नाषणल् हेराल्ड् प्रकरणं -
सोणियागान्धिनं राहुल गान्धिनं च विरुध्य अपाराधारोपपत्रं समर्प्य 'ई डि'। राहुलगान्धी सोनिया गान्धी च।
नवदिल्ली> नेषणल् हेराल्ड् इति पत्रिकासंस्थायाः आर्थिकद्रव्यानि गुप्तमार्गेण स्वायत्तीकृतानि इत्यारोप्य भारतीय कोण्ग्रस् नेतारौ सोणियागान्धिः राहुल गान्धिः इत्येतौ च विरुध्य प्रवर्तन निदेशालयेन [ई डि] अपराधारोपपत्रं दिल्लीस्थं रोस् अवन्यू न्यायालयं समार्पयत्। एतत्तु नूतनराजनैतिक-नियमसंग्रामस्य हेत्वात्मकं भविष्यति।
प्रकरणेSस्मिन् सोणिया प्रथमापराधी राहुलः द्वितीयापराधी चास्ति। एतौ विना कोण्ग्रस् नेतारौ सां पित्रोडा, सुमन दुबे च अपराधपत्रे सूचितौ। प्रकरणं परिगणितवान् न्यायाधीशः विशाल् गोग्नेवर्यः एप्रिल् २५ तमे दिनाङ्के पुनःपरिगणायै निश्चितवान्।