मूल्यवर्धनं ३. ३४% इति न्यूनीकृतम्।
मुम्बई> भारते वस्तूनां मूल्यवर्धनमानं अनुस्यूततया द्वितीयमासे अपि रिसर्वबैंकस्य ४% इति निर्दिष्टपरिधेः अधः वर्तते। मार्च् मासे उपभोक्तृमूल्यमाधारीकृत्य मूल्यवर्धनं ३. ४% इति न्यूनीकृतम्। भोज्यवस्तूनां मूल्यशोषणमेव अस्य हेतुः।
अधिकतमं मूल्यवर्धनं केरले अनुभूयते - ६. ५९%। केरलग्रामेषु ७. २९% यावत् मूल्यवर्धनमानमनुभूयते।