान् पालयामः। किन्तु स्पृशति चेत् मरणकारणभूतं विषं दुर्वमन्तं पक्षिद्वयविभागमपि वैज्ञानिकलोकेन संदृष्टम्।  अध्ययनस्य अस्य पृष्ठतः डानिषस्य वैज्ञानिकाः एव। विषमयं भक्षणं भुङ्क्त्वा तत् ते स्वपक्षेषु विषरूपेण परिवर्तयितुं सक्षमौ भवतः  एतौ पक्षिविशेषौ। कुरियस्य विषमण्डूकस्य विषसमानं भवति एतैः पक्षिविभागैः दुर्वमन्तं विषमिति वदन्ति। एताभ्यां सह सम्पर्कः भविष्यति चेत् हृदयाघातःभवेत् इति पूर्वसूचना अस्ति। रीजन्ट् विस्लर् अथवा पाचिसेफालाष्लेगि (pachycephala schlegelii), रुफाय् नाप्पट् बेल्बेड् अथवा अलेन्द्रियास् रूफिनुका (Aleadryas refinucha) इत्यादिभ्यां विभागाभ्यां एव एतौ संदृष्टौ।

Monday, February 20, 2023

 पाटलपुष्पवसन्ताय जयपुरं सुसज्जम्।

    प्रणयसुगन्धं प्रसार्य पाटलपुष्पप्रदर्शिनी राजस्थाने जयपुरे सुसज्जा अस्ति। जयपुरे सञ्चारीणाम् अतीव प्रियं भवति जयपुरस्य पाटलपुष्पप्रदर्शिनी।प्रतिसंवत्सरं फेब्रुवरि मासे एव प्रदर्शिनी समायोज्यते। फेब्रुवरि २६ दिनाङ्कात् आरभ्य सिट्टि पार्क् मध्ये समायोजितायां ४८ तमां पाटलपुष्पप्रदर्शिन्यां नानाविधानां ५०० पाटलपुष्पवैविध्यानां प्रदर्शनं भविष्यति। पुष्पोत्सवेऽस्मिन् चित्ररचनास्पर्धा, राजस्थानीनृत्तं इत्यादयः कार्यक्रमाः अपि भविष्यन्ति।

Monday, January 6, 2020

विश्वस्य वृहत्तमं नूतनं पुष्पं दृष्टम्।
   सुमात्र> रफ्लेष्य इत्याख्यस्य पुष्पस्य बृहत्तमम् आकारयुक्तं पुष्पं दृष्टम्। पुष्पस्य व्यास: 111 से.मी. अस्ति। पूर्वस्मिन् कालेषु उत्पन्नेषु  आकारः 107 से. मी. आसीत् इति प्रमाणितम्। पुष्पस्य आयुः सप्ताह-पर्यन्त-मात्रमस्ति। पश्चिमसुमात्रस्य वनात् एव पुष्यं दृष्टम्। पुष्पस्य भारः सामान्येन 15 कि.लो मितं भवति। १९ शताब्दे ब्रिट्टणस्य सर् स्टां फोर् ड्रफल् साम् इत्याख्येन पुष्पं प्रत्यभिज्ञातम्। तदनन्तरमासीत् 'रफ्लेष्या' इति नामकरणम्।

Wednesday, April 17, 2019

लोमवती मधुकर्कटी। पश्चिमाद्रिपङ्क्तितिषु नवीना मधुकर्कटी लब्धा।
-डा. अभिलाष् जे
   कोट्टक्कल्> तमिल्नाट् राज्यस्य कोत्तगिरि वनेषु पूर्णतया लोमयुक्तां मधुकर्कटीं प्राप्ता। कोट्टक्कल् आर्यवैद्यशालायाः औषधोद्यान-गवेषणकेन्द्रस्य सस्यवर्गीकरणविभागस्य शास्त्रकारस्य डा.को एम् प्रभुकुमारस्य तथा डा.इन्दिरा बालचन्द्रस्य च नेतृत्वे प्रवृत्ते गवेषणे नवीना मधुकर्कटी प्रत्यभिज्ञाता । समान्य मधुकर्किटीतः विभिन्ना भवति एषा इति डा. इन्दिरा बालचन्द्रेन उक्तम्। पुष्पाणि पीतवर्णानि सन्ति। फलानां रूपं सामान्यमधुकर्कटीतः लघु भवति। नीलगिरि वनेषु अपूर्वाणां सस्यानां अध्ययने अस्ति अस्य अवगमनम्। एतत् सस्यं दक्षिण अमेरिक्कायां विद्यमान वास्कोण्सेल्लिया प्यूबसेन्स् अस्तीति निर्णीतमस्ति। मधुररसमपि न्यूनमेव। अस्यां जीवकम्  सी, ए पोट्टास्यं इत्यादीनां बाहुल्यं वर्तते। अस्य पाप्पयिन् इति वस्तुना औषधनिर्माणं भवति।  समुद्रतलात् ४९०० तः ९८०० उपरि भागे वर्तन्ते।मालियड्करा ए एन् एम् महाविद्यालयस्य सस्य शास्त्रविभागस्य अध्यापकः डा. सी एन् सुनिलः, पूर्व शास्त्रकारः नवीन कुमारः तन्त्रांश विभागस्य अङ्गः बिनु प्रकाशः इत्येते सन्ति गवेषकाः।

