उर्दू भारतीयभाषा; धार्मिकसम्बन्धः न कार्यः - सर्वोच्चन्यायालयः।
नवदिल्ली> उर्दू भारते लब्धजन्मा भाषा अस्ति, तां केनापि धार्मिकविभागेन सह सम्बन्धः न कर्तव्य इति च सर्वोच्चन्यायालयेन आदिष्टम्।महाराष्ट्रे उर्दूभाषायां स्थापितानि सूचकफलकानि अपनयनीयानि इत्यभियाचिकां निरस्य एव न्यायालयस्य आदेशः।
नीतिपीठेन निरीक्षितं यत् मराठी, हिन्दी इत्येताः इव उर्दू अपि अस्मिन् विश्वे आविर्भूता इन्डो-आर्यगोत्रवर्गस्था भाषा भवति। हिन्दीभाषां हैन्दवानां उर्दुम् इस्लामिकानां च भाषा इति अधिनिवेशवर्गैः भारतसामाजिक विभजनाय उपयुक्तमासीत्।