ट्रम्पशुल्के प्रत्याघातः।
विश्वकोटीश्वराणां दिनद्वयेन अर्धलक्षं कोटि डोलरमितस्य नष्टः।
मुम्बई> अंशकविपण्यां कोविड् वैराणुना जातात् महान् प्रत्याघातः ट्रम्पकर्तृकेण करविधानेन जायते । गृहोत्पादनस्य उन्नतिं लक्ष्यीकृत्य यू एस् राष्ट्रम् इतरराष्ट्रेभ्यः निर्यातानां वस्तूनां परस्परानुपातिककरविधानमिति नाम्नि विहिते अधिकशुल्के विश्वविपणिः लम्बतया निपतति इति सूच्यते। डोनाल्ड ट्रम्पस्य अयं प्रक्रमः आर्थिकमान्द्याय मूल्यवर्धनाय च हेतुः भविष्यति। अमेरिकीयविपण्यामेव महत्पतनं दृश्यते।
ट्रम्पस्य दक्षिणहस्तरूपेण वर्तमानः कोटीश्वरसूचिकायां प्रथमस्थाने विद्यमानः इलोण मस्कः महान्तं प्रत्याघातमभिमुखीकरोति। तस्य टेस्ला अंशकानि शुक्रवासरे १०% च्युतिरनुभूतानि। अनेन तस्य द्रव्यसञ्चये दिनद्वयेन २८६० कोटि डोलरमितस्य आकुञ्चनमभवत्। तथा च 'आमसोण्' इतिसंस्थायाः स्वामिनः जेफ् बिसोस् इत्यस्य २३५९ कोटि डोलरमितस्य नष्टमभवत्। मेटा स्थापकस्य मार्क् सकरबर्गस्य २७३४ कोटि डोलराणि विनष्टानि। अंशकमूल्ये १४% आकुञ्चनमभवत्। एतत्सर्वंकोविड्कालादत्रिच्यमहदाकुञनमितिसूच्यते।