OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, April 7, 2025

 सि पि ऐ [एम्] 'पार्टी कोण्ग्रस्' परिसमाप्तम्। 

एम् ए बेबिः नूतनः राष्ट्रिय सचिवमुख्यः। 

एम् ए बेबिः। 

मधुरा> तमिलनाटे मधुरायां प्रचाल्यमाना सि पि ऐ [एम्] राजनैतिकदलस्य पञ्चदिवसीया  राष्ट्रस्तरीयपरिषत् [पार्टी कोण्ग्रस्] रविवासरे समाप्ता। केरलीयः वरिष्ठनेता एम् ए बेबिः नूतनः राष्ट्रिय सचिवमुख्यरूपेण चितः। पूर्वस्य सचिवमुख्यस्य  ई एम् शङ्करन् नम्पूतिरिप्पाटस्यानन्तरं दलस्य समुन्नतस्थानं प्राप्नुवन् केरलीयो भवति एम् ए बेबिवर्यः। 

  दलस्य पोलिट् ब्यूरो नामिकायां  राष्ट्रिय निर्वाहकसमित्यामपि  महत्वपूर्णं परिवर्तनमभवत्। वर्तमानीनसंयोजकः प्रकाशकाराट् इत्यमुमभिव्याप्य ६ विरिष्ठनेतारः ७५ वयः इति कालावधिमतीताः इत्यनेन नूतनाः तत्स्थानमागताः। केरलस्य मुख्यमन्त्री इति कारणेन पिणरायि विजयः कालपरिधौ लाघवं प्राप्तः।