OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, April 15, 2025

 विद्यालयेषु उन्मादकोपयोगनिरोधः - शिक्षकेभ्यः परिशीलनं विहितम्। 

अनन्तपुरी> केरले  विद्यालयेषु छात्राणाम् उन्मादकवस्तूपयोगस्य निर्माजनाय अस्य वर्षस्य विरामकालीयाध्यापकपरिशीलने  उन्मादकविरुद्धपरिशीलनमपि अन्तर्भवति। छात्रान् उन्मादकवस्तूनां प्रभाववलयात् विमोचयितुम् एकदिनात्मकं प्रायोगिकपरिज्ञानं विधत्तम्। 

  उन्मादकविरुद्धविभागस्य अधिकारिणः मानसिकारोग्यविशारदाश्च बोधवत्करणवर्गे भागं स्वीकरिष्यन्ति। विद्यालयेषु शिक्षक-रक्षाकर्तृसमितीनां सामान्यजनानां च भागभाक्त्वं दृढीकरिष्यति। छात्राणां मानसिकोल्लासवर्धनाय विद्यालयपरिसरं सौहार्दात्मकं विधास्यति।