'पोयं ४' समुद्रमापतितम्।
ऐ एस् आर् ओ संस्थायाः दौत्यं विजयीभूतम्।
बङ्गलुरु> ऐ एस् आर् ओ संस्थया विक्षिप्तः पोयं ४ इति शास्त्रीयानुसन्धानोपग्रहः पञ्चनवति दिनानां दौत्यं सफलीकृत्य भारतमहासमुद्रं निपतितः। बहिराकाशं मालिन्यमुक्तं कर्तुं भारतस्य अभियोजनायाः प्रयत्नफलमपि भवति इदं प्रत्यानयनम्।
भारतस्य 'डोकिङ्' परीक्षणाभियोजनायाः अंशतया विक्षिप्तस्य 'स्पेडेक्स्' इति पेटकस्य अंशतया गते डिसंन्बरमासे आसीत् पोयस्य विक्षेपः। बहिराकाशे धान्यबीजानाम् अङ्कुरीकरणं, यन्त्रहस्तानां परीक्षणानि इत्यादीनि आसन् पोयस्य दौत्यानि। चतुर्विंशति उपकरणानि उपग्रहे आसन्। पञ्चाशदधिकत्रिशतं कि मी दूरे आसीत् उपग्रहस्यास्य संस्थितिः।