गासानिवासिनः अतिदैन्यमनुभवन्ति।
पान-भोज्य-औषध-चिकित्सालयसुविधाः विनष्टाः।
गासा सिटी> इस्रयेलस्य निरन्तराक्रमणेन गासामधिनिवसन्तः लक्षशः जनाः बहुक्लेशम् अनुभवन्ति। मुख्यातुरालयाः प्रायशः सर्वे बोम्बाक्रमणे विशीर्णाः। आक्रमणे क्षतेभ्यः परिचर्यासुविधा न लभते। विभवाः न लभन्ते इत्यतः भोज्यनस्तूनां दुर्भिक्षता अनुभूयते। विद्युत् संचारणसुविधाः विनष्टाः। जनावासकेन्द्रेषु इस्रयेलस्य आक्रमणम् अनुवर्तते।
हमासेन जनाधिवासकेन्द्राणि कवचरूपेण स्वीक्रियन्ते इति इस्रयेलस्य आरोपः। युद्धसमाप्तये अन्ताराष्ट्रियमध्यस्थश्रमाः निर्जीवाः वर्तन्ते।