सम्मोहनम् भारतम्। तारागणानाम् अधः भारतं प्रशोभते।
बाह्याकाशात् संगृहीतं भारतस्य छायाचित्रम् त्वरितप्रसरमभवत्
- रमा टी. के.
वाषिङ्टण्> नक्षत्रजालानाम् अधः ज्वाजल्यमानस्य भारतस्य चित्रं सम्मोहनं भवति। नासायाः अन्ताराष्ट्रियबाह्याकाशनिलयेन बहिः प्रकाशितं बाह्याकाशात् संगृहीतं भारतस्य सम्मोहनं चित्रं त्वरितप्रसरमभवत्। न केवलं भारतस्य किन्तु अमेरिक्का, कानडा, दक्षिण - पूर्वेष्या इत्यादीनां राष्ट्राणां चित्राणि अपि बाह्याकाशनिलयेन स्वीकृतमासीत्। तेषु चित्रेषु भारतस्य चित्रं अन्यचित्राणि अतिरिच्य नितरां प्रशोभते। माकिं १.२ लक्षं जनैः चित्रमिदं संदृष्टम्। एक्स् इति सामाजिकपुटे अस्य चित्रस्य १९०० इष्टानि (like) च लब्धानि।