भारतं प्रतिप्रहरति।
पाकिस्थानीयाः पलायनीयाः।
+ सिन्धूनदीजलसन्धिः जडीकृतः। + भारतस्य नयतन्त्रप्रतिनिधयः प्रत्याहूताः। + वागा-अट्टारि सीमा पिहिता। +पाकिस्थानेभ्यः विसापत्रं न दास्यति।
नवदिल्ली> गतदिने पहल्गामे दुरापन्नायां नरहत्यायां भारतस्य प्रतिप्रहारप्रक्रमाः आरब्धाः। भारते वर्तमानाः पाकिस्थानीयनागरिकाः क्षणेनेव भारतात् प्रतिगन्तव्याः इति सर्वकारेण आदिष्टम्। सिन्धुनदीजलं उपयोक्तुं पाकिस्थानाय दत्तः अनुज्ञासन्धिः शिथिलीकृतः।
पाकिस्थाने वर्तमानाः भारतस्य नयतन्त्रप्रतिनिधयः प्रत्याहूताः। तथा च भारतात् पाकिस्थानस्य प्रतिनिधिभिः अचिरादेव राष्ट्रं त्यक्तव्यमिति आदिष्टम्।
वागा-अट्टारि सीमा कतिपयकालं यावत् भारतेन पिहिता। नूतनानि विसापत्राणी पाक्-नागरिकेभ्यः न दास्यन्ति इति च भारतसर्वकारेण निगदितम्।