Wednesday, July 12, 2017

 पुत्री यानचालनं अकरोत्। माता आरक्षकैः बन्धिता।
हुस्टण् (यू एस्) > पञ्च विंशति वयस्का माता एकदशवयस्कायै पुत्र्यै: यान-चालनाय अनुज्ञा दत्ता इत्यनेन कारागारे बन्धिता अभवत्। गते शुक्रवासरे एव सन्दर्भः जातः। एकादश वयस्का बालिका दशवयस्केन सोदरेण सह आसीत् यानचालनम् इत्यतः प्रमादः द्विगुणीभूतः  जात:।
जवेन गम्यमाने  याने बलिका बालकयो: भिन्नः कोऽपि नास्ति इति दृष्ट्वा आरक्षकै: पश्चात् अनुगम्य निवारितौ।  गृहात् दूरतः सोदरं आनेतुं यानचलनाय अनुज्ञा मात्रा दत्ता।  आरक्षकैः माता अपराधिनी इति ज्ञात्वा बन्धिता च।  यानचालनार्थं अनुज्ञापत्र प्राप्त्यर्थं पर्याप्तः वयः बालिकायैः नासीत्। तादृश्यै बालिकायै चालनार्थं यानं अदात् इति गुरुतरः अपराधः एव कृतः इति आरक्षकैः उक्तम्।

Saturday, January 28, 2017

समुद्रान्तर्भागे परिणयः ।
अनन्तपुरी>परिणयः न केवलं भूमौ , समुद्रान्तर्भागे अपि कर्तुं शक्यते। कोवलं प्रदेशस्थे समुद्रे सज्जीकृते विवाहमण्डपे गतदिने कश्चन विवाहः सम्पन्नः। स्लोवेनिया स्वदेशिन्याः युणीक्का पोग्रान् नामिकायाः महाराष्ट्रास्वदेशीयस्य निखिल् पवार् नामकस्य च विवाहः एव गणतन्त्रदिने एतादृशरीत्या सम्पन्नः। 
    "स्कूबाडैविंग्" नामिकायां जलक्रीडायां निष्णातौ एतौ वधूवरौ विवाहवस्त्रैः साकं गाहनवस्त्रं च धृत्वा प्लवनपरिशीलकैः साह्येन वरणमाल्यम् अङ्गुलीयकं च परस्परं धारितवन्तौ। स्वकीयविवाहः चिरस्मरणीयः भवितव्यः इति चिन्तया एव तौ कमितारौ समुद्रान्तःस्थितं विवाहमण्डपं प्रापयितौ।

Monday, July 25, 2016

कण्डकसूकरमीनः जाले बद्धः

विषिञ्ञम् (केरळम्)>सागरमुखे  कण्डकसूकरमीनः जाले बद्धः सलिलात् बहिरानीतः सूकरमीनः झटुत्येव पादकन्तुकसमं शरीरस्य आकारम् उद्पादितवान् ,  कण्डकानि शारीरमखिलम् प्रदर्श्य भाययितुमारब्द्धवान् , जनाः आश्चर्यभरिताः अभवत् श्वेतवर्ण- बृहदाकारमुख-गोलाकारनेत्र-युक्तोടयम् Porcupine fish इति आङ्गलेये अभिज्ञायते।

Wednesday, June 1, 2016

विशेषवार्ता
नाम- तनिष्कः, वयः- ११, स्नातक बिरुदत्रयम्।

कोच्ची > आदि शङ्करस्य केरळ देशात् ११ वयस्क: तनिष्कः नाम बालकः स्नातकबिरुदेन अलङ्कृतः। तस्मै स्नातक बिरुदत्रयं सन्ति। अष्टादशे वयसि वैद्य -बिरुदमार्जयितुमेव इदानीम् एतस्य प्रयत्नः।

