केरले 'के-स्मार्ट्' परियोजना पञ्चायत्तकेन्द्रेषु समारब्धा।
९०० अधिकाः सर्वकारसेवाः ओण्लैन् द्वारा लभन्ते।
अनन्तपुरी> सर्वकारीयसेवाः सुतार्यतया वेगेन च लभ्यमाना 'के-स्मार्ट्' इति अन्तर्जालीयवेदिका केरलस्य त्रिस्तरपञ्चायत्त् मण्डले समारब्धा। अस्याः परियोजनायाः राज्यस्तरीयम् उद्घाटनं मुख्यमन्त्री पिणरायि विजयः निरवहत्।
सामान्यजनैः निरन्तरमपेक्ष्यमाणानि नवशताधिकानि प्रमाणपत्राणि इतरसर्वकारीयपत्राणि च अनया ओण्लैन् वेदिकया लभ्यन्ते।
तद्देशशासनविभागस्य मन्त्री एम् बि राजेषः अध्यक्षः अभवत्। प्रशासनस्वमन्त्री के राजः, भक्ष्यवितरणमन्त्री जि आर् अनिलः, सामाजिकशिक्षामन्त्री वि शिवन् कुट्टिः इत्यादयः भाषणं कृतवन्तः।