आराष्ट्रं पुनरुज्जीवनाय कोण्ग्रसदलस्य निर्णयः।
अहम्मदाबादः> महात्मागान्धिनः आशयदृढतां सर्दार् वल्लभाय् पट्टेलस्य प्रायोगिकशौर्यं च समञ्जसं सम्मिल्य नूतनं कोणग्रस् दलं विनिर्मास्यतीति ए ऐ सि सि सम्मेलने प्रख्यापितम्। राजनैतिकाशयस्तरे सामाजिकनीतौ मतेतरत्वे च स्थिरपदस्थापनं कर्तुं संघटनास्तरे जनपदीयसमितिं प्रबलीकर्तुं च मार्गनिर्देशाय सम्मेलने अङ्गीकारः लब्धः।