केरळात् अमेरिक्कायाः कालिफोर्णियायां साक्रमेन्टा देशे वासं कुर्वन्नयं बलकः तस्य पिता बिजो एब्रहां तत्र सोफ्ट् वेर् एन्जिनियर् माता ताजि एब्रहां तत्र पशुवैद्यं करोति।

तस्मै कार्टूण् चलन चित्रं , वीडियो गयीं च रोचते, तथापि पठनेषु बद्धश्रद्धः च। सप्तमे वयसि विद्यालयपठनं समाप्य कला शालापठनमारारब्धवान् । गणिते, वैज्ञानिके, वैदेशिकभाषासु च बिरुदत्रयम् सम्पादितवान्। अमेरिक्कायाः विश्वविद्यालयतः बिरुद मार्जितः लघुवयस्कः इत्यनेन ओबामावर्येण तनुष्कः सम्मानितः आसीत्‌।


Thursday, May 26, 2016

बृहदजगरं राजसर्पः अगलयत्।

कोच्ची>सर्वं गिलन्तं बृहदाकारं शक्तं च अजगरं राजसर्पः गिलति स्म। केरले एरणाकुलं जनपदे कालटी समीपे काननविभागस्य तैलतालवाटिकायामेव इयम् अपूर्वा घटना सञ्जाता।
  १२ पादपरिमितः बृहद्राजसर्पः तथावत्परिमितम् अजगरं गिलति स्म। तालवृक्षवाटिकस्थाः कर्मकराः एतद्दृश्यं वीक्ष्य वनपालकान् ज्ञापितवन्तः।
    कोटनाट् वनप्रविश्यायाः अधिकारी सर्पधारकविदग्धश्च जे बि साबुः आगत्य राजसर्पस्य वक्त्रात् अजगरं बहिर्नीतवान्। किन्तु  त्रिपादपरिमितं राजसर्पान्तर्गतः अजगरः मृत आसीत्। राजसर्पस्तु गिलितम् अजगरं बहिर्गमयितुं शिष्टं गिलितुं वा अशक्तः विषमसन्धिं प्राप्तः आसीत्।
   साबुवर्यस्तु बहुधा क्लेशयित्वा सर्पद्वयं पृथक्कृतवान्। द्वयस्यापि अतिभारत्वात् राजसर्पं स्वस्कन्धे स्थापयित्वा अजगरं हस्ते स्वीकृतवान्। अन्ते राजसर्पः जीवन्मरणसंग्रामं कृत्वा अजगरम् अवमत् च। राजसर्पं वनमेव विमोचयत।

Tuesday, May 10, 2016

विवाहमंगलाशंसकेभ्यः कृतज्ञताप्रकाशनं बालवृक्षदानेन।

कोच्ची >विवाहाघोषे  अनुग्रहीतुम् आगतवन्तेभ्यः बालवृक्षान् प्रदत्वा वधूवरौ कृतज्ञतां प्रकाशितवन्तौ। केरले एवायम् अत्यपूर्वः विवाहाघोषः सम्पन्नः। एरणाकुळं जिल्लायां मष़ुवन्नूर् कूटश्शेरि भवने रामन् नायर् सरस्वती अम्बा इत्यनयोः पुत्रस्य सुभाषस्य , वलम्पूर् इटमनगृहे अजयकुमार् शकुन्तळा दम्पत्योः पुत्र्याः निवेदितायाः च माङ्गल्यवेदिकायामेव बालवृक्षाः अतिथिभ्यः सम्माननरूपेण प्रदत्ताः। अर्णवृक्षः महागणिः मांसरोहिणी आमलकी अरिष्टः इत्यादीन् ७००संख्याकान् वृक्षान् दत्वा तौ समाजे मार्गदर्शकौ जातौ।

Thursday, March 17, 2016

क्वथिता वैतरणी इव ' पिके ' नदी
 पेरु >पुराणप्रतिपादिता वैतरणीनदी दृष्टा। पेरू राज्ये विद्यमाना पिके नामिका नदी ता दृशा भवति । क्वथिता अस्याः तापमानः नवति (९०) डिग्री सेल्ष्यस् पर्यन्तं भविष्यति। कर्ण-कर्णिकया श्रुतपरिचिता इयं नदी आन्ट्रो रुसो नामकेन पेरू देशीयेन एवI आमसोण् विपिनस्य समीपे एव प्रवहति एषा पिके। पुकल्पा नगरतः १७२ (द्विसप्तत्यधिकशतम्) किलोमीट्टर् दूरे एव अस्याः स्थानम् । नद्याः पञ्चाशत्‌ किलोमीट्टर् परिधौ जनावासः नास्ति। अत्युष्णजलम् इत्यनेन जलजीविनः अत्र न सन्ति। केवलं नव (९)किलोमीट्टर् दीर्घा इयं भौमोर्जेन एव एतादृशरीत्या तपति इति वैज्ञानिकानां मतम् । आमसोणस्य हस्तरेखा इव वर्तमाना पाषिट्ट् नद्याः सङ्गमेन इयं शन्ता भविष्यति।

