समुद्रमण्डलेषु प्रतिरोधं सुशक्तं कर्तुं भारतं सज्जते।
नवदिल्ली> भारतसर्वकारः प्रतिरोधमण्डलेषु बृहत् निक्षेपम् अनुवर्तते। अस्मिन् मासे २६ 'राफेल्-मारिडैम् स्ट्रैक् फैट्टर्' नाम युद्धविमानानि क्रेतुं नरेन्द्रमोदीसर्वकारः अनुमतिं प्रदातुं सज्जः भवति। २०२४-२५ संवत्सरे कोट्यधिक-द्विलक्षाधिकरूप्यकाणि प्रतिरोधमण्डले भारतेन व्ययीकृतानि सन्ति। अस्य मासस्य अन्तिमपादे ७६० कोटि डोलर् धनस्य व्यवस्थापत्रं युद्धविमान-सुरक्षाकार्यपरिषदः समक्षं बोधयिष्यति इति प्रतिवेदनमस्ति। तदनन्तरं त्रयाणां मृत्तैलेन्धन-वैद्युत-अन्तर्वाहिनीनामपि सर्वकारेण अनुज्ञा प्रदीयते।