९० दिनानि, ९० व्यापारसन्धयः
ट्रम्पसंघस्य लक्ष्यम्।
वाषिङ्टणः> इतरराष्ट्रेभ्यः प्रतिकारशुल्कस्य संग्रहणं पिण्डीकृतेषु ९० दिनेषु ९० व्यापारसन्धयः डोनाल्ड ट्रम्पेन लक्ष्यीक्रियन्ते इति वैट् हौसस्य व्यापारोपदेष्टा पीटर् नवारो निगदितवान्। राष्ट्रैः सह व्यापारचर्चासु ट्रम्प एव नायक इति तेनोक्तम्।