Saturday, March 12, 2016

पञ्चदिनवयस्काय शिशवे 'पान्कार्ड् 'अलभत ।

पटना - बीहारराज्ये केवलं पञ्चदिनवयस्का बालिका पान् कार्डपत्रस्य स्वामिनी । पटना स्वदेशीयस्य कुमार् सजलस्य पुत्री आषी फेब्रुवरी २१ तमदिनाङ्के जनिमलभत । २६तम दिनाङ्के एव पान् कार्ड् पत्रमपि अलभत । राष्ट्रे न्यूनातिन्यूनतमे वयसि पान्कार्ड् लाभेन वैशिष्ट्यं प्राप्नोत्ययं शिशुः । जननात् परं सप्तमे दिने लब्धपत्रकः जय्पूर् स्वदेशीयः आर्यन् चौधरी आसीत् अद्यावधि इदं स्थानमलंकरोति स्म ।

Wednesday, February 24, 2016

ईजिप्ते चतुर्वयस्काय जीवनपर्यन्तं दण्डः।
कैरो> ईजिप्ते कैरो न्यायालये सङ्कलिते दण्डनीयानां पट्टिकायां चतुर्वयस्कः बालकः च । तस्मिन् आरोपितः दोषः तु हत्या' सम्पदः नाशः, समाधानान्तरीक्षस्य नाशः च । अस्वाभाविक दोषारोपः एते दोषाः अनेन प्रथमे वयसि कृतः। कैरो सैन्यस्य न्यायालयेन निर्मिता इयं पट्टिका ।

अहम्मद् मसूर् कोरानि नामकस्य बालकस्य दुरवस्थेयम्। एकस्मिन् दिने आरक्षकाः कोरानिम् अन्विष्य गृहमागताः। तैः अन्विष्यमाणः दोषी चतुर्थवयस्कः बालकः इति तस्य पिता अवदत्। किन्तु अस्मान् अवहेळयति वा इत्युक्वा बालकस्य पितरं चतुर्मासपर्यन्तं आरक्षकालये कारायां बबन्ध। ततः सः निरपराधी ज्ञात्वा अमुञ्चत। पुनः तेन पिता नियमज्ञस्य साहायेन जन्मतिथेः प्रमाणपत्रं न्यायालये अददात्। तथापि न्यायाधिपः तत् नागणयत् ।

इदानीं विषयः जनकीयविद्युत् माध्यमेषु प्रचलितः आसीत् । सैनिकन्यायालयस्य पट्टिकाकरण-प्रक्रियायां जातः त्रुटिः एव इति कैरोसैनिकाधिकारिणा उक्तम्। २०१४ तमे वर्षो ११६ दोषिणां पट्टिका एव न्यायालयेन पञ्चीकृता। रेखानुसारं  अहम्मद्अन् सूरस्य एकवयस्कः एव।




Saturday, February 20, 2016

कौतुकवार्ताः
भगवतः हनुमतः उपस्थितिरावश्यकः - न्यायालयः।

बीहारुराज्यस्य रोह्तास् मण्डलस्य न्यायाधिपेन गतसप्ताहे अतिविशिष्टामेकाम् आज्ञां प्रख्यापिता। भगवतः हनुमतः साक्षादुपस्थितिः न्यायालये भवेदिति न्यायाधिपेन उद्घोषिता। मार्गविस्ताराय   हनुमान्मन्दिरस्य पतनं कारणीयम् इति राज्यमार्गसंरक्षणविभागेन दत्ते दूषणे एव इयमाज्ञा प्रख्यापिता।मार्गस्य उपघातेनैव पञ्चमुख शिलायाः उपस्थितिः इत्यस्मात् शिलायाः पतनेनैव मार्गस्य विस्तारः साध्यः इति  मार्गसंरक्षणविभागेन न्यायालये व्यवह्रतम्।
समाना एका आज्ञा बहु सरास् मण्डलस्य न्यायालयेनापि पूर्वं प्रख्यापिता आसीत्।