शत्रवः भारतस्य 'लेसर'मण्डलाबद्धाः।
कर्णूलः [आन्ध्रप्रदेशः]> किलोमीटर् मितदूरे वर्तमानानि शत्रूणामायुधानि निमेषाभ्यन्तरे भञ्ज्यमानं लेसररश्म्यधिष्ठितं आयुधसंविधानं भारतेन सज्जीकृतम्। डि आर् डि ओ नामिकया राष्ट्ररक्षागवेषणविकसनसंस्थया भवत्येतत् नूतनं आयुधसंविधानं साक्षात्कृतम्। आकाशे लक्ष्यस्थाने विद्यमानं ड्रोण् यन्त्रं लेसररश्मिभिः परिभञ्ज्य एव भारतस्य अयमुपलब्धिः।
लेसररश्मिमुपयुज्य शत्रुं प्रतिरोद्धुं शक्यमानं चतुर्थं राष्ट्रमिति ख्यातिरपि संलब्धा। एम् के - २ [ए] डि ई डब्ल्यू [ MK - 2(A) LDEW] Laser Directed Energy Weapon इत्यस्ति अस्य आयुधपरिकल्पनस्य नामधेयः। अचिरेण इदं भारतसेनायाः अंशः भविष्यति।