'सम्प्रतिवार्तायाः' संस्कृतवार्ताप्रस्तुतिपरिशीलनं समारब्धम्।
गुरुवायूर्> केन्द्रियसंस्कृतविश्वविद्यालयस्य [CSU] सहयोगेन सम्प्रतिवार्ता नामिकायाः अन्तर्जालपत्रिकायाः नेतृत्वे विद्यालयीयछात्रेभ्यः वार्ताप्रस्तुतिपरिशीलनं सि एस् यू संस्थायाः गुरुवायूर् परिसरे समारब्धम्। छात्रेषु आत्मविश्वासेन संस्कृतवार्ताः प्रस्तुतीकर्तुं छात्राणां भाषाशुद्धीकरणाय च अभियोजनेयं प्रयोजकीभविष्यतीति सम्प्रतिवार्तायाः मुख्यसम्पादकः अय्यम्पुष़ हरिकुमारः प्रोक्तवान्।
दिनद्वयात्मकस्य परिशीलनस्य उद्घाटनं आकाशवाणी - दूरदर्शनकेन्द्रस्य तृशूर् निलयस्य प्रसारणकार्यकर्त्री [Transmission Executive] अञ्जू पि अर्जुनः अकरोत्। परिसरस्य निदेशकः प्रोफ. के के षैन् वर्यः आध्यक्ष्यमावहत्। परिसरे वेदान्तविभागाध्यापिका डो राधिका पि आर् आशंसां समार्पयत्।
सम्प्रतिवार्तायाः एवर्काला रविकुमारः स्वागतभाषणमकरोत्। संस्कृतप्रचारसभायाः उपाध्यक्षा रमा टि के कृतज्ञतां प्रकाशितवती। अय्यम्पुष़ हरिकुमारः, एवर्काला रविकुमारः, रमा टि के, डो माया ए एस् इत्येते परिशीलनस्य नेतृत्वं कृतवन्तः। केरलस्य भिन्नानां जनपदानां विद्यालयेभ्यः चिताः पञ्चाशत् छात्राः परिशीलने भागं स्वीकुर्वन्ति।