तहावूर् हुसैन् राणाम् अद्य भारतं प्रापयिष्यति।
राजधान्यां कर्कशसुरक्षाक्रियाविधयः।
नवदिल्ली> २००८ तमे वर्षे आपन्नस्य मुम्बई भीकराक्रमणस्य मुख्यसूत्रधारः अपराधी च तहावूर् हुसैन् राणा नामकं [६४] अद्य अमेरिक्कातः भारतमानयति। एन् ऐ ए संस्थया निग्रहणानन्तरं नियमव्यवहाराय प्रक्रमान् विधास्यन्ति।
कानडा-पाकिस्थानयोः नागरिकत्वं विद्यमानः राणा २०१९ तमे वर्षे एफ् बी ऐ संस्थया निगृह्य लोस् आन्जलसस्थे कारागारे बद्धः अस्ति। भारतसर्वकारस्य निरन्तरपरिश्रमस्य फलमस्ति भारतं प्रति आनयनम्।
दिल्ल्यां समीपप्रदेशेषु आनयनवीथिषु च तीव्रसुरक्षा विधत्ता।